चित्रदीपः - श्लोक १२१ ते १४०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


अन्तर्यामिणम् आरभ्य स्थावरान्तेश वादिनः । सन्ति अश्वत्थ अर्क वंशादेः कुल दैवत्व दर्शनात् ॥१२१॥

तत्त्व निश्चय कामेन न्यायागम विचारिणाम् । एक एव प्रतिपत्तिः स्यात् सा अपि अत्र स्फुटम् उच्यते ॥१२२॥

मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् । अस्य अवयव भूतैः तु व्याप्तं सर्वम् इदं जगत् ॥१२३॥

इति श्रुति अनुसारेण न्यायः निर्णयः ईश्वरे । तथा सति अविरोधः स्यात् स्थावरान्तेश वादिनाम् ॥१२४॥

माया च इयं तमो रूपा तापनीये तत् ईरणात् । अनुभूतिं तत्र मानं प्रतिजज्ञे श्रुतिः स्वयम् ॥१२५॥

जडं मोहात्मकं तत् च इति अनुभावयति श्रुतिः । आ बाल गोपं स्पष्टत्वात् आनन्त्यं सा अब्रवीत् ॥१२६॥

अचित् आत्मा घट आदिनां यत् स्वरूपं जडं हि तत् । यत्र कुण्ठी भवेत् बुद्धिः स मोहः इति लौकिकाः ॥१२७॥

इत्थं लौकिक दृष्ट्या एतत् सर्वैः अपि अनुभूयते । युक्ति दृष्ट्या तु अनिर्वाच्यं न असत् आसीत् इति श्रुतेः ॥१२८॥

न असत् आसीत् विभातत्वान् नः सत् आसीत् च बाधनात् । विद्या दृष्ट्या श्रुतं तुच्छं तस्य नित्य निवृत्तितः ॥१२९॥

तुच्छा अनिर्वचनीया च वास्तवी च इति असौ त्रिधा । ज्ञेया माया त्रिभिः बोधैः श्रौत यौक्तिक लौकिकैः ॥१३०॥

अस्य सत्त्वम् असत्त्वं च जगतः दर्शयति असौ । प्रसारणात् च संकोचात् यथा चित्रपटः तथा ॥१३१॥

अस्वतन्त्र हि माया स्यात् अप्रतीतेः विना चितिम् । स्वतन्त्र अपि तथा एव स्यात् असङ्गस्य अन्यथा कृतेः ॥१३२॥

कूटस्थ असङ्गम् आत्मानं जगत्त्वेन करोति सा । चित् आभास स्वरूपेण जीवेशौ अपि निर्ममे ॥१३३॥

कूटस्थम् अनुपद्रुत्य करोति जगत् आदिकम् । दुर्घट एकविधायिन्यां मायायां का चमत्कृतिः ॥१३४॥

द्रवत्वम् उदके वह्नौ औष्ण्यं काठिन्यम् अश्मनि । मायायां दुर्घटत्वं च स्वतः सिद्ध्यति न अन्यतः ॥१३५॥

न वेत्ति लोकः यावत् तं साक्षात् तावत् चमत्कृतिम् । धत्ते मनसि पश्चात् तु माया एष इति उपशाम्यति ॥१३६॥

प्रसरन्ति हि चोद्यानि जगत् वस्तुत्व वादिषु । न चोदनीयं मायायां तस्याः चोद्य एकरूपतः ॥१३७॥

चोद्ये अपि यदि चोद्यं स्यात् त्वत् चोद्ये चोद्यते मया । परिहार्यं ततः चोद्यं न पुनः प्रतिचोद्यताम् ॥१३८॥

विस्मय एक शरीराया मायायाः चोद्यरूपतः । अन्वेष्यः परिहारः अस्याः बुद्धिअमद्भिः प्रयत्नतः ॥१३९॥

मायात्वम् एव निश्चेयम् इति चेत् तर्हि निश्चिनु । लोक प्रसिद्ध मायाया लक्षणं यत् तत् ईक्षताम् ॥१४०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP