संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - भौममहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - भौममहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


शस्त्राभिघातवधबन्धनरेन्द्रपीडा

चिन्ताग्रहो विकलरुक्च गृहाश्रमेषु ।

चौराग्निभीतिधननाशयशः प्रणाशं

कुर्याद्विघातभयमत्र दशा कुजस्य ॥१॥

भौममध्ये भौमफलम् ।

भौमे शत्रुविमर्दः स्यात्कलहो बन्धुभिर्नृणाम् ।

स्वान्तरे बहुपीडा स्यादवृद्धस्त्रीगणिकारतिः ॥२॥

भौममध्ये बुधफलम् ।

भूपाग्निनृपचौरेभ्यो भयं पीडा ज्वरादिभिः ।

भूमिजान्तर्गते सौम्ये कलहो दुर्जनादिभिः ॥३॥

भौममध्ये शनिफलम् ।

महादुःखानि जायन्ते जलभीतिमतिर्नृणाम् ।

भौमस्यान्तर्गते मन्दे राजपीडाभयं नृणाम् ॥४॥

भौममध्ये गुरुफलम् ।

पुण्यतीर्थादिगमनं देवब्राह्मणपूजनम् ।

भौमस्यान्तर्गते जीवे लभते वित्तमुत्कटम् ॥५॥

भौममध्ये राहुफलम् ।

शस्त्राग्निनृपचोराणां भीतिर्मृत्युर्नृपाद्भयम् ।

भौमस्यान्तर्गते राहौ मनोदुःखं प्रवर्तते ॥६॥

भौममध्ये शुक्रफलम् ।

शत्रुभीतिर्महाक्लेशो धर्महानिः सुखं व्ययः ।

भौमस्यान्तर्गते शुक्रे भयं भूपात्स्वबन्धनम् ॥७॥

भौममध्ये रविफलम् ।

सम्मतो नृपतेर्भुरिप्रचण्डैः सह सङ्गतिः ।

मङ्गलान्तर्गते भानौ भवेत्कुस्त्रीसमागमः ॥८॥

भौममध्ये चन्द्रफलम् ।

बहुवित्तं सुत्दृत्सौख्यं मुक्ताहेममणिश्रियम् ।

भौमस्यान्तर्गते चन्द्रे प्राप्नोति परमं पदम् ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP