संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ८० वा

वामनपुराण - अध्याय ८० वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


नारद उवाच
पुरूरवा द्विजश्रेष्ठ यथा देवं श्रियः पतिम्
नक्षत्रपुरुषाख्येन आराधयत तद् वद ॥१॥
पुलस्त्य उवाच
श्रूयतां कथयिष्यामि नक्षत्रपुरुषव्रतम्
नक्षत्राङ्गानि देवस्य यानि यानीह नारद ॥२॥
मूलर्क्षं चरणौ विष्णोर्जङ्घे द्वे रोहिणी स्मृते
द्वे जानुनी तथाश्विन्यौ संस्थिते रूपधारिणः ॥३॥
आषाढे द्वे द्वयं चोर्वोर्गुह्यस्थं फाल्गुनीद्वयम्
कटिस्थाः कृत्तिकाश्चैव वासुदेवस्य संस्थिताः ॥४॥
प्रौष्ठपद्याद्वयं पार्श्वे कुक्षिभ्यां रेवती स्थिता
उरःसंस्था त्वनुराधा श्रविष्ठा पृष्ठसंस्थिता ॥५॥
विशाखा भुजयोर्हस्तः करद्वयमुदाहृतम्
पुनर्वसुरथाङ्गुल्यो नखाः सार्पं तथोच्यते ॥६॥
ग्रीवास्थिता तथा ज्येष्ठा श्रवणं कर्णयोः स्थितम्
मुखसंस्थस्तथा पुष्यः स्वातिर्दन्ताः प्रकीर्तिताः ॥७॥
हनू द्वे वारुणश्चोक्तो नासा पैत्र उदाहृतः
मृगशीर्षं नयनयो रूपधारिणि तिष्ठति ॥८॥
चित्रा चैव ललाटे तु भरणी तु तथा शिरः
शिरोरुहस्था चैवाद्रा र्! नक्षत्राङ्गमिदं हरेः ॥९॥
विधानं संप्रवक्ष्यामि यथायोगेन नारद
संपूजितो हरिः कामान् विदधाति यथेप्सितान् ॥१०॥
चैत्रमासे सिताष्टम्यां यदा मूलगतः शशी
तदा तु भगवत्पादौ पूजयेत् तु विधानतः
नक्षत्रसन्निधौ दद्याद् विप्रेन्द्रा य च भोजनम् ॥११॥
जानुनी चाश्विनीयोगे पूजयेदथ भक्तितः
दोहदे च हविष्यान्नं पूर्ववद् द्विजभोजनम् ॥१२॥
आषाढाभ्यां तथा द्वाभ्यां द्वावूरू पूजयेद् बुधः
सलिलं शिशिरं तत्र दोहदे च प्रकीर्तितम् ॥१३॥
फाल्गुनीद्वितये गुह्यं पूजनीयं विचक्षणैः
दोहदे च पयो गव्यं देयं च द्विजभोजनम् ॥१४॥
कृत्तिकासु कटिः पूज्या सोपवासो जितेन्द्रि यः
देयञ्च दोहदं विष्णोः सुगन्धकुसुमोदकम् ॥१५॥
पार्श्वे भाद्र पदायुग्मे पूजयित्वा विधानतः
गुडं सलेहकं दद्याद् दोहदे देवकीर्तितम् ॥१६॥
द्वे कुक्षी रेवतीयोगे दोहदे मुद्गमोदकाः
अनुराधासु जठरं षष्ठिकान्नं च दोहदे ॥१७॥
श्रविष्ठायां तथा पृष्ठं शालिभक्तं च दोहदे
भुजयुग्मं विशाखासु दोहदे परमोदनम् ॥१८॥
हस्ते हस्तौ तथा पूज्यौ यावकं दोहदे स्मृतम्
पुनर्वसावङ्गुलीश्च पटोलस्तत्र दोहदे ॥१९॥
आश्लेषासु नखान् पूज्य दोहदे तित्तिरामिषम्
ज्येष्ठायां पूजयेद् ग्रीवां दोहदे तिलमोदकम् ॥२०॥
श्रवणे श्रवणौ पूज्यौ दधिभक्तं च दोहदे
पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥२१॥
स्वातियोगे च दशना दोहदे तिलशष्कुली
दातव्या केशवप्रीत्यै ब्रह्मणस्य च भोजनम् ॥२२॥
हनू शतभिषायोगे पूजयेच्च प्रयत्नतः
प्रियङ्गुरक्तशाल्यन्नं दोहदं मधुविद्विषः ॥२३॥
मघासु नासिका पूज्या मधु दद्याच्च दोहदे
मृगोत्तमाङ्गे नयने मृगमांसं च दोहदे ॥२४॥
चित्रायोगे ललाटं च दोहदे चारुभोजनम्
भरणीषु शिरः पूज्यं चारु भक्तं च दोहदे ॥२५॥
संपूजनीया विद्वद्भिराद्रा र्यो!गे शिरोरुहाः
विप्रांश्च भोजयेद् भक्त्या दोहदे च गुडार्द्र कम् ॥२६॥
नक्षेत्रयोगेष्वेतेषु सम्पूज्य जगतः पतिम्
पारिते दक्षिणान्दद्यात् स्त्रीपुंसोश्चारुवाससी ॥२७॥
छत्रोपानत्श्वेतयुगं सप्तधान्यानि काञ्चनम्
घृतपात्रं च मतिमन् ब्राह्मणाय निवेदयेत् ॥२८॥
प्रतिनक्षत्रयोगेन पूजनीया द्विजातयः
नक्षत्रमय एवैष पुरुषः शाश्वतो मतः ॥२९॥
नक्षत्रपुरुषाख्यं हि व्रतानामुत्तमं व्रतम्
पूर्वं कृतं हि भृगुणा सर्वपातकनाशनम् ॥३०॥
अङ्गोपाङ्गानि देवर्षे पूजयित्वा जगद्गुरोः
सुरूपाण्यभिजायन्ते प्रत्यङ्गाङ्गानि चैव हि ॥३१॥
सप्तजन्मकृतं पापं कुलसंगागतं च यत्
पितृमातृसमुत्थं च तत्सर्वं हन्ति केशवः ॥३२॥
सर्वाणि भद्रा ण्याप्नोति शरीरारोग्यमुत्तमम्
अनन्तां मनसः प्रीतिं रूपं चातीव शोभनम् ॥३३॥
वाङ्माधुर्यं तथा कान्ति यच्चान्यदभिवाञ्छितम्
ददाति नक्षत्रपुमान् पूजितस्तु जनार्दनः ॥३४॥
उपोष्य सम्यगेतेषु क्रमेणर्क्षेषु नारद
अरुन्धती महाभागा ख्यातिमग्र्यां जगाम ह ॥३५॥
आदित्यस्तनयार्थाय नक्षत्राङ्गं जनार्दनम्
संपूजयित्वा गोविन्दं रेवन्तं पुत्रमाप्तवान् ॥३६॥
रम्भारूपमवापाग्र्यं वाङ्माधुर्यं च मेनका
कान्तिं विधुरवापाग्र्यां राज्यं राजा पुरूरवाः ॥३७॥
एवं विधानतो ब्रह्मन्नक्षत्राङ्गो जनार्दनः
पूजितो रूपधारी यैस्तैः प्राप्ता तु सुकामिता ॥३८॥
एतत् तवोक्तं परमं पवित्रं धन्यं यशस्यं शुभरूपदायि
नक्षत्रपुंसः परमं विधानं शृणुष्व पुण्यामिह तीर्थयात्राम ॥३९॥

इति श्रीवामनपुराणे अशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : September 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP