संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ३५ वा

वामनपुराण - अध्याय ३५ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


लोमहर्षण उवाच
ततो रामह्रदं गच्छेत् तीर्थसेवी द्विजोत्तमः
यत्र रामेण विप्रेण तरसा दीप्ततेजसा ॥१॥
क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥२॥
पितरस्तर्पितास्तेन तथैव च पितामहाः
ततस्ते पितरः प्रीता राममूचुर्द्विजोत्तमाः ॥३॥
राम राम महाबाहो प्रीताः स्मस्तव भार्गव
अनया पितृभक्त्या च विक्रमेण च ते विभो ॥४॥
वरं वृणीष्व भद्रं ते किमिच्छसि महायशः
एवमुक्तस्तु पितृभी रामः प्रभवताः परः ॥५॥
अब्रवीत् प्राञ्जलिर्वाक्यं स पितॄन् गगने स्थितान्
भवन्तो यदि मे प्रीता यद्यनुग्राह्यता मयि ॥६॥
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः
यच्च पोषाभिभूतेन क्षत्रमुत्सादितं मया ॥७॥
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम्
ह्रदाश्चैते तीर्थभूता भवेयुर्भुवि विश्रुताः ॥८॥
एवमुक्ताः शुभं वाक्यं रामस्य पितरस्तदा
प्रत्यूचुः परमप्रीता रामं हर्षपुरस्कृताः ॥९॥
तपस्ते वर्द्धतां पुत्र पितृभक्त्या विशेषतः
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥१०॥
ततश्च पापान्मुक्तस्त्वं पातितास्ते स्वकर्मभिः
ह्रदाश्च तव तीर्थत्वं गमीष्यन्ति न संशयः ॥११॥
ह्रदेष्वेतेषु ये स्नात्वा स्वान् पितॄंस्तर्पयन्ति च
तेभ्यो दास्यन्ति पितरो यथाभिलषितं वरम् ॥१२॥
ईप्सितान् मानसान् कामान् स्वर्गवासं च शाश्वतम्
एवं दत्त्वा वरान् विप्रा रामस्य पितरस्तदा ॥१३॥
आमन्त्र्! य भार्गवं प्रीतास्तत्रैवान्तर्हितास्तदा
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ॥१४॥
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः
राममभ्यर्च्य श्रद्धावान् विन्देद् बहु सुवर्णकम् ॥१५॥
वंशमूलं समासाद्य तीर्थसेवी सुसंयतः
स्ववंशसिद्धये विप्राः स्नात्वा वै वंशमूलके ॥१६॥
कायशोधनमासाद्य तीर्थं त्रैलोक्यविश्रुतम्
शरीरशुद्धिमाप्नोति स्नातस्तस्मिन् न संशयः ॥१७॥
शुद्धदेहश्च तं याति यस्मान्नावर्तते पुनः
तावद् भ्रमन्ति तीर्थेषु सिद्धास्तीर्थपरायणाः
यावन्न प्राप्नुवन्तीह तीर्थं तत्कायशोधनम् ॥१८॥
तस्मिंस्तीर्थे च संप्लाव्य कायं संयतमानसः
परं पदमवाप्नोति यस्मान्नावर्तते पुनः ॥१९॥
ततो गच्छेत विप्रेन्द्रा स्तीर्थं त्रैलोक्यविश्रुतम्
लोका यत्रोद्धृताः सर्वे विष्णुना प्रभविष्णुना ॥२०॥
लोकोद्धारं समासाद्य तीर्थस्मरणतत्परः
स्नात्वा तीर्थवरे तस्मिन् लोकान् पश्यति शाश्वतान् ॥२१॥
यत्र विष्णुः स्थितो नित्यं शिवो देवः सनातनः
तौ देवौ प्रणिपातेन प्रसाद्य मुक्तिमाप्नुयात् ॥२२॥
श्रीतीर्थं तु ततो गच्छेत् शालग्राममनुत्तमम्
तत्र स्नातस्य सान्निध्यं सदा देवी प्रयच्छति ॥२३॥
कपिलाह्रदमासाद्य तीर्थं त्रैलोक्यविश्रुतम्
तत्र स्नात्वाऽर्चयित्वा च दैवतानि पितॄंस्तथा २॥४॥
कपिलानां सहस्रस्य फलं विन्दति मानवः
तत्र स्थितं महादेवं कापिलं वपुरास्थितम् ॥२५॥
दृष्ट्वा मुक्तिमवाप्नोति ऋषिभिः पूजितं शिवम्
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥२६॥
अर्चयित्वा पितॄन् देवानुपवासपरायणः
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥२७॥
सहस्रकिरणं देवं भानुं त्रैलोक्यविश्रुतम्
दृष्ट्वा मुक्तिमवाप्नोति नरो ज्ञानसमन्वितः ॥२८॥
भवानीवनमासाद्य तीर्थसेवी यथाक्रमम्
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥२९॥
पितामहस्य पिबतो ह्यमृतं पूर्वमेव हि
उद्गारात् सुरभिर्जाता सा च पातालमाश्रिता ॥३०॥
तस्याः सुरभयो जाताः तनया लोकमातरः
ताभिस्तत्सकलं व्याप्तं पातालं सुनिरन्तरम् ॥३१॥
पितामहस्य यजतो दक्षिणार्थमुपाहृताः
आहूता ब्रह्मणा ताश्च विभ्रान्ता विवरेण हि ॥३२॥
तस्मिन् विवरद्वारे तु स्थितो गणपतिः स्वयम्
यं दृष्ट्वा सकलान् कामान् प्राप्नोति संयतेन्द्रि यः ॥३३॥
संगिनीं तु समासाद्य तीर्थं मुक्तिसमाश्रयम्
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥३४॥
अनन्तां श्रियमाप्नोति पुत्रपौत्रसमन्वितः
भोगांश्च विपुलान् भुक्त्वा प्राप्नोति परमं पदम् ॥३५॥
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मज्ञानसमन्वितः
भवते नात्र सन्देहः प्राणान् मुञ्चति स्वेच्छया ॥३६॥
ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम्
तस्य तीर्थं सरस्वत्यां यक्षेन्द्र स्य महात्मनः ॥३७॥
तत्र स्नात्वा महाप्राज्ञ उपवासपरायणः
यक्षस्य च प्रसादेन लभते कामिकं फलम् ॥३८॥
ततो गच्छेत विप्रेन्द्रा ब्रह्मावर्त्तं मुनिस्तुतम्
ब्रह्मावर्त्ते नरः स्नात्वा ब्रह्म चाप्नोति निश्चितम् ॥३९॥
ततो गच्छेत विप्रेन्द्रा ः! सुतीर्थकमनुत्तमम्
तत्र संनिहिता नित्यं पितरो दैवतैः सह ॥४०॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः
अश्वमेधमवाप्नोति पितॄन् प्रीणाति शाश्वतान् ॥४१॥
ततोऽम्बुवनं धर्मज्ञ समासाद्य यथाक्रमम्
कामेश्वरस्य तीर्थं तु स्नात्वा श्रद्धासमन्वितः ॥४२॥
सर्वव्याधिविनिर्मुक्तो ब्रह्मवाप्तिर्भवेद् ध्रुवम्
मातृतीर्थं च तत्रैव यत्र स्नातस्य भक्तितः ॥४३॥
प्रजा विवर्द्धते नित्यमनन्तां चाप्नुयाच्छ्रियम्
ततः शीतवनं गच्छेन्नियतो नियताशनः ॥४४॥
तीर्थं तत्र महाविप्रा महदन्यत्र दुर्लभम्
पुनाति दर्शनादेव दण्डकं च द्विजोत्तमाः ॥४५
केशानभ्युक्ष्य वै तस्मिन् पूतो भवति पापतः
तत्र तीर्थवरं चान्यत् स्वानुलोमायनं महत् ४६॥
तत्र विप्रा महाप्राज्ञा विद्वांसस्तीर्थतत्पराः
स्वनुलोमायने तीर्थे विप्रास्त्रैलोक्यविश्रुते ॥४७॥
प्राणायामैर्निहरन्ति स्वलोमानि द्विजोत्तमाः
पूतात्मानश्च ते विप्राः प्रयान्ति परमां गतिम् ॥४८॥
दशाश्वमेधिकं चैव तत्र तीर्थं सुविश्रुतम्
तत्र स्नात्वा भक्तियुक्तस्तदेव लभते फलम् ॥४९॥
ततो गच्छेत श्रद्धावान् मानुषं लोकविश्रुतम्
दर्शनात् तस्य तीर्थस्य मुक्तो भवति किल्बिषैः ॥५०॥
पुरा कृष्णमृगास्तत्र व्याधेन शरपीडिताः
विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः ॥५१॥
ततो व्याधाश्च ते सर्वे तानपृच्छन् द्विजोत्तमान्
मृगा अनेन वै याता अस्माभिः शरपीडिताः ॥५२॥
निमग्नास्ते सरः प्राप्य क्व ते याता द्विजोत्तमाः
तेऽब्रुवंस्तत्र वै पृष्टा वयं ते च द्विजोत्तमाः ॥५३॥
अस्य तीर्थस्य माहात्म्यान् मानुषत्वमुपागताः
तस्माद् यूयं श्रद्दधानाः स्नात्वा तीर्थे विमत्सराः ॥५४॥
सर्वपापविनिर्मुक्ता भविष्यथ न संशयः
ततः स्नाताश्च ते सर्वे शुद्धदेहा दिवं गताः ॥५५॥
एतत् तीर्थस्य माहात्म्यं मानुषस्य द्विजोत्तमाः
ये शृण्वन्ति श्रद्दधानास्तेऽपि यान्ति परां गतिम् ॥५६॥
इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चत्रिंशत्तमोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP