संस्कृत सूची|संस्कृत साहित्य|पुराण|वामनपुराण|
अध्याय ३२ वा

वामनपुराण - अध्याय ३२ वा

भगवान विष्णु ह्यांचा वामन अवतार हा पाचवा तसेच त्रेता युगातील पहिला अवतार होय.


ऋषय ऊचुः
कथमेषा समुत्पन्ना नदीनामुत्तमा नदी
सरस्वती महाभागा कुरुक्षेत्रप्रवाहिनी ॥१॥
कथं सरः समासाद्य कृत्वा तीर्थानि पार्श्वतः
प्रयाता पश्चिमामाशां दृश्यादृश्यगतिः शुभा
एतद् विस्तरतो ब्रूहि तीर्थवंशं सनातनम् ॥२॥
लोमहर्षण उवाच
प्लक्षवृक्षात् समुद्भूता सरिच्छ्रेष्ठा सनातनी
सर्वपापक्षयकरी स्मरणादेव नित्यशः ॥३॥
सैषा शैलसहस्राणि विदार्य च महानदी
प्रविष्टा पुण्यतोयोघा वनं द्वैतमिति स्मृतम् ॥४॥
तस्मिन् प्लक्षे स्थितां दृष्ट्वा मार्कण्डेयो महामुनिः
प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥५॥
त्वं देवि सर्वलोकानां माता देवारणिः शुभा
सदसद् देवि यत्किञ्चिन्मोक्षदाय्यर्थवत् पदम् ॥६॥
तत् सर्वं त्वयि संयोगि योगिवद् देवि संस्थितम्
अक्षरं परमं देवि यत्र सर्वं प्रतिष्ठितम्
अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम् ॥७॥
दारुण्यवस्थितो वह्निर्भूमौ गन्धो यथा ध्रुवम्
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥८॥
ॐकाराक्षरसंस्थानं यत् तद् देवि स्थिरास्थिरम्
तत्र मात्रात्रयं सर्वमस्ति यद् देवि नास्ति च ॥९॥
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम्
त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ॥१०॥
त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात्
त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥११॥
एतन्मात्रात्रयं देवि तव रूपं सरस्वति
विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥१२॥
सोमसंस्था हविःसंस्था पाकसंस्था सनातनी
तास्त्वदुच्चारणाद् देवि क्रियन्ते ब्रह्मवादिभिः ॥१३॥
अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम्
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥१४॥
तवैतत् परमं रूपं यन्न शक्यं मयोदितुम्
न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥१५॥
स विष्णुः स वृषो ब्रह्मा चन्द्रा र्कज्योतिरेव च
विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम् ॥१६॥
साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम्
अनादिमध्यनिधनं सदसच्च सदेव तु ॥१७॥
एकं त्वनेकधाप्येकभाववेदसमाश्रितम्
अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम् ॥१८॥
नानाशक्तिविभावज्ञं नानाशक्तिविभावकम्
सुखात् सुखं महात्सौख्यं रूपं तत्त्वगुणात्मकम् ॥१९॥
एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत्
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥२०॥
येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः
ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः
२१
यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किञ्चित्
यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्संबद्धं
त्वत्स्वरैर्व्यञ्जनैश्च ॥२२॥
एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती
प्रत्युवाच महात्मानं मार्कण्डेयं महामुनिम्
यत्र त्वं नेष्यसे विप्र तत्र यास्याम्यतन्द्रि ता ॥२३॥
मार्कण्डेय उवाच
आद्यं ब्रह्मसरः पुण्यं ततो रामह्रदः स्मृतः
कुरुणा ऋषिणा कृष्टं कुरुक्षेत्रं ततः स्मृतम्
तस्य मध्येन वै गाढं पुण्या पुण्यजलावहा ॥२४॥
इति श्रीवामनपुराणे सरोमाहात्म्ये द्वात्रिंशत्तमोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : September 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP