TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

कीर्तिसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


कीर्तिसेनाख्यायिका
श्रृणु श्वश्रुकृतैर्दुःखैर्यथाप्ता कीर्तिसेनया ।
विपत्स्वबुद्ध्या च यथा निस्तीर्णा व्यसनोदधिम् ॥२१९॥
धनपालित इत्यासीद्वणिक्पाटलिपुत्रके ।
कीर्तिसेनाभवत्तस्य कन्या लावण्यवाहिनी ॥२२०॥
तां यौवनवतीं काले स सारङ्गविलोचनाम् ।
देवसेनाय वणिजे मग्धावासिने ददौ ॥२२१॥
सा भर्त्रा लालिता स्वैरं श्वश्र्वा कलहपीडिता ।
उवास गेहे श्रीखण्डवने सर्पाकुले यथा ॥२२२॥
ततः कदाचिद्वलभीं प्रस्थितो द्रविणार्जने ।
देवसेनः प्रियावेश्म विवेशामन्त्रणोद्यतः ॥२२३॥
तमब्रवीत्कीर्तिसेना त्वयि याते ध्रुवं विभो ।
भर्त्सयिष्यति मां श्वश्रूः कलहेन निरन्तरम् ॥२२४॥
इति प्रियावचः श्रुत्वा संस्तभ्य विरहव्यथाम् ।
ययौ मातरमाभाष्य वर्तयेथाः स्नुषामिति ॥२२५॥
तस्मिन्गते तज्जननी सततं क्रोधमूर्च्छिता ।
वियोगदुःखितां प्राह कीर्तिसेनां नताननाम् ॥२२६॥
सुकृते नित्यरुदिते दुर्भत्गे मङ्गलोज्झिते ।
बाष्पं ते पितुरेवास्तु पुत्रो जीवतु मे चिरम् ॥२२७॥
उक्त्वेति तत्परिजनं निरस्य सहसा गृहम् ।
भयात्प्रसन्नवदनां पुनराह परेऽहनि ॥२२८॥
हासशीले तव पतिर्भयाद्देशान्तरं गतः ।
त्वं नु वेश्येव निःस्नेहा विलासेनेक्षसे जनम् ॥२२९॥
इति नानाविधोद्वेगैः सावेगक्रोधदुःसहैः ।
वाक्सायकैस्तामसकृज्जघान विरहेऽपि सा ॥२३०॥
संमन्त्र्य तद्वधोपायं तामथान्धगृहोदरे ।
रक्षेऽहं भर्तृद्रविणं स्वमित्युक्त्वा न्यवेशयत् ॥२३१॥
श्वश्र्वा च पिहिते तत्र न्यस्ता सा निबिडार्गले ।
सदाशनचतुर्भागं लेभे भग्नशरावके ॥२३२॥
शरावकर्परेणाथ सा चखान गृहं शनैः ।
दैवात्प्राप्तेन च पुनः खनित्रेण महाबिलम् ॥२३३॥
तेनैव निशि निर्गम्य गृहीतकनकाम्बरा ।
विधाय पौरुषं वेषं वलभीप्रमुखं ययौ ॥२३४॥
पथि सार्थपतिं प्राप्य कृतराजसुताकृतिः ।
प्रययौ पुरुषस्पर्शपरिहारपरैव सा ॥२३५॥
ततस्तस्मिन्महासार्थे पपाताशनिवन्निशि ।
चौरसेना विधौ वामे त्रुट्यन्त्यालम्बनान्यपि ॥२३६॥
सा चौरभयवित्रस्ता सार्थे निःशेषतं गते ।
उवास गूढां रजनीं तृणे भूकुहरान्तरे ॥२३७॥
प्रातस्ततो विनिर्गत्य प्रविष्टा विकटाटवीम् ।
सिंहव्यालैर्न निहता सतीतेजोऽतिदुःसहम् ॥२३८॥
राजपुत्राकृतिं दृष्ट्वा तामथ श्रमतापिताम् ।
कारुण्यात्सलिलैः शीतैर्वितृश्णामकरोन्मुनिः ॥२३९॥
तिरोहिते मुनिसुते निशीथे प्रत्युपस्थिते ।
सा तस्थौ दस्युचकिता सुषिरद्रुमकोटरे ॥२४०॥
ततोऽर्धरात्रे संप्राप्ते राक्षसीं सह पुत्रकैः ।
छायामिव कृतान्तस्य ददर्शालिखि(लक्षि)ता पुरः ॥२४१॥
भोजनं याच्यमानासौ तनयांस्तानभाषत ।
महाकालेन निर्दिष्टं भोजनं नो भविष्यति ॥२४२॥
वसुदत्ताभिधो राजा वसुदत्तपुराधिपः ।
शतपद्या समाक्रान्तः कर्णरन्ध्रप्रविष्टया ॥२४३॥
तत्प्रसूतैः शतपदीशतैर्व्याप्तशिरोन्तरः ।
अविज्ञातामयो वैद्यैर्भविता पूर्णभोजनम् ॥२४४॥
श्रुत्वेति कौतुकाविष्टैः सा पृष्टा राक्षसैः सुतैः ।
नृपस्य जीवितोपायं वीतशङ्कमभाषत ॥२४५॥
घृताभ्यक्तः स मध्याह्नतापे संतप्तपायसैः ।
उपलिप्तं शिरः कृत्वा श्रवणे वेणुनालकाम् ॥२४६॥
स्थापयेन्नालिकाप्रान्ते कुम्भं यदि सुशीतलम् ।
ततोऽस्मिन्निःसरन्त्येव शतपद्यो न संशयः ॥२४७॥
किमनेनाथवास्माकं यातु राजा स पञ्चताम् ।
अस्मत्संतृप्तये तूर्णमित्युक्त्वा राक्षसी ययौ ॥२४८॥
कीर्तिसेना निशम्यैवं प्रातस्तं प्रययौ नृपम् ।
अदूरवासिनीं क्षिप्रं वैद्यवेषोपलक्षिता ॥२४९॥
पूर्णेन्दुसुन्दरमुखः श्रीमानेक इवाश्विनोः ।
सुकुमारारविन्दाक्षो वैद्यो देशान्तरागतः ॥२५०॥
नृपं स्वस्थं विधास्यामि द्वारपं प्रति दर्शयन् ।
प्रविष्ट इति राजानं प्रतीहारो व्यजिज्ञपत् ॥२५१॥
ततः क्षिप्रं समाहूय राज्ञा देव्या च पूजिता ।
वैद्यवेषाविशत्क्षिप्रं कीर्तिसेना नृपालयम् ॥२५२॥
ददर्श नृपतिं तत्र क्षयक्षीणमिवोडुपम् ।
शोषितं घूणसंघेन छायावृक्षमिवाततम्म ॥२५३॥
देवीकरतलन्यस्तकपालो वीक्ष्य तं नृपः ।
निभृतोऽभूच्छुभप्राप्तौ मनः पूर्वं प्रसीदति ॥२५४॥
ततो यथोक्तं राक्षस्या सा विधाय महीपतेः ।
चकर्ष शिरसो व्याधिं येन स्वस्थोऽभवत्क्षणात् ॥२५५॥
व्याधिमुक्तोऽथ नृपतिर्वैद्यवेषामुवाच ताम् ।
राज्यं ममाश्वरत्नाढ्यं गृहाणेति प्रसन्नधीः ॥२५६॥
साब्रवीन्न्यासभूतं मे संप्रति त्वयि तिष्ठतु ।
याचितो दास्यसीत्युक्त्वागूढा तस्थौ तदालये ॥२५७॥
ततः कालेन स वणिग्देवसेनः समाययौ ।
महाभाण्डधनाभोगपूरिताशेषपत्तनः ॥२५८॥
राज्ञा निवारितं गन्तुं शुल्कायतमुपेत्य सा ।
चिरसंगमपीयूषप्लाव्यमानाभवन्मुहुः ॥२५९॥
देवसेनः स विज्ञाय कीर्तिसेनां सकौतुकः ।
दृष्ट्वा निशम्य वृत्तान्तं बभूव प्रमदाकुलः ॥२६०॥
भूपालोऽपि तदाश्चर्यं विदित्वा निखिलं ततः ।
उवाच धर्मभगिनी ममेयं त्वं स्वसुः पतिः ॥२६१॥
वैद्यवेषं विधायैषा जीवितं विततार मे ।
इत्युक्त्वा वणिजे राजा राज्यार्धं मुदितो ददौ ॥२६२॥
इति श्वश्र्वा सुविपुले पातिता शोकसागरे ।
कीर्तिसेना स्वधैर्येण तारिता प्राप वल्लभम् ॥२६३॥
इति कीर्तिसेनाख्यायिका ॥११॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-11T20:36:49.8730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

खदका

  • पु १ खदखद अशी उकळी , कड . ( क्रि० येण ). २ ( ल .) उकाळा ( प्रीतीचा , ममतेचा ); हुंदका ; आवेग ( रडण्याचा , हंसण्याचा ); उबळ ; झटका ( दमा खाकला इ० चा ); जोराचें उधाण ( खरुज इ० चें ) ( क्रि० येणें ) ( ध्व .) 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.