संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|
कलिङ्गसेनामदनवेगसमागमः

कलिङ्गसेनामदनवेगसमागमः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति मन्त्रिवचः श्रुत्वा प्रच्छन्नो ब्रह्मराक्षसः ।
कलिङ्गसेनाभवनं तत्प्रयुक्तः पुनर्ययौ ॥५०५॥
अत्रान्तरे स्मराकृष्टश्चिरान्न्यस्तमनोरथः ।
धीमान्न्मदनवेगाख्यो विद्याधरपतिः स्वयम् ॥५०६॥
वत्सेशवेशमाधाय निर्विशेषमवाद्रितः ।
कलिङ्गसेनाभवनं विवेश विशद्द्युतिः ॥५०७॥
कलिङ्गसेना तं वीक्ष्य ध्यात्वा वत्सनरेश्वरम् ।
ससंभ्रमं समुत्तस्थौ रणन्नूपुरमेखला ॥५०८॥
लज्जानतमुखाम्भोजां कम्पमानां घनस्तनीम् ।
गान्धर्वोद्वाहविधिना हृष्टस्तामालिलिङ्ग सः ॥५०९॥
तं दृष्ट्वा तूर्णमासाद्य प्राह यौगंधरायणम् ।
राक्षसो वत्सराजेन राजपुत्री वृतेति सः ॥५१०॥
असंभाव्यमिदं मन्ये नायं राजा विश्रृङ्खलः ।
ध्रुवं कश्चित्स तद्वेषो मन्त्री प्राहेति विस्मितः ॥५११॥
नृपं वासवदत्ताया मन्दिरे वीक्ष्य मन्त्रिणा ।
विसृष्टो राक्षसः प्रायाद्द्रष्टुं कपटकामुकम् ॥५१२॥
कलिङ्गसेनाभवने सोऽपश्यन्नृपरूपिणम् ।
विद्याधरेन्द्रं सुरतश्रमनिद्राविमोहितम् ॥५१३॥
इति कलिङ्गसेनामदनवेगसमागमः ॥१९॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP