TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

मूर्खाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मूर्खाख्यायिका
अथार्चयित्वा श्रीकण्ठं विधिना पार्वतीपतिम् ।
नभसा जग्मतुः सख्यौ ते विमानेन भास्वता ॥३३९॥
वृद्धवर्षधरोपेता राजपुत्री मनोजवम् ।
यन्त्रचक्रविमानं तद्भेजे दोलाविलासवत् ॥३४०॥
नृपं श्येनजित द्रष्टुं वत्सराजं च सुन्दरी ।
प्रस्थिता गमनं चक्रे राजपुत्री सुधामयम् ॥३४१॥
श्रावन्तीं नगरीं प्राप्य विमानादधिरुह्य सा ।
सख्या श्येनजितं दूराद्दर्शितं नाभ्यमन्यत ॥३४२॥
श्रीमानपि स राजेन्द्रस्तसा नाभिमतोऽभवत् ।
पद्माकर इवोत्फुल्लसरत्पूर्णशशित्विषः ॥३४३॥
अलक्षिता तमालोक्य प्राह सोमप्रभां ततः ।
सखि वत्सेश्वरं द्रष्टुं त्वरते मम मानसम् ॥३४४॥
इत्युक्त्वा यन्त्ररचितं विमानमधिरुह्य सा ।
क्षणादेवाप कौशाम्बीं विलाससदनं श्रियः ॥३४५॥
अवतीर्य वरोद्याने तत्र सख्या सहोचिते ।
तस्थाअलिकुलालोललताजालतिरोहिता ॥३४६॥
अत्रान्तरे नवोद्याने विलासरसतत्परः ।
वत्सेश्वरः समभ्यायात्तं देशमतुलद्युतिम् ॥३४७॥
तमालुलोके सानन्दं कम्पमानघनस्तनी ।
कलिङ्गसेना स्वेदाम्बुक्शाल्यमानविशेषका ॥३४८॥
स तस्या मानसोल्लासपूर्णचन्द्रोदयो नृपः ।
चकारोत्कलिकालोललहरीकेलिताण्डवम् ॥३४९॥
सहसा तद्गतमतिर्बभूव लिखितेव सा ।
पुरुषोत्तममालोक्य कमलेव नवोदिता ॥३५०॥
गम्भीरधीरललितं तं विलोक्य जहर्ष सा ।
धृतक्षत्रोचिताकारं हरवैरादिव स्मरम् ॥३५१॥
सोमप्रभा सखीं दृष्ट्वा नरेन्द्रगतमानसाम् ।
उवाच सखि तिष्ठेह पुनर्मत्संगमावधिम् ॥३५२॥
स्यन्दमानमिदं चक्षुर्नेष्टमाशंसतीव मे ।
धियैव तत्समाख्यातं कर्तव्या नाधृतिस्त्वया ॥३५३॥
यौगंधरायणगिरं विमानाय नरेश्वरः ।
स तयानुगतो नित्यमभीष्टेऽतिप्रवर्तते ॥३५४॥
तस्माद्यत्नाद्विधास्यामि तव वत्सेश संगतिम् ।
गच्छामि त्वमविज्ञाता विलम्बस्वेह सुन्दरि ॥३५५॥
इत्युक्त्वा दैत्यतनया प्रययौ व्योमगामिनी ।
तस्थौ कलिङ्गसेनाथ वत्सराजाभिलाषिणी ॥३५६॥
ताम्यन्ती मन्मथाक्रान्ता ततः कञ्चुकिनं निजम् ।
प्राहिणोद्वत्सराजाय दूतं सा वाञ्छिताप्तये ॥३५७॥
राजन्विराजमानं त्वां वरयत्री महीपतिम् ।
सुता कलिङ्गदत्तस्य प्राप्तेत्याह स भूपतिम् ॥३५८॥
श्रुत्वा विश्रुतलावण्यां स्वयंप्राप्तां नृपात्मजाम् ।
हर्षादमन्यतात्मानं धन्योऽस्मीति नरेश्वरः ॥३५९॥
ततो रहः समाहूय हृष्टो यौगंधरायणम् ।
राजेन्द्रचन्द्रः प्रोवाच विकिरन्दन्तचन्द्रिकाम् ॥३६०॥
राज्ञः कलिङ्गदत्तस्य तनया रूपविश्रुता ।
वरयित्री स्वयं प्राप्ता मामद्य मदनावनिः ॥३६१॥
विधीयतां समारम्भस्तद्विवाहमहोत्सवे ।
तूर्णं दुर्लभलाभेषु बहुविघ्ना हि सिद्धयः ॥३६२॥
श्रुत्वेति भूपतिवचः प्रदध्यौ मन्त्रिकुञ्जरः ।
अभेषजेऽस्मिन्व्यसने भूपतिर्मा पतत्विति ॥३६३॥
को ह्यसामान्यसौन्दर्यलावण्यतरलभ्रुवाम् ।
मुच्येत वशमासाद्य स्वभावरसिको जनः ॥३६४॥
अमात्यश्चिन्तयित्वेति नीतिज्ञो गणकैर्व्यधात् ।
विवाहलग्नव्याजेन कालहारं महीपतेः ॥३६५॥
नृपोऽथ रत्नरुचिरं वरोद्यानमुदारधीः ।
ददौ कलिङ्गसेनायै गृहं परिणयोत्सुकः ॥३६६॥
यौगंधरायणोऽप्यस्य सार्धं वासवदत्तया ।
पद्मावत्या च संमन्त्र्य कालहारमचिन्तयत् ॥३६७॥
सोऽ‍ब्रवीद्देवि संस्तम्भ्य कोपमीर्ष्यासमुत्थितम् ।
कुर्वाथां भूपतिपुरः कृतकः स्वस्थमानसम् ॥३६८॥
नवोद्वाहे नरपतेर्वर्तते भृशमादरम् ।
स धर्तुं प्रातिकूल्येन शक्यः केनानिलोपमः ॥३६९॥
जडा विपर्ययायैव विषमेषु तरङ्गिताः ।
संनद्धा विनिवर्तन्ते नदीवेगा इवेश्वराः ॥३७०॥
आनुकूल्येन युक्त्यैव सेविता यान्ति मार्दवम् ।
वेगोत्सृष्टा हि शाम्यन्ति ज्वराकाला इवेश्वराः ॥३७१॥
कालहारेण नहुषो वञ्चितः प्रार्थनापरः ।
शच्या चारित्ररक्षायै शक्रे विप्रोषिते पुरा ॥३७२॥
इति संविदमाधाय मन्त्री वासवदत्तया ।
मित्रं सस्मार कार्यार्थं यौगेशं ब्रह्मराक्षसम् ॥३७३॥
तं ध्यातमात्रमायातं वृत्तं ज्ञातुं न्यवेशयत् ।
गूढं कलिङ्गसेनाया मन्दिरे युक्तिकोविदः ॥३७४॥
अत्रान्तरे मयसुता समभ्येत्य विहायसा ।
कलिङ्गसेनां सोत्कण्ठं कण्ठे जग्राह सादरम् ॥३७५॥
चिरायाता सखीवृत्तं विज्ञाय ज्ञानचक्षुषा ।
प्राह सोमप्रभा सोमप्रभावयवशालिनी ॥३७६॥
स्वयं मयि प्रयातायां किमात्मा वत्सभूपतेः ।
त्वया प्रकाशितः सत्यमधीरं ललनामनः ॥३७७॥
मन्मतं समतिक्रम्य रभसा हतसाहसम् ।
कृतं सुष्ठु त्वया मौग्ध्यान्मूर्खाः साधुमतद्विषः ॥३७८॥
अन्तर्वेद्यां द्विजग्रामे वसुदत्तसुतो द्विजः ।
विष्णुदत्तोऽभवद्विद्यावधूविभ्रमदर्पणः ॥३७९॥
स मित्रैः सप्तभिर्मूखैः सह गन्तुं भृशोत्थितः ।
बलिभिस्त्वरयाविष्टैरनक्षत्रे विनिर्ययौ ॥३८०॥
दुर्निमित्तं समालोच्य तेन ते स्थातुमर्थिताः ।
अज्ञानदुर्ग्रहग्रस्ता न व्यलम्बन्त सत्वराः ॥३८१॥
अपि यत्नेन शक्यन्ते धर्तुं प्रलयमारुताः ।
विवृद्धाश्च नदीवेगा न तु मूर्खा हितद्विषाः ॥३८२॥
स गत्वा सह तैर्दूरं वध्व शपथसंविदम् ।
निशि प्रतिश्रयाकाङ्क्षी विवेश पुरमन्दिरम् ॥३८३॥
भुक्त्वा श्रमार्तास्ते तत्र मूर्खास्तस्यानुयायिनः ।
भृशं समाययुर्निद्रां स च जाग्रद्विचारधीः ॥३८४॥
महानिद्रा महाकोपा महामोहा महाशनाः ।
मूर्खाः पशूनां वा शिष्या मूर्खाणां पशवोऽथवा ॥३८५॥
स विनिद्रस्ततोऽपश्यन्निशि तद्गृहयोषितम् ।
निम्नगामिव तारुण्यमहावेगतरङ्गिताम् ॥३८६॥
प्रच्छन्नकामिनी यूना केनापि रतिसंगता ।
सकम्पाकुलनिःश्वासो विदधे तस्य कौतुकम् ॥३८७॥
रतिनिद्रापरीतायां तस्यां स्वगृहमाविशत् ।
गृहस्वामी समायातो विसृज्य निजसेवकान् ॥३८८॥
स राजवंश्यः स्ववधूं दृष्ट्वा केनापि संगताम् ।
शिरश्चिच्चेद सुप्तस्य प्रियाचारित्रहारिणः ॥३८९॥
खङ्गं तद्रक्तसंसिक्तं दीप्तं बिभ्रत्स पाणिना ।
तान्प्राह पान्थान्निर्गत्य जलमानीयतामिति ॥३९०॥
विष्णुदत्तो विनिर्दोऽथ समुत्थाय ससंभ्रम म् ।
जलं तस्मै ददौ पाणिस्थितखङ्गाय वारणम् ॥३९१॥
पाणि प्रक्षाल्य राजन्ये मोहान्निद्रामुपागते ।
प्रबुद्धा छिन्नशिरसं सापश्यन्नरमङ्गना ॥३९२॥
मनःप्रियं तमादाय निहतं लघुचारिणी ।
भस्मकूटे सुपिहितं रथ्योपान्ते न्यवेशयत् ॥३९३॥
तं निधाय प्रविश्याशु पत्युः सुप्तस्य मस्तकम् ।
चिच्छेदाकृष्य निस्त्रिंशं घोरं हि स्त्रीविचेष्टितम् ॥३९४॥
ततश्चुक्रोश सा तारमयं प्राणपतिर्मम ।
दस्युभिर्निहतो रात्रौ तच्छ्रुत्वा विविशुर्जनाः ॥३९५॥
तैर्गृहीतांशुकाः पान्थास्ते भृशं वेषविह्वलाः ।
चौरा इति वधूवाक्यान्मूर्खा नो किंचिदूचिरे ॥३९६॥
यथावृत्तं यथादृष्टं विष्णुदत्तस्ततोऽब्रवीत् ।
भस्मकूटान्तरधृतं तत्संदृश्य कलेवरम् ॥३९७॥
प्रत्यायातैस्तथा मुक्तो दुर्निमित्तविनिर्गतान् ।
निन्दन्वयस्यान्प्रययौ विष्णुदत्तः स्वमन्दिरम् ॥३९८॥
इत्येवमनिमित्तानि मूर्खैरगणितान्यपि ।
फलन्ति भेषजं तेषां साधुविद्वत्समागमः ॥३९९॥
इति मूर्खाख्यायिका ॥१४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-12T20:24:47.8570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आपली गाय परायाचा वेल खाय

  • स्वतःच्या गाईकडून दुसर्‍याचा वेल खावविणें म्हणजे दुसर्‍याचें घेऊन स्वतःची धन करण्यासारखें आहे. स्वार्थीपणा. 
RANDOM WORD

Did you know?

हिंदू धर्मात मुलाचे जावळ काढतात परंतु मुलीचे का काढत नाहीत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.