TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

मदनमञ्चकाविवाहो

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


मदनमञ्चकाविवाहो
N/Aगोमुखश्चिन्तयित्वेति राजपुत्रं समभ्ययात् ।
मरुभूतिप्रभृतिभिः सेव्यमानं मनःप्रियैः ॥५९६॥
नानाकथान्तरे तत्र राजनीतिविदो मिथः ।
नरवाहनदत्ताग्रे ते प्राहुः सेवकाः श्रुतम् ॥५९७॥
दृप्ताः कष्टेन सिद्ध्यन्ति प्लवङ्गचपला नृपाः ।
ये सेव्यमानाः कुप्यन्ति प्रसीदन्ति च वञ्चिताः ॥५९८॥
सम्स्त्चित्रग्रहणं साहसं स्वामिवञ्चनम् ।
अहो व्रतमिदं तीक्ष्णं योगिनः सेवकस्य च ॥५९९॥
एतद्धि परमं तत्त्वं सेव्यते यन्महीपतेः ।
समस्तग्रहणे राज्ञो मरुतां च क ईश्वरः ॥६००॥
राजा न संहताञ्जेतुं शक्रोति सरलाशयः ।
यस्तान्भिनत्ति यत्नेन तस्य लक्ष्मीर्विनश्वरी ॥६०१॥
मथुरायां पुरा राजा शूरसेनः सुसंहतान् ।
भृत्यान्विलोक्य भेदेन योजयामास योगवित् ॥६०२॥
दत्वा प्रसादमेकस्मै तीव्रं परमदण्डयत् ।
तमप्यदण्डयत्काले सर्वानेकैकशस्ततः ॥६०३॥
इति सन्ति नृपाः प्राज्ञाः सेव्यास्ते तत्त्वदर्शिनः ।
इत्यादि कथया तस्थौ वयस्यैर्नरवाहनः ॥६०४॥
अथ मानसवेगाख्यो विद्याधरपतिः स्वयम् ।
कलिङ्गसेनातनयालाभे चक्रे मनोरथम् ॥६०५॥
त्तः कलिङ्गसेनाया वचसा वत्सभूपतिः ।
यौगंधरायणसखः पुत्रोद्वाहे समुद्ययौ ।
इत्यादिकथया तस्थौ वयस्यान्नरवाहनः ॥६०६॥
ततः कलिङ्गसेनाया वचसा वत्सभूपतिः ।
यौगंधरायणसखः पुत्रोद्वाहे समुद्ययौ ॥६०७॥
शस्ते मुहूर्ते विमले प्रवृत्ते देवतागणे ।
पुष्पवर्षे सुरैर्मुक्ते विवाहोचितकङ्कणा ॥६०८॥
विवेश भूषिता देवी कन्या मदनमञ्चुका ।
निजकान्तिवितानेन भूषयन्ती विभूषणम् ॥६०९॥
वह्निप्रदक्षिणे तस्याः पत्युः पार्श्वविलोकिनी ।
ननाम दृष्टिः पर्यस्ता स्रस्तेवोत्पलमालिका ॥६१०॥
सकोपोऽभूत्तदा लक्ष्मीर्ह्येतेषां लग्नसंगमे ।
कल्पविद्याभृतां यस्याः प्रभावश्चक्रवर्तिता ॥६११॥
अथ नयनविलासस्मेरवक्त्रेन्दुभासा
स्फुटमिह हि स रत्या संगतः पुष्पचापः ।
बत विधिविहतोऽयं कोऽपि नेत्रोत्सवो नः  
क्षणमिति दिवि चेरुस्तद्विवाहे प्रवादाः ॥६१२॥

इति श्रीक्षेमेन्द्रविरचिते बृहत्कथासारे मदनमञ्चकाविवाहो नाम सप्तमो लम्बकः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-12T20:37:21.6530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

amino acid side chain

  • ऍमिनो आम्ल पार्श्व शृंखला 
RANDOM WORD

Did you know?

कोणतेही कार्य करतांना मुहूर्त कां पहावा? त्यामागची संकल्पना काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.