संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

स्वयंप्रभासमागमः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


वचः कलिङ्गसेनायाः श्रुत्वेत्यसुरकन्यका ।
उवाच चन्द्रवदना वीक्ष्य संध्यारुणं नभः ॥१८७॥
अयं कमलिनीकान्तः प्राप्तोऽस्ताचलमौलिताम् ।
गच्छामि पुनरेष्यामि पन्था मे षष्टियोजनः ॥१८८॥
इत्युक्त्वाकाशमाविश्य तूर्णं सोमप्रभा ययौ ।
विधाय वदनोद्योतैर्बहु सोमप्रभं नभः ॥१८९॥
ततः सख्यां प्रयातायां राजपुत्री व्यचिन्तयत् ।
केयं विद्यादह्री देवी भुजङ्गी वा सखी मम ॥१९०॥
श्रूयते मानुषैः सख्यं भजन्ति किल देवताः ।
पृथ्वीपतेः पृथोः पूर्वं पुत्र्या सख्यमरुन्धती ॥१९१॥
भेजे नयनमार्गेण प्रीतिर्हि विशति स्वयम् ।
वासिष्ठधेनुं तद्वाक्यादानिनाय च भूतलम् ॥१९२॥
अमृतं तत्पयो दिव्यं ददौ तस्यै सुदुर्लभम् ।
गावोऽवतीर्णा लोकेऽस्मिंस्तत्प्रभृत्येव पावनाः ॥१९३॥
तदेषा कापि मे देवी सखी पुण्यैः समागता ।
कलिङ्गसेना ध्यात्वेति निनाय रजनीं शनैः ॥१९४॥
अथापरेद्युरादाय विचित्रा यन्त्रपुत्रिकाः ।
सखीं समभ्ययात्तूर्णं सोत्कण्ठा मयपुत्रिका ॥१९५॥
सा बभाषे तया पृष्टा सुताहमसुरप्रभोः ।
मयस्य मायावैचित्र्यधाम्नः सोमप्रभाभिधा ॥१९६॥
स्वयंप्रभा मे भगिनी सास्ते पातालमन्दिरे ।
हनूमत्प्रमुखैर्दृष्टा सीतान्वेषगतैः पुरा ॥१९७॥
कुबेरतनयः श्रीमान्भर्ता मे नलकूबरः ।
यच्छापात्स दशास्योऽपि नाभूत्परवधूविभुः ॥१९८॥
इत्युक्त्वा यन्त्रवैचित्र्यात्सजीवा यन्त्रपुत्रिका ।
करण्डिकां समुद्धाट्य ददौ सख्यै प्रिया यतः ॥१९९॥
ततो गूढसखीस्क्तां त्यक्ताहारां सुतां नृपः ।
अस्वस्थां मन्यमानस्तां वैद्यं पप्रच्छ दुःखितः ॥२००॥
वैद्योऽवदद्राजपुत्र्या राजन्व्याधिर्न लक्ष्यते ।
प्रेमातिहर्षसंपूर्णा नाभिनन्दति भोजनम् ॥२०१॥
ततो विज्ञाय वृत्तान्त दुहितुस्तां च तत्सखीम् ।
कलिङ्गदत्तो देवी च परां मुदमवापतुः ॥२०२॥
पित्रा विदितवृत्तेन दत्तानुज्ञा च सा तदा ।
सोमप्रभां सविश्रम्भमियेष प्रकटां सखीम् ॥२०३॥
सा तत्र राजभवने पूजिता तेन भूभुजा ।
विजहार समं सख्या विहारे तारहारिणी ॥२०४॥
सा यन्त्रपुत्रिकानीतदिव्यकाञ्चनपङ्कजैः ।
विहारपूजनं चक्रे ततोऽभूद्विस्मितो नृपः ॥२०५॥
अनुज्ञाता ततः पित्रा सहान्तःपुररक्षिभिः ।
मायायन्त्रविमानेन तां निनाय मयात्मजा ॥२०६॥
नीता स्वयंप्रभां द्रष्टुं ज्येष्ठां स्वभगिनीं तया ।
पुरं ददर्श वैचित्र्यचित्रकर्मेव वेधसः ॥२०७॥
तत्रापश्यज्जटापुञ्जविराजिवदनां वधूम् ।
नलिनीमिव शैवालजटालोत्फुल्लपङ्कजाम् ॥२०८॥
स्फाटिकेनाक्षसूत्रेण विराजितकराम्बुजाम् ।
करप्रस्रुतलावण्यबिन्दुमालाङ्कितामिव ॥२०९॥
उच्छूनकुचपर्यङ्क(न्त)पर्यस्तधवलांशुकाम् ।
चक्रवाकयुगन्यस्तफेनवेगामिवापगाम् ॥२१०॥
विलोक्य तां राजपुत्रीं प्रणनाम नताननाम् ।
भ्रस्य(श्य)त्कर्णोत्पलरजोरेखासंवलितस्तनीम् ॥२११॥
स्वयंप्रभा राजपुत्रीं तां विलोक्य सुलोचनाम् ।
नामभिजनमाक्र्ण्य फलान्यस्यै स्वयं ददौ ॥२१२॥
जरानिवारणान्याशु भुक्त्वा तानि फलानि सा ।
बभूव बाला पीयूषक्षालितेवाधिकद्युतिः ॥२१३॥
ततो विचित्रमुद्यानं दिव्याभिप्रायनिर्मितम् ।
वापीं च काञ्चनाम्भोजां दृष्ट्वा प्रीतिमवाप सा ॥२१४॥
स्वयंप्रभामथामन्त्र्य सा सोमप्रभया सह ।
ययौ यन्त्रविमानेन पितुस्तक्षशिलां पुरीम् ॥२१५॥
अन्तःपुरगता तत्र कदाचिदश्रृणोद्वचः ।
सोमप्रभाया विश्रम्भकथासु मृगलोचना ॥२१६॥
सखि मन्ये यदा कश्चिद्वरस्त्वां परिणेष्यति ।
तदा नौ सहवासोऽयं ध्रुवं दूरीभविष्यति ॥२१७॥
प्रवेक्ष्यामि कथं स्वैरं सखि भर्तृगृहं तव।
जामिश्वश्रूजनायत्तं विषमं भर्तृमन्दिरम् ॥२१८॥
इति स्वयंप्रभासमागमः ॥१०॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP