TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

हरिशर्माख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


हरिशर्माख्यायिका
कलिङ्गसेनतनया निशम्येति सखीवचः ।
सतीचरितमाश्चर्यं प्रदध्यौ मनसा सती ॥२६४॥
ततोऽह्नि तनुतां याते वयस्यां गन्तुमुद्यताम् ।
कलिङ्गसेना प्रोवाच सखि दर्शय मे निजम् ॥२६५॥
सुतं धनाधिनाथस्य भर्तारं नलकूबरम् ।
इति सोमप्रभा श्रुत्वा राजपुत्रीमभाषत ॥२६६॥
त्वं यौवनवती कान्ता स युवास्ति विश्रृङ्खलः ।
परस्परविरुद्धं हि दर्शनं तव तस्य च ॥२६७॥
इर्ष्याकोषेन नौ तत्र सौहार्दं नङ्क्ष्यति ध्रुवम् ।
नदीकूलद्रुमस्येव स्नेहस्ते नो विपत्तये ॥२६८॥
उक्त्वेति प्रययौ दिक्षु तन्वाना कान्तिकौमुदीम् ।
हर्म्ये कलिङ्गसेना च तस्थौ व्योमावलोकिनी ॥२६९॥
ततो यदृच्छयायातो विद्याधरधराधिपः ।
युवा मन्दरवेगाख्यस्तां ददर्श नभोगतिः ॥२७०॥
तां वीक्ष्य स्मरसौन्दर्यविभ्रमाणां समागम म् ।
अमृताहरणे शौरेः शिष्यां कान्ताकृतामिव ॥२७१॥
सोऽभवन्मन्मथशरासारजर्जरितस्मृतिः ।
तया दृष्टिविषेणेव भुजङ्ग्या मुहुरर्दितः ॥२७२॥
स धैर्यं क्षिप्रमास्थाय कथं विद्याधरस्य मे ।
मानुषी मोहयेच्चित्तमिति ध्यानपरोऽभवत् ॥२७३॥
ततो विवेद प्रज्ञप्तिविद्यया गुलिकाधरः ।
स तामप्सरसः शापादवतीर्णां शतक्रतोः ॥२७४॥
कृत्वेति तद्व्रतमना कालंजरगिरौ निजाम् ।
राजधानीं समभेत्य तस्थौ सुखपराङ्मुखः ॥२७५॥
स हेमकदलीकुञ्जे किन्नरीगीतनादिनि ।
तां राजतनयां ध्यायन लेभे तत्र निर्वृतिम् ॥२७६॥
चिन्तयंस्तन्मुखाम्भोजं भेजे नान्तःपुरे रतिम् ।
मन्दारमालामालोक्य मालत्यां को हि सादरः ॥२७७॥
रावणस्येव तस्याभूच्छापः स्त्रीहरेण बलात् ।
यन्त्रितस्तेन सहसा कर्तुं तां नाकरोन्मतिम् ॥२७८॥
सोऽभवद्विरहायासपाण्डुरः खण्डिताशयः ।
पौर्णमासीविरहितः शशीव क्षामविग्रहः ॥२७९॥
किं विद्याधरराज्येन कान्तारसदृशेन मे ।
यत्र नेत्रामृतं कान्ता न सा कण्ठावलम्बिनी ॥२८०॥
तपसा वरदं देवमाराध्य गिरिजापतिम् ।
ध्रुवं कान्तामवाप्स्यामि तामायाविलोचनाम् ॥२८१॥
अनुकूलः सुहृद्दानमानिताश्रीः सितं यशः ।
मनोरमा च दयिता नातुष्टे पार्वतीपतौ ॥२८२॥
इति ध्यात्वा हरं देवं त्र्यम्बकं तपसे ययौ ।  
संकल्पकल्पविटपी कस्य नाम न शंकरः ॥२८३॥
अथ तस्य गिरेः श्रृङ्गे तपसा तस्य धूर्जटिः ।
तुष्टः प्रोवाच तं कन्यां तामवाप्स्यसि युक्तितः ॥२८४॥
कलिङ्गसेनतनया वत्सराजं स्वयंवरे ।
यावन्नैति पुरं गत्वा तद्रूपेण त्वमाप्नुहि ॥२८५॥
इत्यवाप्य वरं शंभोर्विद्याधरपतिर्ययौ ।
तत्संगमाशया क्षिप्रं सुधयेव परिप्लुतः ॥२८६॥
अत्रान्तरे नृपतयस्तनयां रूपशालिनीम् ।
कलिङ्गदत्तं नृपतिं दूतैः सर्वे ययाचिरे ॥२८७॥
ततो विचार्य नृपतिः कुलाचारगुणैर्नृपान् ।
अमन्यत वरं योग्यं पुत्र्याः सेनाजितं नृपम् ॥२८८॥
रहः कलिङ्गसेनाथ प्राह सोमप्रभां सखीम् ।
श्येनजिन्नाम भूपालः पितुर्मेऽभिमतो वरः ॥२८९॥
मयपुत्री निशम्येति प्राह साश्रुविलोचना ।
अहो नु दग्धविधिना न योग्यः संगमः कृतः ॥२९०॥
त्रैलोक्यसुन्दरीः सुभ्रूः प्रवयास्त्वथ पार्थिवः ।
मधुपोऽर्हति न प्रष्टुं बालां कल्पलतामिव ॥२९१॥
वत्सेशोदयनो नाम कौशाम्ब्यामस्ति भूपतिः ।
स ते समुचितः कान्तवरो गौर्या इवेश्वरः ॥२९२॥
तस्य वासवदत्तास्ति दयिता रूपशालिनी ।
सा लेभे तनयं तस्माद्भावि विद्याधरेश्वरम् ॥२९३॥
इत्युक्ता वत्सराजस्य वंशवृत्तान्तविक्रमान् ।
निवेद्य निखिलं सख्यै पुनराह नृपात्मजाम् ॥२९४॥
त्वां वीक्ष्य व त्सराजोऽसौ ध्रुवं तां त्यक्ष्यति प्रियाम् ।
कमलाकमलं दृष्ट्वा नान्यदब्जं स्पृशत्यलिः ॥२९५॥
उषाया चित्रलेखासौ बाणपुत्र्या यथा पुरा ।
प्रद्युम्नि संगमं चक्रे करिष्यामि तथाद्य ते ॥२९६॥
इत्याकर्ण्य सखीवाक्यं राजपुत्री जगाद ताम् ।
अन्याभिः सखि भूपालः कान्ताभिः स निषेव्यते ॥२९७॥
महासेनसुतासक्तो दुर्लभोऽन्यजनस्य तु ।
अकामकामाः कामिन्यः सखि गच्छन्ति हास्यताम् ॥२९८॥
राजपुत्र्या निशम्येति प्राह सोमप्रभा पुनः ।
यत्नमत्र विधास्यामि दैवायत्तास्तु सिद्धयः ॥२९९॥
स्वयं श्येनजितं पूर्वं वीक्ष्यगौडमहीपतिम् ।
सत्प्रभावोदितारातिः प्रेक्षस्वोदयने पुनः ॥३००॥
लावण्यस्यास्य ते सुभ्रु सौभाग्यस्य कुलस्य च ।
ध्रुवं समुचितं सर्वं चन्द्रचूडः करिष्यति ॥३०१॥
राज्ञो विक्रमसेनस्य सुता तेजोवती पुरा ।
कंचिद्युवानमालोक्य बभूव स्मरतापिता ॥३०२॥
सख्या देवगृहे तेन कृत्वा संगमसंविदम् ।
निर्ययौ राजपुत्री सा स्तोकमूकविभूषणा ॥३०३॥
अत्रान्तरे राजपुत्रः स गोत्रवलभीं पुनः ।
राजसंश्रयकामस्तद्देवायतनमभ्यगात् ॥३०४॥
अवाप तत्र तां दैवात्स राजतनयं युवा ।
अधन्यैराहृतं नाम कल्याणीभिरवाप्यते ॥३०५॥
सा तमासाद्य दयितं तोषमध्यधिकं ययौ ।
भृङ्गी चम्पककामेव पारिजातसमागता ॥३०६॥
तत्संभोगसुधासिक्तः स राजानमवाप्य तम् ।
प्रातः समुचितां पूजां प्रपेदे गूढकामुकः ॥३०७॥
सुतां समुचितां दातुं तस्मै रतिरभूद्दृढा ।
कन्यावृतं च तत्सर्वं विवेद नृपतिः शनैः ॥३०८॥
तद्विज्ञाय क्षितिपतिर्निजामात्यानभाषत ।
सोमदत्ताय कन्येयं मनसा कल्पिता मया ॥३०९॥
स्वयं गान्धर्वविधिना पूर्वमेव वृतोऽनया ।
विधिरेव समाधानं यातं सदृशसिद्धये ॥३१०॥
राज्ञः श्रुत्वेति वचनं प्रत्यभाषन्त मन्त्रिणः ।
दिष्ट्या सदृशयोगेन योच्येयं न तवात्मजा ॥३११॥
स्वयं वृतोऽनया श्रीमान्राजपुत्रः कुलोचितः ।
देव दैवेन लिखितं प्रमार्ष्टुं कस्य कः क्षमः ॥३१२॥
हरिशर्मा पुरा विप्रो दारिद्र्याद्दासतां गतः ।
कुटुम्बिनो धनवतः सभार्यः सहपुत्रकः ॥३१३॥  
गृहे कुटुम्बिनस्तस्य वैवाहितकमोत्सवे ।
भक्ष्ये भोज्ये प्रविस्तीर्णे स न््द स्पृहाकुलः ॥३१४॥
दिनान्ते भोजनव्यग्रे सर्वस्मिञ्जनमण्डले ।
विस्मृतः क्षुत्परिक्षामः प्रदध्यौ दुःखितः क्षणम् ॥३१५॥
अवमानावधूतस्य दारिद्र्योपरतत्विषः ।
कथमादरमाधत्ते प्रसिद्धशरणो जनः ॥३१६॥
अहो विद्याविहीनोऽयं निर्ह्दनः शोच्यतां गतः ।
दीपपात्रमिवादीपालोकं दग्धदशाश्रयात् ॥३१७॥
क्षणं स चिन्तयित्वेति निजजायामभाषत ।
विस्मृतं पश्य मां दीनमस्मिन्नुत्सवभोजने ॥३१८॥
इति दूरतरं नीत्वा जनस्येवास्य घोटकम् ।
छन्नं स्थापय विज्ञानी भविष्यामि तमर्पयन् ॥३१९॥
कूटज्ञानी हयप्रपत्या प्रसिद्धिं परमां गतः ।
भावमानमवाप्स्यामि कल्पवल्ली हि धूर्तता ॥३२०॥
इति भर्तृवचः श्रुत्वा नीत्वा सा तुरगं निशि ।
बबन्ध विजने धीरा जने मधुविमोहिते ॥३२१॥
हारितोऽश्व इति प्रातर्जने कोलाहलाकुले ।
ब्राह्मणी प्राह भर्ता मे हरिशर्मा प्रणष्टवित् ॥३२२॥
ततः कुटुम्बिनाभ्येत्य प्रार्थितः प्राह स द्विजः ।
कृतकग्रहविज्ञानात्स्वाङ्गुलीगणनापरः ॥३२३॥
नातिदूरे स्थितः सोऽश्वश्चौरैर्विरहितो वने ।
इति तद्वचसा लब्धे हये ख्यातो बभूव सः ॥३२४॥
ततः कदाचिद्द्रविणे हरिते राजवेश्मनि ।
प्रसिद्धः स समाहूतो मूर्खोऽस्मीति भयाकुलः ॥३२५॥
प्रावर्तक्तास्मि संचिन्त्य समाभाश्येति भूपतिम् ।
निर्जने मन्दिरं तस्थौ स विप्रो ध्याननिश्चलः ॥३२६॥
अत्रान्तरे नरपतेर्जिह्वाख्या गर्भवाटिकाम् ।
तच्चौरी शङ्किता गत्वा तमपश्यदलक्षिता ॥३२७॥
सोऽपि दुःखाकुलः प्राह राजभीत्या वृथा मतिः ।
धिग्जिह्वे त्वां यया प्राणसंशयः स्वयमाहृतः ॥३२८॥
निजजिह्वामिति मुहुस्तस्य भर्त्सयतो वचः ।
श्रुत्वा सा चेटिका तूर्णं पादयोरततद्भयात् ॥३२९॥
विज्ञाता भवता पापा साहं जिह्वैव तस्करी ।
इत्युक्तवाक्यतो ज्ञात्वा स दम्भमधिकं व्यधात् ॥३३०॥
ततो राजानमभ्येत्य कृतकज्ञानगर्वितः ।
मुहुरावलितैकभ्रूर्दृश्टाङ्गुलितलो मुहुः ।
चकार प्रकटं सर्वं धनं राज्ञाथ पूजितः ॥३३१॥
ख्यातिपूजासमुन्नद्धे तस्मिन्नभ्येत्य मन्त्रिणः ।
धूर्तोऽय चौरसंकेती मूर्ख इत्यूचिरे नृपम् ॥३३२॥
राजाथ तत्परीक्षायै मण्डूकं पिहिते घटे ।
निधायास्मिन्किमस्तीति प्राह तं मन्त्रिसंसदि ॥३३३॥
पुनः स दुःखितश्चिन्ताध्याननिश्चललोचनः ।
हा मण्डूक हतोऽसीति जगादोच्चैर्भयाहतः ॥३३४॥
मण्डूकेत्यभिधा तस्य बाल्ये मात्रा कृताभवत् ।
ज्ञातं ज्ञातमिति प्राहुर्जनास्तं विस्मयाकुलः ॥३३५॥
ततो नरपतिस्मस्मै यथेष्टं विभवं ददौ ।
इत्येवं दैवविहितं स्वयं भवति सिद्धये ॥३३६॥
इति हरिशर्माख्यायिका ॥१२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-11T20:37:42.6700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

असील

  • असल पहा . 
  • पु. घोड्याच्या डोळ्याजवळचा भोंवरा . हा डोळ्यावर असल्यास चांगला व डोळ्याखालीं असल्यास वाईट . - अश्वप १०२ . [ सं . अक्ष किंवा सं . अश्व ] 
  • स्त्री. स्वतंत्र असलेली दासी . याविरुद्ध लवंडी म्हणजे गुलाम स्त्री . ' दोन प्रहर दोन घटकांपर्यंत तीनवेळां नबाबाकडुन शुके मिध्यें व असीलाबराबर आले .' - रा . १० . ३७१ . ( अर . असील = दासी ) 
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site