संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

श्रुतसेनाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इत्यामन्त्र्य सखीं प्रयातायां विहायसा ।
सोमप्रभायां तत्सर्वमाकर्ण्य ब्रह्मराक्षसः ॥४४७॥
योगेश्वरः समभ्येत्य मन्त्रिणे दिव्यलोचनः ।
सख्योः परास्परालापं निवेद्य पुनराविशत् ॥४४८॥
वत्सेश्वरोऽपि तत्सङ्गदिनध्यानपरायणः ।
निनिन्द मनसा नित्यं गणकान्गणनापरान् ॥४४९॥
दृष्ट्वा वासवदत्तां स निर्विकारमवस्थिताम् ।
यौगंधरायणकृतां कांचिन्नीतिमशङ्कतः ॥४५०॥
तत्कारणं रहो राज्ञा पृष्टो यौगंधरायणः ।
प्राह देव मनस्विन्योर्देव्योः कोपो न लक्ष्यते ॥४५१॥
यत्सहासं मुखं कोऽपि स्त्रीणां मे नातिनिश्चतम् ।
मरणे व्यवसायस्य स कोपस्खलितः क्रमः ॥४५२॥
इत्युआदियुक्तिवचनैर्विनिधाय प्रभोर्मनः ।
स विवाहमहोत्साहे श्लथादर्मिवाकरोत् ॥४५३॥
वत्सराजस्ततो ध्यात्वा विमनाः प्राह मन्त्रिणम् ।
संदेहाकुलितो वाक्यं विलोल इव यद्यदः ॥४५४॥
भजमानां प्रणयिनीं यो मोहादवमन्यते ।
नमोऽस्तु षण्ढपशवे तस्मै कठिनचेतसे ॥४५५॥
अस्मत्पुराणपुरुषः सोऽपि धीमान्धनंजयः ।
स्वर्गे रम्भामनादृत्य तच्छापात्षाण्ढ्यमाप्तवान् ॥४५६॥
चिन्ताज्वरो दुःसहोऽयं त्यज्यते च नृपात्मजा ।
त्यक्त्वा लक्ष्मीं स्वयं प्राप्तामनुतापं भजेन्न कः ॥४५७॥
इति वत्सेश्वरवचः श्रुत्वा मन्त्रीवरोऽवदत् ।
कन्दर्परूपो नृपतिः श्रुतसेनाविधोऽभवत् ॥४५८॥
कदाचित्तीर्थपूतात्मा दृष्ट्वा सोमेश्वरं प्रभुम् ।
अग्निशर्माभिधो विप्रस्तं यदृच्छागतोऽब्रवीत् ॥४५९॥
पञ्चतीर्थं नृप स्नात्वा यत्र ताः सव्यसाचिना ।
पूर्वमप्सरसो मुक्ता द्रष्टुं शर्वमहं गतः ॥४६०॥
दृष्ट्वा सोमेश्वरं देवं सुराष्ट्रामृतवारिदम् ।
भ्रान्तस्तालीवनालोलश्यामले जलधेस्तटे ॥४६१॥
ततः कदाचिल्ललितामपश्यं राजकन्यकाम् ।
राज्ञो वसन्तसेनस्य भुञ्जानस्तस्य मन्दिरे ॥४६२॥
भल्लीं कुसुमचापस्य वल्लीं यौवनशाखिनः ।
पल्लीं मदपुलिन्दस्य वीक्ष्य तां विस्मितोऽभवम् ॥४६३॥
परां रतिमिवालोक्य तां त्वां स्मृत्वा स्मरोपम म् ।
नृपतिः श्रुतसेनोऽस्या योग्य इत्यभ्यधां स्फुटम् ॥४६४॥
स भवानेव तत्कन्यां वर्तुमर्हति नापरः ।
इत्युक्त्वा तद्गिरा गत्वा तामयाचत तत्कृते ॥४६५॥
द्विजदौत्यवितीर्णां तां पित्रा प्राप नृपः प्रियाम् ।
विद्युद्द्योतां स्मरोद्यानविलासरसिकोऽभवत् ॥४६६॥
याति काले तयोः प्रौढं प्ररूढे प्रेमपादपे ।
अपरा विश्रुतगणं वरयित्री समाययौ ॥४६७॥
नवां नरेन्द्रतनयां प्राप्तां पत्युः स्वयंवरे ।
सा ज्ञात्वा प्रियसंभोगभङ्गभीताभवव्द्युसुः ॥४६८॥
तद्वियोगानलालीधो नृपोऽपि प्राप पञ्चताम् ।
वरयित्री च मानिन्या संशयाय निपातिता ॥४६९॥
इति श्रुतसेनाख्यायिका ॥१६॥

N/A

References : N/A
Last Updated : October 12, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP