TransLiteral Foundation

नलोपाख्यानम् - एकादशोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


एकादशोsध्याय:
बृहदश्व उवाच ।

अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।
अबुध्यत वरारोहा संत्रस्ता विजने वने ॥१॥
अपश्यमाना भर्तारं शोकदु:खसमन्विता ।
प्राक्रोशदुच्चै: संत्रस्ता महाराजेति नैषधम् ॥२॥
हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् ।
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥३॥
ननु नाम महाराज धर्मज्ञ: सत्यवागसि ।
कथमुक्त्वा तथा सत्यं सुप्तामुत्सृज्य मां गत: ॥४॥
कथमुत्सृज्य गन्तासि दक्षां भार्यामनुव्रताम् ।
विशेषतोsनपकृपे परेणापकृते सति ॥५॥
शक्यसे ता गिरा: सम्यक्कर्तु मयि नरेश्वर ।
यास्तेषां लोकपालानां संनिधौ कथिता: पुरा ॥६॥
नाकाले विहितो मृत्युर्मर्त्यानां पुरुषर्षभ ।
यत्र कान्ता त्वयोत्सृष्टा मुहूर्तमपि जीवति ॥७॥
पर्याप्त: परिहासोsमेतावान्पुरुषर्षभ ।
भीताहमतिदुर्धर्ष दर्शयात्मानमीश्वर ॥८॥
दृश्यसे दृश्यसे राजन्नेष दृष्टोsसि नैषध ।
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥९॥
नृशंस बत राजेन्द्र यन्मामेवंगतामिह ।
विलपन्तीं समागम्य नाश्वासयसि पार्थिवं ॥१०॥
न शोचाम्यहमात्मानं न चान्यदपि किंचन ।
कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥११॥
कथं नु राजंस्तृषित: क्षुधित: श्रमकर्षित: ।
सायाह्रे वृक्षमूलेषु मामपश्यन्भविष्यसि ॥१२॥
तत: सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।
इतश्चेतश्च रुदती पर्यधावत दु:खिता ॥१३॥
मुहुरुत्पतते बाला मुहु: पतति बिह्लला ।
मुहुरालीयते भीता मुहु: क्रोशति रोदिति ॥१४॥
अतीव शोकसंतप्ता मुहुर्नि:श्वस्य दु:खिता ।
उवाच भैमी नि:श्वस्य रोदमाना पतिव्रता ॥१५॥
यस्यभिशापाद्दु:खार्तो दु:खं विन्दति नैषध: ।
तस्य भूतस्य नो दु:खाद्दु:खमभ्यधिकं भवेत् ॥१६॥
आपापचेतसं पापो य एवं कृतवान्नलम् ।
तस्माद्दु:खतरं प्राप्य जीवत्वसुखजीविकाम् ॥१७॥
एवं तु विलापन्ती सा राज्ञो भार्या महात्मन: ।
हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥१८॥
तां क्रन्दमानामत्यर्थ कुररीमिव वाशतीम् ।
करुणं बहु शोचन्तीं विलन्तीं मुहुर्मुहु: ॥१९॥
सहसाभ्यागतां भैमीमभ्यासपरिवर्तिनीम् ।
जग्राहाजगरो ग्राहो महाकाय: क्षुधन्वित: ॥२०॥
सा ग्रस्यमाना ग्राहेण शोकेन च परिप्लुता ।
नात्मानं शोचति तथा यथा शोचति नैषधम् ॥२१॥
हा नाथ मामिह वने ग्रस्यमानामनाथवत् ।
ग्राहेणानेन विजने किमर्थ नानुधावसि ॥२२॥
कथं भविष्यासि पुनर्मामनुस्मृत्य नैषध ।
शापान्मुक्त: पुनर्लब्ध्वा बुध्दिं चेतो धनानि च ॥२३॥
श्रान्तस्य ते क्षुधार्तस्य परिम्लानस्य नैषध ।
क: श्रमं राजशार्दुल नाशायिष्यति तेsनघ ॥२४॥
तां तु कश्चिन्मृगव्याधो विचरन्गहने वने ।
आक्रन्दमानां संश्रुत्य जवेनाभिससार ह ॥२५॥
तां तु दृष्टवा तथा ग्रस्तामुरगेणायतेक्षणाम् ।
मुखे तं पाटयामास शस्त्रेण निशितेण च ।
निर्विचेष्टं भुजंगं तं विशस्य मृगजीवन: ॥२६॥
मोक्षयित्वा स तां व्याध: प्रक्षाल्य सलिलेन च ।
समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥२७॥
कस्य त्वं मृगशावाक्षि कथं चाभ्यागत्या वनम् ।
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भाविनि ॥२८॥
दमयन्ती तथानेन पृच्छ्यमाना विशांपते ।
सर्वमेतद्यथावृत्तमावचक्षेsस्य भारत ॥२९॥
तामर्धवस्त्रसंवीतां पीनश्रेणिपयोधराम् ।
सुकुमारानवद्याग्ङीं पूर्णचंद्रनिभाननाम् ॥३०॥
अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।
लक्षयित्वा मृगव्याध: कामस्य वशमीयिवान् ॥३१॥
तामेवं श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।
सान्त्वयामास कामार्तस्तदबुध्यत भाविनी ॥३२॥
दमयन्ती तं दुष्टमुपलभ्य पतिव्रता ।
तीव्रतोषसमाविष्टा प्रजज्वालेव मन्युना ॥३३॥
स तु पापमति: क्षुद्र: प्रधर्षयितुमातुर: ।
दुर्धर्षा तर्कयामास दीप्तामग्निशिखामिव ॥३४॥
दमयन्ती तु दु:खर्ता पतिराज्यविनाकृता ।
अतीतवाक्पथे काले शशापैनं रुषान्विता ॥३५॥
यथाहं नैषधादन्यं मनसपि न चिन्तये ।
तथायं पततां क्षुद्र: परासुर्मुगजीवन: ॥३६॥
उक्तमात्रे तु वचने तथा स मृगजीवन: ।
व्यसु: पपात मेदिन्यामग्निदग्ध इव द्रुम: ॥३७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

auxiliary capital

  • साहाय्यभूत भांडवल 
  • (also instrumental capital) 
  • सहायक पूंजी 
  • = instrumental capital 
More meanings
RANDOM WORD

Did you know?

हिंदू धर्मात स्त्रियांना उपनयनाचा धर्मसंमत अधिकार का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site