TransLiteral Foundation

नलोपाख्यानम् - त्रयोदशोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


त्रयोदशोsध्याय:
बृहदश्व उवाच ।

सा तच्छ्रुत्वानवद्याग्ङी सार्थवाहवचस्तदा ।
जगाम सह तेनैव सार्थेन पतिलालसा ॥१॥
अथ काले बहुतिथे वने महित दारुणे ।
तडागं सर्वतोभद्रं पद्मसौगन्धिकायुतम् ॥२॥
ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।
बहुपुष्पफलोपेतं नानापक्षिनिषेवितम् ॥३॥
निर्मलस्वादुसलिलं मनोहारि सुशीतलम् ।
सुपरिश्रान्तवाहास्ते निवेशाय मनो दधु: ॥४॥
संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।
उवास सार्थ: स महान्वेलामासाद्य पश्चिमाम् ॥५॥
अथार्धरात्रसमये नि:शब्दस्तिमिते तदा ।
सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ।
पानीयार्थ गिरिनदीं मदप्रस्त्रवणाविलाम् ॥६॥
ते तान्ग्राम्यगजान्दृष्टा सर्वे वनगजास्तदा ।
समाद्रवन्त वेगेन जिघांसन्तो मदोत्कटा: ॥७॥
तेषामापततां वेग: करिणां दु:सहोsभवत् ।
नगाग्रादिव शीर्णानां शृग्ङाणां पततां क्षितौ ॥८॥
मार्ग संरुध्य संसुप्तं पद्मिन्या: सार्थमुत्तमम् ।
ते तं ममर्दु: सहसा चेष्टमानं महीतले ॥९॥
हाहाकारं प्रमुश्चन्त: सार्थिका: शरणार्थिन: ।
वनगुल्मांश्च धावन्तो निद्रान्धा बहवोsभवन् ॥१०॥
निहतोष्ट्राश्वबहुला: पदातिजनसंकुला: ।
भयादाधावमानाश्च परस्परहतास्तदा ॥११॥
घोरान्नादान्विमुच्ञन्तो निपेतुर्धरणीतले ।
वृक्षेष्वारुह्य संरब्धा: पतिता विषमेषु च ॥१२॥
एव प्रकारैर्बहुभिदवनाक्रम्य हस्तिभि: ।
राजन्विनिहतं सर्व समृध्दं सार्थमण्डलम् ॥१३॥
अथापरेद्यु: संप्राप्ते हतशिष्टा जनास्तदा ।
देशात्तस्माद्विनिष्क्रम्य शोचन्ते वैशसं कृतम् ।
भ्रातरं पितरं पुत्रं सखायं च नराधिप ॥१४॥
अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् ।
योsपि मे निर्जनेsरण्ये संप्राप्तोsयं जनार्णव: ।
स हतो हस्तियूथेन मन्दभाग्यान्ममैव तत् ॥१५॥
नाप्राप्तकालो म्रियते श्रुतं वृध्दानुशासनम् ।
यन्नाहमद्य मृदिता हस्तियूयेन दु:खिता ॥१६॥
ह्यदैवं कृतं किंचिन्नराणामिह विद्यते ।
न च मे बालभावेsपि किंचित्पापकृतं कृतम् ॥१७॥
मन्ये स्वयंवरकृते लोकपाला: समागता: ।
प्रत्याख्याता मया तत्र नलस्यार्थाय देवता: ।
नूनं तेषां प्रभावेण वियोगं प्राप्तवत्यहम् ॥१८॥
एवमादीनि दु:खार्ता सा विलप्य वराग्ङना ।
अगच्छद्राजशार्दूल चन्द्रलेखेव शारदी ॥१९॥
गच्छन्ती साचिराद्वाला पुरमासादयन्महत् ।
सायाह्ने चेदिराजस्य सुबाहो: सत्यवादिन: ॥२०॥
तां विह्ललां कृशां दीनां मुक्तकेशीममार्जिताम् ।
उन्मत्तामिव गच्छन्ती ददृशु: पुरवासिन: ॥२१॥
प्रविशन्तीं तु तां दृष्टा चेदिराजपुरीं तदा ।
अनुजग्मुस्तत्र बाला: ग्रामिपुत्रा: कुतूहलात् ॥२२॥
तां प्रासाद्सगतापश्यद्राजमाता जनैर्वृताम् ।
धात्रीमुवाच गच्छैनामानयेह ममान्तिकम् ॥२३॥
जनेन क्लिश्यते बाला दु:खिता शरणार्थिनी ।
तादृग्रूपं च पश्यामि विद्योतयति मे गृहम् ॥२४॥
सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।
आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥२५॥
एवमप्यसुखाविष्टा बिभर्षि परमं वपु: ।
भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥२६॥
न हि ते मानुषं रुपं भूषणैरपि वर्जितम् ।
असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥२७॥
तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत ।
मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥२८॥
सैनन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् ।
फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥२९॥
असंख्येयगुणो भर्ता मां च नित्यमनुव्रत: ।
भक्ताहमपि तं वीरं छायेवानुगता पथि ॥३०॥
तस्य दैवत्प्रसग्ङोsभूदतिमात्रं सुदेवने ।
द्युते स निर्जितश्चैव वनमेक उपेयिवान् ॥३१॥
तमेकवसनं वीरमुन्मत्तमिव विह्ललम् ।
आश्वासयन्ती भर्तारमहमप्यगमं वनम् ॥३२॥
स कदाचिद्वने वीर: कस्मिंश्चित्कारणान्तरे ।
क्षुत्परीतस्तु विमनास्तदप्येकं व्यसर्जयत् ॥३३॥
तमेकवसना नग्नमुन्मत्तवदचेतसम ।
अनुव्रजन्ती बहुला न स्वपामि निशास्तदा ॥३४॥
ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् ।
वाससोsर्ध परिच्छिद्य त्यक्तवान्मामनागसम् ॥३५॥
तं मार्गमाणा भर्तारं दह्यामाना दिवानिशम् ।
न विन्दाम्यमरप्रख्यं प्रियं प्राणेश्वरं प्रभुम् ॥३६॥
तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु ।
राजमाताब्रवीदर्ता भैमीमार्ततरा स्वयम् ॥३७॥
वस त्वमिह कल्याणि प्रीतिर्मे परमा त्वयि ।
मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥३८॥
अपि वा स्वयमागच्छेत्परिधावन्नितस्तत: ।
इहव वसती भद्रे भर्तारमुपलप्स्यसे ॥३९॥
राजामातुर्वच: त्वा दमयन्ती वचोsब्रवीत् ।
समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥४०॥
उच्छिष्टं नैव भुच्ञीयां न कुर्या पादधावनम् ।
न चाहं पुरुषानन्यान्प्रभाषेयं कथंचन ॥४१॥
प्रार्थयेद्ददि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।
भर्तुरन्वेषणार्थ पश्येय़ं ब्राह्मणानहम् ॥४२॥
यद्देवमिह कतव्यं वत्स्याम्यहमसंशयम् ।
अतोsन्यथा न मे वासो वर्तते ह्रदये क्वचित् ॥४३॥
तां प्रह्रष्टेन मनसा राजमातेदमब्रवीत ।
सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥४४॥
एवमुक्त्वा ततो भैमीं राजमाता विशांपते ।
उवाचेदं दुहितरं सुनन्दां नाम भारत ॥४५॥
सैरन्ध्रीमभिजानीष्व सुनंदे देवरुपिणीम् ।
वयसा तुल्यतां प्राप्ता सखी तव भवत्वियम् ॥४६॥
तत: परमसंह्रष्टा सुनन्दा गृहमागमत् ।
दमयन्तीमुपादाय सखीभि: परिवारिता ॥४७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.8970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

displacement node

  • Accous. विस्थापन निस्पंद 
RANDOM WORD

Did you know?

अशुभ कार्य करून आल्यावर, घरात प्रवेश करण्यापूर्वी पाय कां धुवावेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.