TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नलोपाख्यानम् - पच्ञमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


पच्ञमोsध्याय:
बृहदश्व उवाच ।

अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा ।
आजुहाव महीपलान्भीमो राजा स्वयंवरे ॥१॥
तच्छ्रत्वा पृथिवीपाला: सर्वे ह्रच्छयपीडिता: ।
त्वरिता: समुपाजग्मुर्दमयन्तीमभीप्सव: ॥२॥
कनकस्तम्भरुचिरं तोरणेन विराजितम् ।
विविशुस्ते नृपा रग्ङं महासिंहा इवाचलम् ॥३॥
तत्रासनेषु विविधेष्वासीना: पृथिवीक्षित: ।
सुरभिस्त्रग्धरा: सर्वे प्रमृष्टमणिकुण्डला: ॥४॥
तत्र स्म पीना दृश्यन्ते बाहव: परिघोमपा: ।
आकारवन्त: सुश्लक्ष्णा: पच्ञशीर्षा इवोरगा : ॥५॥
सुकेशान्तानि चारुणि सुनासाक्षिभ्रुवाणि च ।
मुखनि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥६॥
दमयन्ती ततो रग्ङं प्रविवेश शुभानना ।
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥७॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।
तत्र तत्रैव सक्ताभून्न चचाल च पश्याताम् ॥८॥
तत: संकीर्त्यमानुषु राज्ञां नामसु भारत ।
ददर्श भैई पुरुषान्पच्ञ तुल्याकृतीनथ ॥९॥
तान्समीक्ष्य तत: सर्वान्निर्विशेषाकृतीन्स्थितान् ।
संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ॥१०॥
यं च ददृशे तेषां तं तं मेने नलं नृपम् ।
सा चिन्तयन्ती बुध्द्याथ तर्कयामास भाविनी ॥११॥
कथं हि देवाग्ञानीयां कथं विद्यां नलं नृपम् ।
एवं संचिन्तयन्ती सा वैदर्भी भृगदु:खिता ॥१२॥
श्रुतानि देवालिग्ङानि तर्कयामास भारत ।
देवानां यानि लिग्ङानि स्थविरेभ्य: श्रुतानि मे ।
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥१३॥
एवं विचिन्त्य बहुधा विचार्य च पुन: पुन: ।
शरणं प्रति देवानां प्राप्तकालममन्यत ॥१४॥
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ।
देवेभ्य़: प्राच्ञलिर्भूत्वा वेपामानेदमब्रवीत् ॥१५॥
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृत:  
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥१६॥
वचसा मनसा चैव यथा नाभिचराम्यहम् ।
तेन सत्येन विबुधस्तमेव प्रदिशन्तु मे ॥१७॥
यथा देवै: स मे भर्ता विहितो निषधाधिप: ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥१८॥
यथेदं व्रतमारब्धं नलस्याराधने मया ।
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥१९॥
स्वं चैव रुपं कुर्वन्तु लोकपाला महेश्वरा: ।
यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥२०॥
निशम्य दमयन्तास्तत्करुणं परिदेवितम् ।
निश्चयं परमं तथ्यमनुरागं च नैषधे ।
यथोक्तं चक्रिरे देवा: सामर्थ्य लिग्ङधारणे ॥२१॥
सापश्यद्विधान्सर्वानस्वेदान्स्तब्धलोचनान् ।
अम्लानस्त्रग्रजोहीनान्स्थितानस्पृशत: क्षितिम् ॥२२॥
छायाद्वितीयो म्लानस्त्रग्रज:स्वेदद्समन्वित: ।
भूमिष्ठौ नैषधश्चैव निमेषेण च सूचित: ॥२३॥
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत ।
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥२४॥
विलज्जमाना वस्त्रान्ते  जग्राहायतलोचना ।
स्कन्धदेशेsसृजत्तस्य स्त्रजं परमशोभनाम् ॥२५॥
वरयामास चैवैनं पतित्वे वरवर्णिनी ।
ततो हा हेति सहसा मुक्त: शब्दो नराधिपै: ॥२६॥
देवैर्महर्षिभिस्तत्र साधु साध्विति भारत ।
विस्मितैरीरित: शब्द: प्रशंसद्भिर्नल नृपम् ॥२७॥
दमयन्तीं तु कौरव्य वीरसेनसुतो नृप: ।
आश्वासयव्दरारोहां प्रह्रष्टेनान्तरात्मना ॥२८॥
यत्त्वं भजसि कल्याणि पुमांसं देवसंनिधौ ।
तस्मान्मां विध्दि भर्तारमेवं ते वचने रतम् ॥२९॥
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते ।
तावत्त्वयि भविष्यामि सत्यमेतद्रवीमि ते ॥३०॥
दमयन्ती तथा वाग्भिरभिनन्द्य कृताच्ञलि: ।
तौ परस्परत: प्रीतौ दृष्टा त्वग्निपुरोगमान् ।
तानेव शरणं देवाच्ञग्मतुर्मनसा तदा ॥३१॥
वृते तु नैषधे भैम्या लोकपाला महौजस : ।
प्रह्रष्टमनस: सर्वे नलायाष्टौ वरान्ददु: ॥३२॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् ।
नैषधाय ददौ शक: प्रीयमाण: शचीपति: ॥३३॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषध: ।
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशन: ॥३४॥
यमस्त्वन्नरसं प्रादाध्दर्मे च परमां स्थितिम् ।
अपांपतिरपां भावं यत्र वाञ्छति नैषध: ॥३५॥
स्त्रजश्चोत्तमगन्धाढ्या: सर्वे च मिथुन ददु: ।
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गता: ॥३६॥
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विता: ।
दमयन्त्याश्च मुदिता: प्रतिजग्मुर्यथागतम् ॥३७॥
गतेषु पार्थिवेन्द्रेषु भीम: प्रीतो महामना: ।
विवाहं कारयामास दमयन्ता नलस्य च ॥३८॥
उष्य तत्र यथाकामं नैषधो द्विपदां वर: ।
भीमेन समनुज्ञातो जगाम नगरं स्वकम् ॥३९॥
अतीव मुदितो राजा भ्राजमानोंsशुमानिव ।
अरच्ञयत्प्रजा वीरो धर्मेण परिपालयान् ॥४०॥
ईजे चाप्यश्वमेधेन ययातिरिव नाहुष: ।
अन्यैश्च बहुभिर्धीमान्कतुभिश्चाप्तदक्षिणै: ॥४१॥
पुनश्च रमणीयेषु वनेषूपवनेषु च ।
दमयन्त्या सह नलो विजहारामरोपम: ॥४२॥
जनयामास च नलो दमयन्त्यां महामना: ।
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम् ॥४३॥
एवं स य जमानश्च विहरंश्च नराधिप: ।
ररक्ष वसुसंपूर्णी वसुधां वसुधाधिप: ॥४४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

self-avoiding random walk

  • स्वयंवर्जी यादृच्छिक भ्रमण ( एका घटकाचा जालकावरील यादृच्छिक भ्रमणमार्ग त्या मार्गाला कोणत्याही बिंदूत छेदत नसेल वा स्पर्श करत नसेल तर तो भ्रमणमार्ग भौतिक आकारमान असलेल्या दोन घटकांच्या आवकाशातील भ्रमणमार्गासारखा असतो. कारण ते घटक एकाच वेळी अवकाशाचा एकच भाग व्यापू शकत नाहीत.) 
RANDOM WORD

Did you know?

Gharamadhye Shriramachi ani marutichi pooja karavi ka ? baykani keli tar chalate ka ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.