TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नलोपाख्यानम् - द्वादशोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


द्वादशोsध्याय:
बृहदश्व उवाच ।

सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥१॥
सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतम् ।
नानापक्षिगणाकीर्ण म्लेंच्छतस्करसेवितम् ॥२॥
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।
महिषांश्च वराहांश्च ऋक्षांश्च वनपन्नगान् ॥३॥
तेजसा यशसा लक्ष्म्या स्थिता च परया युता ।
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ॥४॥
दारुणामटवीं प्राप्य भर्तुव्यसनपीडिता ।
विदर्भतनया राजन्विललाप सुदु:खिता ॥५॥
व्यूढोरस्क महाबाहो नैषधानां जनाधिप ।
क्व नु राजन्गतोsसीह त्यक्त्वा मां विजने वने ॥६॥
अश्वमेधादिभिर्वीर क्रतुभीर्भूरिदक्षिणै: ।
कथामिष्टा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥७॥
यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते ।
स्मर्तुमर्हसि कल्याण वचनं पार्थिवर्षभ ॥८॥
यच्चोक्तं विहगैर्हसै: समीपे तव भूमिप ।
मत्समक्षं यदुक्तं च तदवेक्षितुमर्हसि ॥९॥
हा वीर ननु नामाहमिष्टा किल तवानघ ।
अस्यामटव्यां धोरायां किं मां न प्रतिभाषसे ॥१०॥
भक्षयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृति: ।
अरण्यराट् क्षुधाविष्ट: किं मां न त्रातुमर्हसि ॥११॥
न मे त्वदन्या काचिध्दि प्रियास्तीत्यब्रवी: सदा ।
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥१२॥
उन्मतां विलपन्तीं मां भार्यामिष्टां नराधिप ।
ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥१३॥
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।
न मानयसो मामार्य रुदतीमरिकर्षण ॥१४॥
महाराज महारण्ये अहमेकाकिनी सती ।
दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे ॥१५॥
कुलशीलोपसंपन्न चारुसर्वाग्ङदर्शन ।
नाद्य त्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम ॥१६॥
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ।
शयानभुपविष्टं वा स्थितं वा निषधाधिप ॥१७॥
कं नु पृच्छामि दु:खार्ता त्वदर्थे शोककर्षिता ।
कच्चिदृष्टस्त्वयारण्ये संगत्येह नलो नृप: ॥१८॥
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् ।
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥१९॥
अरण्यराड्यं श्रीमांश्चतुर्दष्ट्रो महाहनु: ।
शार्दूलोsभिमुखोsभ्येति पृच्छाम्येनमशक्ङिता ॥२०॥
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभु: ।
विदर्भराजतनयां दमयन्तीति विध्दि माम् ॥२१॥
पतिमन्वेषतीमेकां कृपणां शोककर्षिताम् ।
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नल: ॥२२॥
अथवा त्वं वनपते नलं यदि न शससि ।
मां खाद्य मृगश्रेष्ठ दु:खादस्माद्विमोचय ॥२३॥
श्रुत्वारण्ये विलपितं ममैष मृगराट् स्वयम ।
यात्येतां मृष्टसलिलामापगां सागरंगमाम् ॥२४॥
इमं शिलोच्चयं पुण्यं शृग्ङैर्बहुभिरुच्छ्रितै: ।
विराजद्भिर्दिविस्पृग्भिर्नैकवर्णैर्मनोहरे: ॥२५॥
अस्यारण्यस्य महत: केतुभूतमिवोत्थितमं ।
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥२६॥
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत ।
शरण्य बहुकल्याण नमस्तेsस्तु महीधर ॥२७॥
प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् ।
राज्ञ: स्नुषां राजभार्या दमयन्तीति विश्रुताम् ॥२८॥
विदर्भराजाधिपति: पिता मम महारथ: ।
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥२९॥
ब्रह्मण्य: साधुवृत्तश्च सत्यवागनसूयक: ।
शीलवान्वीर्यसंपन्न: पृथुश्रीर्धर्मविच्छुचि: ॥३०॥
सम्यग्गोप्ता विदर्भणां निर्जितारिगण: प्रभु: ।
तस्य मां विध्दि तनयां भगवंस्त्वामुपस्थिताम् ॥३१॥
निषधेषु महाराज: श्वशुरो मे नरोत्तम: ।
गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥३२॥
तस्य राज्ञ: सुतो वीर: श्रीमान् सत्यपराक्रम: ।
क्रमप्राप्तं पितु: स्वं यो राज्यं समनुशास्ति ह ।
नलो नामारिहा श्याम: पुण्यश्लोक इति श्रुत: ॥३३॥
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोsग्निमान् ।
यष्टा दाता च योध्दा च सम्यक् चैव प्रशासिता ॥३४॥
तस्य मामाचलश्रेष्ठ विध्दि भार्यामिहागताम् ।
अन्वेषमाणां भर्तारं तं व नरवरोत्तमम् ॥३५॥
खमुल्लिखद्भिरेतैर्हि त्वया शृग्ङशतैर्नृप: ।
कच्चिदृष्टोsचलश्रेष्ठ वनेsस्मिन्दारुणे नल: ॥३६॥
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षण: ।
निषधानामधिपति: कच्चिदृष्टस्त्वया नल: ॥३७॥
किं मां विलपन्तीमेकां पर्वतश्रेष्ठा बिह्ललाम् ।
गिरा नाश्वासयस्यद्य स्वां सुतामिव दु:खिताम् ॥३८॥
कदा सुस्मिग्धगम्भीरां जीमूतस्वनसंनिभाम् ।
श्रोष्यामि नैषधस्याहं बाचं ताममृतोपमाम् ॥३९॥
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥४०॥
सा गत्वा त्रीनहोरात्रान्ददर्श परभाग्ङना ।
तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥४१॥
नियतै: संयताहारैर्दमशौचसमन्वितै: ।
तापसै: समुपेतं च सा दृष्टैव समाश्वसत् ॥४२॥
सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥४३॥
साभिवाद्य तपोवृध्दान्विनयावनता स्थिता ।
स्वागतं त इति प्रोक्ता तै: सर्वैस्तापसैश्च सा ॥४४॥
पूजां चास्या यथान्यायं कृत्वां तत्र तपोधना: ।
आस्यतमित्यथोचुस्ते ब्रूहि किं करवामहै ॥४५॥
तानुवाच वरारोहा कच्चिद्भगवतामिह ।
तपस्यग्निषु कुशलं स्वधर्माचरणेषु च ॥४६॥
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ।
ब्रूहि सर्वानवद्याग्ङि का त्वं किं च चिकीर्षसि ॥४७॥
दृष्टैव ते परं रुपं द्युतिं च परमामिह ।
विस्मयो न: समुत्पन्न: समाश्वासिहि मा शुच: ॥४८॥
अस्यारण्यस्य देवी त्वमुताहोsस्य महीभृत: ।
अस्याश्च नद्या: कल्याणि वद सत्यमनिन्दिते ॥४९॥
साब्रवीत्तानृषीन्नाहरमण्यस्यास्य देवता ।
न चाप्यस्य गिरेर्विप्रा नैव नद्याश्च देवता ॥५०॥
मानुषा मां विजानीत यूयं सर्वे तपोधना: ।
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वश: ॥५१॥
विदर्भैषु महीपालो भीमो नाम महीपति: ।
तस्य मां तनयां सर्वे जानीत द्विजसत्तमा: ॥५२॥
निषधाधिपतिर्धीमान्नलो नाम महायशा: ।
वीर: संग्रामजिद्विद्वान्मम भर्ता विशांपति: ॥५३॥
देवताभ्यर्चनपरो द्विजातिजनवत्सल: ।
गोप्ता निषधवंशस्य महातेजा महाबल: ॥५४॥
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभि: ।
आहूय पृथिवीपाल: सत्यधर्मपरायण: ।
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥५५॥
तस्य मामवगच्छध्वं भार्या राजर्षभस्य वै ।
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥५६॥
सा वनानि गिरीश्चैव विचरामीह दु:खिता ।
अन्वेषमाणा भर्तारं नलं रणविशारदम् ॥५७॥
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपं ।
भवेत्प्राप्तो नलो नाम निषधानां जनाधिप: ॥५८॥
यत्कृतेsहमिदं दुर्ग प्रपन्ना भृशदारुणम् ।
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥५९॥
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥६०॥
का नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।
कथं भविष्याम्यद्याह भर्तृशोकाभिपीडिता ॥६१॥
तथा विलपन्तीमेकामरण्ये भीमनन्दिनीम् ।
दमयन्तीमथोचुस्ते तापसा: सत्यदर्शिन: ॥६२॥
उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।
वयं पश्यामस्तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥६३॥
निषधानामधिपतिं नलं रिपुनिपातिनम् ।
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥६४॥
द्विषातां भयकर्तारं सुह्रदां शोकनाशनम् ।
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥६५॥
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।
तापसान्तर्हिता: सर्वे सान्गिहोत्राश्रमास्तदा ॥६६॥
सा दृष्टा महदाश्चर्य विस्मिता ह्मभवत्तदा ।
दमयन्त्यनवद्याग्ङी वीरसेननृपस्नुषा ।
चिन्तयामास वैदर्भी किमेतदृष्टवत्यहम् ॥६७॥
किं नु स्वप्नौ मया दृष्ट: कोsयं विधिरिहाभवत् ।
क्व नु ते तापसा: सर्वे क्व तदाश्रममण्डलम् ॥६८॥
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ।
भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥६९॥
सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा ।
विललापाश्रुपूर्णाक्षी दृष्टाशोकतरुं तत: ॥७०॥
अहो बतायमगम: श्रीमानस्मिन्वनान्तरे ।
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥७१॥
वीतशोकं भयाबाधं काच्चित्त्वं दृष्टवान्नृपम् ।
नलं नामारिमर्दनं दमयन्त्या: प्रियं पतिम् ॥७२॥
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।
व्यसनेनार्दितं वीरमरण्यमिदमगतम् ॥७३॥
यथा विशोका गच्छेयमशोकनग तत्कुरु ।
सत्यनामा भवाशोका अशोक: शोकनाशन: ॥७४॥
एवं साशोकवृक्षं तमार्ता वै परिगम्य ह ।
जगाम दारुणतरं देशं भैमी वराग्ङना ॥७५॥
सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा ।
नैकांश्च पर्वतान् रम्यान्नैकांश्च मृगपक्षिण: ॥७६॥
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।
ददर्शाथ महासार्थ हस्त्यश्वरथसंकुलम् ॥७७॥
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।
सुशान्ततोयां विस्तीर्णा ह्रदिनीं वेतसैर्वृताम् ॥७८॥
सा दृष्टैव महासार्थ नलपत्नी यशस्विनी ।
उपसर्प्य वरारोहा जनमधं  विवेश ह  ॥७९॥
उन्मत्तरुपा शोकर्ता तथा वस्त्रार्धसंवृता ।
कृशा विवर्णा मलिना पांशुध्वस्तशिरोरुहा ॥८०॥
तां दृष्टा तत्र मनुजा: केचिद्भीता: प्रदुद्रुबु: ।
केचिच्चिन्तापरास्तस्थु: केचित्तत्र प्रचुक्रुशु: ॥८१॥
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे ।
अकुर्वत दयां केचित्पप्रच्छुश्चापि भारत ॥८२॥
कासि कस्यासि कल्याणि किं वा मृगयसे वने ।
त्वां दृष्टा व्यथिता: स्मेह कच्चित्त्वमसि मानुषी ॥८३॥
वद सत्यं वनस्यास्य पर्वतस्याथवा दिश: ।
दवता त्वं हि कल्याणि त्वां वयं शरणं गता: ॥८४॥
यक्षी वा राक्षसी वा त्वमुताहोसि सुराग्ङना ।
सर्वथा क्रुरु न: स्वस्ति रक्ष चास्माननिन्दिते ॥८५॥
यथायं सर्वथा सार्थ: क्षेमी शीघ्रमितो व्रजेत् ।
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥८६॥
प्रत्युवाच तत: साध्वी भर्तृव्यसनपीडिता ।
सार्थवाहं च सार्थ च जना ये तत्र केचन ॥८७॥
मानुषीं मा विजानीत  मनुजाधिपते: सुताम् ।
नृपस्नुषां राजभार्या भर्तृदर्शनलालसाम् ॥८८॥
विदर्भराण्मम पिता भर्ता राजा च नैषध:।
नलो नाम महाभागस्तं मार्गाम्यपराजिंतम् ॥८९॥
यदि जानीथ नृपतिं क्षिप्रं शंसत मे प्रियम् ।
नलं पुरुषशार्दूलममित्रगणसूदनम् ॥९०॥
तामुवाचानवद्याग्ङीं सार्थस्य महत: प्रभु: ।
सार्थवाह: शुचिर्नाम शृणु कल्याणि मद्वच: ॥९१॥
अहं सार्थस्य नेता वै सार्थवाह: शुचिस्मिते ।
मनुष्य़ं नलनामानं न पश्यामि यशस्विनी ॥९२॥
कुच्ञरद्वीपिमहिषशार्दुलर्क्षमृगानपि ।
पश्याम्यस्मिन्वने कृत्स्ने ह्ममनुष्यनिषेविते ॥९३॥
ऋते त्वां मानुषीं मर्त्य न पश्यामि महावने ।
तथा नो यक्षराडद्य मणिभद्र: प्रसीदतु ॥९४॥
साब्रवीद्वणिज: सर्वान्सार्थवाहं च तं तत: ।
क्व नु यास्यति सार्थोsयमेतदाख्यातुमर्हसि ॥९५॥

सार्थवाह उवाच

सार्थोsयं चेदिराजस्य सुबाहो: सत्यदर्शिन: ।
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥९६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:45.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

high frequency compensation

  • उच्च कंप्रता प्रतिपूरण 
RANDOM WORD

Did you know?

मरणानंतर पंचांगात नक्षत्र कां पाहतात? त्याचा प्रेताशी काय संबंध?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site