नलोपाख्यानम् - षष्ठोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहादश्व उवाच ।

वृते तु नैषधे भैम्या लोकपाला महौजस: ।
यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥१॥
अथाब्रर्वात्कलिं शक: संप्रेक्ष्य बलवृत्रहा ।
द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥२॥
ततोsब्रवीत्कलि: शक्रं दमयन्त्या: स्वयंवरम् ।
गत्वा हि वरयिष्ये तां मनो हि मम तां गतम् ॥३॥
तमब्रवीत्प्रहस्येन्द्रो निर्वृत्त: स स्वयंवर: ।
वृतस्ताया नलो राजा पतिरस्मत्समीपत: ॥४॥
एवमुक्तस्तु शक्रेण कलि: कोपसमन्वित: ।
देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥५॥
देवानां मानुषं मध्ये यत्सा पतिमविन्दत ।
तत्र तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥६॥
एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकस: ।
अस्माभि: समनुज्ञाते दमयन्त्या नलो वृत: ॥७॥
का च सर्वगुणोपेतं नाश्रयेत नलं नृपम् ।
यो वेद धर्मानखिलान्यथावच्चरितव्रत: ॥८॥
नित्यं तृप्ता गृहे यस्य देवा यज्ञेषु धर्मत: ।
अहिंसानिरतो यश्च सत्यवादी दृढव्रत: ॥९॥
यस्मिन्दाक्ष्यं धृतिर्दानं तप: शौचं दम: शम: ।
ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥१०॥
एवंरुपं नलं यो वै कामयेच्छपितुं कले ।
आत्मानं स शपेन्मुढो हन्यादात्मानमात्माना ॥११॥
एवंगुणं नलं यो वै कामयेच्छपितुं कले ।
कृच्छ्रै स नरके मज्जेदगाधे विपुले ह्रदे ॥१२॥
ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत्म् ।
संहर्तु नोत्सहे कोपं नले वत्स्यामि द्वापर ॥१३॥
भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते ।
त्वमप्यक्षान्समाविश्य साहाय्यं कर्तुमर्हसि ॥१४॥  

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP