नलोपाख्यानम् - द्वाविंशतितमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


दमयन्त्युवाच ।

गच्छ केशिनि जानीहि क एष रथवाहक: ।
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुक: ॥१॥
अभ्येत्य कुशलं भद्रे मृदुपूर्व समाहिता ।
पृच्छेथा: पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥२॥
अत्र मे महती शक्ङा भवेदेष नलो नृप: ।
यथाच मनसस्तुष्टिर्ह्रदयस्य च निर्वृति: ॥३॥
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा ।
प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥४॥

बृहदश्व उवाच ।

तत: समाहिता गत्वा दूती बाहुकमब्रवीत ।
दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत् ॥५॥
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् ।
दमयन्त्या वच: साधु निबोध पुरुषर्षभ ॥६॥
कदा वै प्रस्थिता यूयं किमर्थमिह चागता: ।
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥७॥

बाहुक उवाच ।

श्रुत: स्वयंवरो राज्ञा कौशलेन महात्मना ।
द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात् ॥८॥
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभि: ।
हयैर्वातजवैर्मुख्यैरहमस्य च सारथि: ॥९॥

केशिन्युवाच ।

अथ योsसौ तृतीयो व: स कुत: कस्य वा पुन: ।
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥१०॥

बाहुक उवाच ।

पूण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुत: ।
स नले प्रद्रुते भद्रे भाग्ङासुरिमुपस्थित: ॥११॥
अहमप्यश्वकुशल: सूतत्वे च प्रतिष्ठित: ।
ऋतुपर्णेन सारथ्ये भोजने च वृत: स्वयम् ॥१२॥


केशिन्युवाच ।

अथ जानाति वार्ष्णेय: क्व नु राजा नलो गत: ।
कथं च त्वयि चैतेन कथितं स्यात्तु बाहुक ॥१३॥

बाहुक उवाच ।

इहेव पुत्रो निक्षिप्य नलस्याशुभकर्मण: ।
गतस्ततो यथाकामं नैष जानाति नैषधम् ॥१४॥
न चान्य: पुरुष: कश्चिन्नलं वेत्ति यथस्विनि ।
गूढश्चरति लोकेsस्मिन्नष्टरुपो महीपति: ॥१५॥
आत्मैव तु नलं वोत्ति या चास्य तदनन्तरा ।
न हि वै स्वानि लिग्ङानि नल: शंसति कर्हिचित् ॥१६॥

केशिन्युवाच ।

योsसावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा ।
इमानि नारीवाक्यानि कथयान: पुन: पुन: ॥१७॥
क्व नु त्वं कितव च्छित्वा वस्त्रार्ध प्रस्थितो मम ।
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥१८॥
सा वै यथा समादिष्टा तथास्ते त्वत्प्रतीक्षिणी ।
दह्यमानां भृशं बाला वस्त्रार्धेनभिसंवृता ॥१९॥
तस्या रुदन्त्या: सततं तेन शोकेन पार्थिव ।
प्रसादं कुरु वै वीर प्रतिवाक्यं वदस्व च ॥२०॥
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल ।
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥२१॥

बृहदश्व उवाच ।

एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन ।
ह्रदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥२२॥
स निगृह्यान्मनो दु:खं दह्यमानो महीपति: ।
बाष्पसंदिग्धया वाचा पुनरेवेद०मब्रवीत् ॥२३॥
वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रिय: ।
आत्मानमात्मना सत्यो जितस्वर्गा न संशय: ॥२४॥
रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ।
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रिय: ॥२५॥
विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।
यत्सा तेन परित्यक्ता तत्र न क्रोध्दुमर्हति ॥२६॥
प्राणायात्रां परिप्रेप्सो: शकुनैर्ह्रतवासस: ।
आधिभिर्दह्यमानस्य श्यामा न क्रोध्दुमर्हति ॥२७॥
एवं ब्रुवाणस्तद्वाक्यं नल: परमदु:खित: ।
न बाष्पमशकत्सोढुं प्ररुरोदाथ भारत ॥२८॥
तत: सा केशिनी गत्वा दमयन्त्यै न्यवेदयत ।
तत्सर्व कथितं चैव विकारं चैव तस्य तम् ॥२९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP