मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
न्यास

गणेश स्तोत्र - न्यास

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


॥ श्रीगणपतिसहस्रनामस्तोत्रम्‌ ॥
श्रीगणेशाय नम: । श्रीमत्सकलगाणेशाचार्यगुरुभ्यो नम: ॥
श्रीमदंकुशधारिणे सद्‌गुरवे योगीन्द्राय नम: ।
श्रीमच्छ्रीहेरम्बराजाय सद्‌गुरवे योगीन्द्राय नम: ॥

गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे ।
न गुरो: परमं शिशुरस्मि गुरो: मतिरस्ति गुरौ मम पाहि गुरो ॥

श्रीस्वानंदेश: ब्रह्मणस्पतिर्देवता ॥ नानाविधानि छन्दांसि ॥ हुमिति बीजम्‌ ॥ तुङ्गमिति शक्ति: ॥
स्वाहाशक्तिरिति कीलकम्‌ ॥ सकलविघ्नविनाशनद्वारा श्रीब्रह्मणस्पतिप्रीत्यर्थं जपे विनियोग: ॥

विनियोग
श्रीमद्‌गणेशदिव्यसहस्रनामामृतस्तोत्रमालामहामंत्रस्य महागणपतिऋषि:। श्रीस्वानन्देशो ब्रह्मणस्पतिर्देवता । अनुष्टुप्‌छंद:। महागणपतिर्देवता । गं बीजम्‌ । तुङ्गं शक्ति: । स्वाहा कीलकम्‌ । चतुर्विधपुरुषार्थसिद्धयर्थे जपादौ विनियोग: ।

अथ न्यासा: ॥
गणेश्वरो गणक्रीड इत्यंगुष्ठाभ्यां नम: ॥
कुमारगुरुरीशान इति तर्जनीभ्यां नम: ॥
ब्रह्याण्डकुंभश्चिद्‌व्योमेति मध्यमाभ्यां नम: ॥
रक्तो रक्ताम्बधर इत्यनामिकाभ्यां नम: ॥
सर्वसद्‌गुरुसंसेव्य इति कनिष्ठिकाभ्यां नम: ।
लुप्तविघ्न: सुभक्तानामिति करतलकरपृष्ठाभ्यां नम: ॥

अथ हृदयादिन्यासा: ॥
छन्दश्चन्दोद्‌भव इति हृदयाय नम: ॥
निष्कलो निर्मल इति शिरसे स्वाहा ॥
सृष्टिस्थितिलयक्रीड इति शिखायै वषट्‌ ॥
ज्ञानविज्ञानमानन्दमिति कवचाय हुम्‌ ॥
अष्टांगयोगफलभृदिति नेत्रत्रयाय वौषट्‌ ॥
अनन्तशक्तिसहित इत्यस्त्राय फट्‌ ॥ इति दिग्बंध: ॥

ऋष्यादिन्यास: ।
ॐ महागणपतये ऋषये नम: शिरसि । अनुष्टुप्‌छन्दसेनम: मुखे । महागणपतिदेवतायैनम: हृदि । गं बीजाय नम: गुह्ये । तुङ्गशक्तये नम: पादयो: । स्वाहा कीलकाय नम: नाभौ ।

अथ ध्यानम्‌ ॥
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढं त्रिनेत्रं पाशंचैवांकुशाढयं परशुमभयदं बाहुभिर्धारयन्तम्‌ ।
शक्त्यायुक्तं गजास्यं पृथुतरजठरं सिद्धिबुद्धिप्रसादं रक्तं चन्द्रार्धमौलिं सकलभयहरं विघ्नराजं नमामि ॥

श्रीसिद्धिबुद्धिसहिताय सलक्षलाभाय श्रीस्वानंदेशाय ब्रह्मणस्पतये सांगाय सपरिवाराय सशक्तिकाय सायुधाय सवाहनाय सावरणाय नम: ॥ इति नाममंत्रेण मानसै: पंचोपचारै: संपूज्य पठेत्‌ ॥

। ध्यानम्‌ ।
हस्तीन्द्राननमिन्द्रचूडमरूणच्छायं त्रिनेत्रं रसात्‌
आश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया संततम्‌ ।
बीजापूरगदाधनुस्त्रिशिखयुक्‌चक्राब्जपाशोत्पल
व्रीहयग्रस्वविषाणरत्नकलशान्‌हस्तैर्वहन्तं भजे ॥१॥

गण्डपालीगलद्दानपूरलालसमानसान्‌
द्विरेफान्कर्णतालाभ्यां वारयन्तं मुहुर्मुहु: ॥२॥
कराग्रधृतमाणिक्यकुम्भवक्त्रविनिर्गतै:
रत्नवर्षै: प्रीणयन्तं साधकान्मदविह्वलम्‌ ॥३॥
माणिक्यमुकुटोपेतं सर्वाभरणभूषितम्‌
सर्वभक्ताभयकरं श्रीगणेशमहं भजे ॥४॥
इति ध्यानम्‌ ।

गणेशो व: पायात्‌ प्रणमत गणेशं जगदिदं ।
गणेशेन त्रातं नम इह गणेशाय महते ।
गणेशान्नास्त्यन्यत्त्रिजगति गणेशस्य महिमा ।
गणेशे मच्चित्ते निवसतु गणेश त्वमव माम्‌ ॥

N/A

References : N/A
Last Updated : April 05, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP