मराठी मुख्य सूची|स्तोत्रे|गणपती स्तोत्रे|श्री गणेश स्तोत्र माला|
गकारादिगणेशसहस्रनामस्तोत्रम्‌

गकारादिगणेशसहस्रनामस्तोत्रम्‌

विश्वातील सर्व कारणांचे कारण असणारा असा सर्वात्मा, वेदांनी ज्याची महती गायली आहे, सर्वप्रथम पूजनीय असणार्‍या अशा गणेशाला मी वंदन करितो.


ॐ अस्य श्रीगणपतिगकारादिसहस्रनाममालामन्त्रस्य, दुर्वासा ऋषि: अनुष्टुप्‌ छन्द: श्रीगणपतिर्देवता, गं बीजम्‌, स्वाहा शक्ति;, ग्लौं कीलकम्‌, मम सकलाभीष्ट-सिद्धयर्थे जपे विनियोग: ॥ ॐ अङ्गुष्ठाभ्यां नम:, श्रीं तर्जनीभ्यां नम:, ह्नीं मध्यमाभ्यां नम:, क्लीं अनामिकाभ्यां नम:, ग्लौं कनिष्टिकाभ्यां नम:, गं करतलकरपृष्ठाभ्यां नम: । एवं हृदयादि: ॥
वन्दे नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रम्‌ ।
एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम्‌ ।
शुण्डादण्डाढयगण्डोद्नलितमदजलोल्लोलमत्तालिजालम्‌ ।
श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥
ॐ गणेश्वरो गणाध्यक्षो गणाराराध्यो गणप्रिय: ।
गणनाथो गणस्वामी  गणेशो गणनायक: ॥१॥
गणमूर्तिर्गणपतिर्गणत्राता गणंजय: ।
गणपोऽथ गणक्रीडो गणदेवो गणाधिप: ॥२॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराट्‌ ।
गणराड्‌ गणगोप्तार्थो गणाङ्गो गणदैवतम्‌ ॥३॥
गणबन्धुर्गणसुहृद‌ गणाधीशो गणप्रथ: ।
गणप्रियसख: शश्वद्‌ गणप्रियसुह्रत्तथा ॥४॥
गणप्रियरतो नित्यं गणप्रीतिविवर्द्धन: ।
गणमण्डलमध्यस्थो गणकेलिपरायण; ॥५॥
गणाग्रणीर्गणेशानो गणगीतो गणोच्छ्र्य: ।
गण्यो गणहितो गर्जद्नणसेनो गणोद्धत: ॥६॥
गणभीतिप्रमथनो गणभीत्यपहारक: ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभु; ॥७॥
गणसेनो गणचरो गणप्राज्ञो गणैकराट्‌ ।
गणाग्य्रो गणनामा च गणपालनतत्पर: ॥८॥
गणजिद्‍ गणगर्भस्थो गणप्रवणमानस: ।
गणगर्वपरीहर्ता गणो गणनमस्कृत: ॥९॥
गणार्चिताङिघ्रयुगलो गणरक्षणकृत्सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्पर: ॥१०॥
गणागणपरित्राता गणाधिहरणोद्धुर: ।
गणसेतुर्गणनुतो गणकेतुर्गणाग्रग: ॥११॥
गणहेतुर्गणग्राही गणानुग्रहकारक: ।
गणागणानुग्रहभूर्गणागणवरप्रद: ॥१२॥
गणस्तुतो गणप्राणो गणसर्वस्वदायक: ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टद: ॥१३॥
गणसौख्यप्रदाता च गणदु:खप्रणाशन: ।
गणप्रथितनामा च गणाभीष्टकर: सदा ॥१४॥
गणमान्यो गणख्यातो गणवीतो गणोत्कट: ।
गणपालो गणवरो गणगौरवदायक: ॥१५॥
गणगर्जितसंतुष्टो गणस्वच्छन्दग: सदा ।
गणराजो गणश्रीदो गणाभयकर: क्षणात्‌ ॥१६॥
गणमूर्द्धाभिषिक्तश्च गणसैन्यपुरस्सर: ।
गुणातीतो गुणमयो गुणत्रयविभागकृत्‌ ॥१७॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रिय: ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग्गुणदूरग: ॥१८॥
गुणागुणवपुर्गौणशरीरो गुणमण्डित: ।
गुणस्रष्टा गुणेशानो गुणेशो‌ऽथ गुणेश्वर: ॥१९॥
गुणसृष्टजगत्संघो गुणमुख्यो गुणैकराट्‌ ।
गुणप्रविष्टो गुणभूर्गुणीकृतचराचर: ॥२०॥
गुणप्रवणसंतुष्टो गुणहीनपराङ्गुख: ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभु: ॥२१॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान्‌ गौणप्रकृतिर्गुणभाजनम्‌ ॥२२॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वल: ।
गुणवान्‌ गुणसम्पन्नो गुणनन्दितमानस: ॥२३॥
गुणसंचारचतुरो गुणसंचयसुन्दर: ।
गुणगौरो गुणाधारो गुणसंवृतचेतन: ॥२४॥
गुणकृद्‌ गुणभृन्नित्यं गुणाग्य्रो गुणपारदृक्‌ ।
गुणप्रचारी गुणयुग्‌ गुणागुणविवेककृत्‌ ॥२५॥
गुणाकरो गुणकरो गुणप्रवणवर्द्धन: ।
गुणगूढचरो गौणसर्वसंसारचेष्टित: ॥२६॥
गुणदक्षिणसौहार्दो गुणलक्षणतत्त्ववित्‌ ।
गुणहारी गुणकलो गुणसङ्घसख: सदा ॥२७॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचक: ।
गुणगर्वधरो गौणसुखदु:खोदयो गुण: ॥२८॥
गुणाधीशो  गुणलयो गुणवीक्षणलालस: ।
गुणगौरवदाता च गुणदाता गुणप्रभु: ॥२९॥
गुणकृद्रुणसम्बोधो गुणभृद्नुणबन्धन: ।
गुणहृद्यो गुणस्थायी गुणदायी गुणोत्कट: ॥३०॥
गुणचक्रधरो गौणावतारो गुणबान्धव: ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालय: ॥३१॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रय: ।
गुणयायी गुणाधायी गुणपो गुणपालक; ॥३२॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरव: ।
गुणवत्पूजितपदो गुणवत्प्रीतिदायक: ॥३३॥
गुणवद्नीतकीर्तिश्व गुणवद्‌बद्धसौहृद: ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालक: ॥३४॥
गुणवद्नुणसंतुष्टो गुणवद्रचितस्तव: ।
गुणवद्रक्षणपरो गुणवत्प्रणयप्रिय: ॥३५॥
गुणवच्चक्रसंचारो गुणवत्कीर्तिवर्द्धन: ।
गुणवद्नुणचित्तस्थो गुणवद्नुणरक्षक: ॥३६॥
गुणवत्पोषणकरो गुणवच्छत्रुसूदन: ।
गुणवत्सिद्धिदाता च गुणवद्रौरवप्रद: ॥३७॥
गुणवत्प्रवणस्वान्तो गुणवद्नुणभूषण: ।
गुणवत्कुलविद्वेषिविनाशकरणक्षम: ॥३८॥
गुणिस्तुतगुणो गर्जत्प्रलयाम्बुदनिस्वन: ।
गजो गजपतिर्गर्जद्नजयुद्धविशारद: ॥३९॥
गजास्यो गजकर्णोऽथ गजराजो गजानन: ।
गजरूपधरो गर्जद्रजयूथोद्धुरध्वनि: ॥४०॥
गजाधीशो गजाधारो गजासुरजयोद्धुर: ।
गजदन्तो गजवरो गजकुम्भो गजध्वनि: ॥४१॥
गजमायो गजमयो गजश्रीर्गजगर्जित: ।
गजामयहरो नित्यं गजपुष्टिप्रदायक: ॥४२॥
गजोत्पत्तिर्गजत्राता गजहेतुर्गजाधिप: ।
गजमुख्यो गजकुलप्रवरो गजदैत्यहा ॥४३॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृति: ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभु: ॥४४॥
गजमत्तो गजेशानो गजेशो गजपुङ्गव: ।
गजदन्तधरो गुञ्जन्मधुपो गजवेषभृत्‌ ॥४५॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजय: ।
गजराड्गजयूथस्थो गजगञ्जकभञ्जक: ॥४६॥
गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टप: ।
गानज्ञो गानकुशलो गानतत्त्वविवेचक: ॥४७॥
गानश्लाघी गानरसो गानज्ञानपरायण: ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतन: ॥४८॥
गानकृद्रानचतुरो गानविद्याविशारद: ।
गानध्येयो गानगम्यो गानध्यानपरायण; ॥४९॥
गानभूर्गानशीलश्च गानशाली गतश्रम: ।
गानविज्ञानसम्पन्नो गानश्रवणलालस: ॥५०॥
गानायत्तो गानमयो गानप्रणयवान्‌ सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमना: पुन: ॥५१॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वल: ।
गानाङ्गज्ञानवान्‌ गानमानवान्‌ गानपेशल: ॥५२॥
गानवत्प्रणयो गानसमुद्रो गानभूषण: ।
गानसिन्धुर्गानपरो गानप्राणो गणाश्रय: ॥५३॥
गानैकभूर्गानहृष्टो गानचक्षुर्गणैकदुक्‌ ।
गानमत्तो गानरुचिर्गानविद्नानवित्प्रिय: ॥५४॥
गानान्तरात्मा गानाढयो गानभ्राजत्सभ: सदा ।
गानमायो गानधरो गानविद्याविशोधक: ॥५५॥
गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रिय: ।
गानाधीशो गानलयो गानाधारो गतीश्वर: ॥५६॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान्‌ ।
गानतानततो गानतानदानविमोहित: ॥५७॥
गुरुर्गुरूदरश्रोणिर्गुरुतत्त्वार्थदर्शन: ।
गुरुस्तुतो गुरुगुणो गुरुमायो गुरुप्रिय: ॥५८॥
गुरुकीर्तिर्गुरुभुजो गुरुवक्षा गुरुप्रभ: ।
गुरुलक्षणसम्पन्नो गुरुद्रोहपराङ्मुख ॥५९॥
गुरुविद्यो गुरुप्राणो गुरुबाहुबलोच्छ्रय: ।
गुरुदैत्यप्राणहरो गुरुदैत्यापहारक: ॥६०॥
गुरुगर्वहरो गुह्यप्रवशे गुरुदर्पहा ।
गुरुगौरवदायी च गुरुभीत्यपहारक: ॥६१॥
गुरुशुण्डो गुरुस्कन्धो गुरुजङ्घो गुरुप्रथ: ।
गुरुभालो गुरुगलो गुरुश्रीर्गुरुगर्वनुत्‌ ॥६२॥
गुरूरुर्गुरुपीनांसो गुरुप्रणयलालस: ।
गुरुमुख्यो गुरुकुलस्थायी गुरुगुण: सदा ॥६३॥
गुरुसंशयभेत्ता च गुरुमानप्रदायक: ।
गुरुधर्मसदाराध्यो गुरुधर्मनिकेतन: ॥६४॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युति: ।
गुरुधर्माग्रगण्योऽथ गुरुधर्मधुरन्धर: ॥६५॥
गरिष्ठो गुरुसंतापशमनो गुरुपूजित: ।
गुरुधर्मधरो गौरधर्माधारो गदापह: ॥६६॥
गुरुशास्त्रविचारज्ञो गुरुशास्त्रकृतोद्यम: ।
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालय: सदा ॥६७॥
गुरुमन्त्रो गुरुश्रेष्ठो गुरुमन्त्रफलप्रद: ।
गुरुस्त्रीगमने दोषप्रायश्चित्तनिवारक: ॥६८॥
गुरुसंसारसुखदो गुरुसंसारदु:खभित्‌ ।
गुरुश्लघापरो गौरभानुखण्डावतंसभृत्‌ ॥६९॥
गुरुप्रसन्नमूर्तिश्च गुरुशापविमोचक: ।
गुरुकान्तिर्गुरुमयो गुरुशासनपालक: ॥७०॥
गुरुतन्त्रो गुरुप्रज्ञो गुरुभो गुरुदैवतम्‌ ।
गुरुविक्रमसंचारो गुरुदृग्‌ गुरुविक्रम: ॥७१॥
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डक: ।
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जित: ॥७२॥
गुरुपुत्रप्रियसखो गुरुपुत्रभयापह: ।
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रद: ॥७३॥
गुरुपुत्रार्तिशमनो गुरुपुत्राधिनाशन: ।
गुरुपुत्रप्राणदाता गुरुभक्तिपरायण: ॥७४॥
गुरुविज्ञानविभवो गौरभानुवरप्रद: ।
गौरभानुस्तुतो गौरभानुत्रासापहारक: ॥७५॥
गौरभानुप्रियो गौरभानुर्गौरववर्द्धन: ।
गौरभानुपरित्राता गौरभानुसख: सदा ॥७६॥
गौरभानुप्रभुर्गौरभानुभीतिप्रणाशन: ।
गौरीतेज:समुत्पन्नो गौरीहृदयनन्दन: ॥७७॥
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत्‌ ।
गौरो गौरगुणो गौरप्रकाशो गौरभैरव: ॥७८॥
गौरीशनन्दनो गौरीप्रियपुत्रो गदाधर: ।
गौरीवरप्रदो गौरीप्रणयो गौरसच्छवि: ॥७९॥
गौरीगणेश्वरो गौरीप्रवणो गौरभावन: ।
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठद्वक्‌ ॥८०॥
गौतमो गौतमीनाथो गौतमप्राणवल्लभ: ।
गौतमाभीष्टवरदो गौतमाभयदायक: ॥८१॥
गौतमप्रणयप्रह्वो गौतमाश्रमदु:खहा ।
गौतमीतीरसंचारी गौतमीतीर्थनायक: ॥८२॥
गौतमापत्परीहारो गौतमाधिविनाशन: ।
गोपतिर्गोधनो गोपो गोपालप्रियदर्शन: ॥८३॥
गोपालो गोगणाधीशो गोकश्मलनिवर्तक: ।
गोसहस्रो गोपवरो गोपगोपीसुखावह: ॥८४॥
गोवर्द्धनो गोपगोपो गोमान्‌ गोकुलवर्द्धन: ।
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत्‌ ॥८५॥
गोमी गोकष्टसंत्राता गोसंतापनिवर्तक: ।
गोष्ठो गोष्ठाश्रयो गोष्टपतिर्गोधनवर्द्धन: ॥८६॥
गोष्ठप्रियो गोष्ठमयो गोष्ठामयनिवर्तक: ।
गोलोको गोलको गोभृद्‌ गोभर्ता गोसुखावह: ॥८७॥
गोधुग्‌ गोधुग्गणप्रेष्ठो गोदोग्धा गोमयप्रिय: ।
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापह: ॥८८॥
गोत्रवृद्धिकरो गोत्रप्रियो गोत्रार्तिनाशन: ।
गोत्रोद्धारपरो गोत्रप्रवरो गोत्रदैवतम्‌ ॥८९॥
गोत्रविख्यातनामा च गोत्री गोत्रप्रपालक: ।
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लम: ॥९०॥
गोत्रत्राणकरो गोत्रापतिर्गोत्रेशपूजित: ।
गोत्रभिद्‌ गोत्रभित्त्राता गोभिद्वरदायक: ॥९१॥
गोत्रभित्पूजितपदो गोत्रभिच्छत्रुसूदन: ।
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्नोत्रपालक: ॥९२॥
गोत्रभिद्‌गीतचरितो गोत्रभिद्राज्यरक्षक: ।
गोत्रभिज्जयदायी च गोत्रभित्प्रणय: सदा ॥९३॥
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायक: ।
गोत्रभिद्नोपनपरो गोत्रभित्सैन्यनायक: ॥९४॥
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रिय: ।
ग्रन्थज्ञो ग्रन्थकृद्‌ग्रन्थग्रन्थिभिद्‌ग्रन्थविघ्नहा ॥९५॥
ग्रन्थादिर्ग्रन्थसंचारो ग्रन्थश्रवणलोलुप: ।
ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित्‌ ॥९६॥
ग्रन्थसंशयसंछेदी ग्रन्थवक्त ग्रहाग्रणी: ।
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजित: ॥९७॥
ग्रन्थारम्भस्तुतो ग्रन्थगाही ग्रन्थार्थपारद्वक्‌ ।
ग्रन्थदृग्‌ ग्रन्थविज्ञानो ग्रन्थसंदर्भशोधक: ॥९८॥
ग्रन्थकृत्पूजितो ग्रन्थकरो ग्रन्थपरायण: ।
ग्रन्थपारायणपरो ग्रन्थसंदेहभञ्जक: ॥९९॥
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दित: सदा ।
ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायक: ॥१००॥
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृद: ।
ग्रन्थपारंगमो ग्रन्थगुणविद्‌ ग्रन्थविग्रह: ॥१०१॥
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रग: ।
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थग्रथनलालस: ॥१०२॥
ग्रन्थभूमिर्ग्रहश्रेष्ठो ग्रहकेतुर्ग्रहाश्रय: ।
ग्रन्थकारो ग्रन्थकारमान्यो ग्रन्थप्रसारक: ॥१०३॥
ग्रन्थश्रमज्ञो ग्रन्थाङ्गो ग्रन्थभ्रमनिवारक: ।
ग्रन्थप्रवणसर्वाङ्गो ग्रन्थप्रणयतत्पर: ॥१०४॥
गीतं गीतगुणो गीतकीर्तिर्गीतविशारद: ।
गीतस्फीतयशा गीतप्रणयो गीतचञ्चुर: ॥१०५॥
गीतप्रसन्नो गीतात्मा गीतलोलो गतस्पृह: ।
गीताश्रयो गीतमयो गीततत्त्वार्थकोविद: ॥१०६॥
गीतसंशयसंछेत्ता गीतसंगीतशासन: ।
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रय: ॥१०७॥
गीतासारोऽथ गीताकृद्नीताकृद्विघ्ननाशन: ।
गीतासक्तो गीतलीनो गीताविगतसंज्वर: ॥१०८॥
गीतैकद्दग्‌ गीतभूतिर्गीतप्रीतो गतालस: ।
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित्‌ ॥१०९॥
गीतागीतविवेकज्ञो गीताप्रवणचेतन: ।
गतभीर्गतविद्वेषो गतसंसारबन्धन: ॥११०॥
गतमायो गतत्रासो गतदुःखो गतज्वर: ।
गीतासुहृद्‌ गताज्ञानो गतदुष्टाशयो गत: ॥१११॥
गतार्तिर्गतसंकल्पो गतदुष्टविचेष्टित: ।
गताहंकारसंचारो गतदर्पो गताहित: ॥११२॥
गतविघ्नो गतभयो गतागतनिवारक: ।
गतव्यथो गतापायो गतदोषो गते: पर: ॥११३॥
गतसर्वविकारोऽथ गतगञ्जितकुञ्जर: ।
गतकम्पितभूपृष्ठो गतरुग्‌ गतकल्मष: ॥११४॥
गतदैन्यो गतस्तैन्यो गतमानो गतश्रम: ।
गतक्रोधो गतग्लानिर्गतम्लानो गतभ्रम: ॥११५॥
गताभावो गतभवो गततत्त्वार्थसंशय: ।
गयासुरशिरश्छेत्ता गयासुरवरप्रद: ॥११६॥
गयावासो गयानाथो गयावासिनमस्कृत: ।
गयातीर्थफलाध्यक्षो गयायात्राफलप्रद: ॥११७॥
गयामयो गयाक्षेत्रं गयाक्षेत्रनिवासकृत्‌ ।
गयावासिस्तुतो गायन्मधुव्रतलसत्कट: ॥११८॥
गायको गायकवरो गायकेष्टफलप्रद: ।
गायकप्रणयी गाता गायकाभयदायक: ॥११९॥
गायकप्रवणस्वान्तो गायकप्रथम: सदा ।
गायकोद्नीतसम्र्पीतो गायकोत्कटविघ्नहा ॥१२०॥
गानगेयो गायकेशो गायकान्तरसंचर: ।
गायकप्रियद: शश्वद्‌ गायकाधीनविग्रह: ॥१२१॥
गेयो गेयगुणो गेयचरितो गेयतत्त्ववित्‌ ।
गायकत्रासहा ग्रन्थो ग्रन्थतत्त्वविवेचक: ॥१२२॥
गाढानुरागो गाढाङ्गो गाढगङ्गाजलोऽन्वहम्‌ ।
गाढावगाढजलधिर्गाढप्रज्ञो गतामय; ॥१२३॥
गाढप्रत्यर्थिसैन्योऽथ गाढानुग्रहतत्पर: ।
गाढाश्लेषरसाभिज्ञो गाढनिर्वृतिसाधक: ॥१२४॥
गङ्गाधरेष्टवरदो गङ्गाधरभयापह: ।
गङ्गाधरगुरुर्गङ्गाधरध्यातपद: सदा ॥१२५॥
गङ्गाधरस्तुतो गङ्गाधरारध्यो गतस्मय: ।
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दर: ॥१२६॥
गङगाजलरसास्वादचतुरो गाङ्गनीरप: ।
गङ्गाजलप्रणयवान्‌ गङ्गातीरविहारकृत्‌ ॥१२७॥
गङ्गाप्रियो गाङ्गजलावगाहनपर: सदा ।
गन्धमादनसंवासो गन्धमादनकेलिकृत्‌ ॥१२८॥
गन्धानुलिप्तसर्वाङ्गो गन्धलुब्धमधुव्रत: ।
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत्‌ सदा ॥१२९॥
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्द्धन: ।
गकारबीजनिलयो गकारो गर्विगर्वनुत्‌ ॥१३०॥
गन्धर्वगणसंसेव्यो गन्धर्ववरदायक: ।
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम्‌ ॥१३१॥
गन्धर्वगर्वसंछेत्ता गन्धर्ववरदर्पहा ।
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुत ॥१३२॥
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारक: ।
गन्धर्वभयद: शश्वद्‌ गन्धर्वप्रतिपालक: ॥१३३॥
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुक: ।
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जन: ॥१३४॥
गन्धर्वत्राणसंनद्धो गन्धर्वसमरक्षम: ।
गन्धर्वस्त्रीभिराराध्यो गानं गानपटु: सदा ॥१३५॥
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा ।
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कॄत: ॥१३६॥
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यम: ।
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यम: ॥१३७॥
गच्छगीतगुणो गच्छमर्यादाप्रतिपालक: ।
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरु: ॥१३८॥
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रद: ।
गीर्वाणगीतचरितो गीर्वाणगणसेवित: ॥१३९॥
गीर्वाणवरदाता च गीर्वाणभयनाशकृत‌ ।
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदन: ॥१४०॥
गीर्वाणधामा गीर्वाणगोप्ता गीर्वाणगर्वहृत्‌ ।
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायक: ॥१४१॥
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दर: ।
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षक: ॥१४२॥
गुहेहापूरको गन्धमत्तो गीर्वाणपुष्टिद: ।
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहित: ॥१४३॥
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलन्‌ ।
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायक: ॥१४४॥
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित्‌ ।
गीर्वाणगमसम्पत्तिर्गीर्वाणव्यसनापह: ॥१४५॥
गीर्वाणप्रणयो गीतग्रहणोत्सुकमानस: ।
गीर्वाणभ्रमसम्भेत्ता गीर्वाणगुरुपूजित: ॥१४६॥
ग्रहो ग्रहपतिर्ग्राहो ग्रहपीडाप्रणाशन: ।
ग्रहस्तुतो ग्रहाध्यक्षो ग्रहेशो ग्रहदैवतम्‌ ॥१४७॥
ग्रहकृद्‌ ग्रहभर्ता च ग्रहेशानो ग्रहेश्वर: ।
ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता ग्रहोत्कट: ॥१४८॥
ग्रहगीतगुणो ग्रन्थप्रणेता ग्रहवन्दित: ।
गर्वी गर्वीश्वरो गर्वो गर्विष्ठो गर्विगर्वहा ॥१४९॥
गवांप्रियो गवांनाथो गवीशानो गवांपति: ।
गव्यप्रियो गवांगोप्ता गवीसम्पत्तिसाधक: ॥१५०॥
गवीरक्षणसंनद्धो गवीभयहर: क्षणात्‌ ।
गवीगर्वहरो गोदो गोप्रदो गोजयप्रद: ॥१५१॥
गजायुतबलो गण्डगुञ्जन्मत्तमधुव्रत: ।
गण्डस्थललसद्दानमिलन्मत्तालिमण्डित: ॥१५२॥
गुडो गुडप्रियो गण्डगलद्दानो गुडाशन: ।
गुडाकेशो गुडाकेशसहायो गुडलडडुभुक ॥१५३॥
गुडभुग्गुडभुग्गण्यो गुडाकेशवरप्रद: ।
गुडाकेशार्चितपदो गुडाकेशसख: सदा ॥१५४॥
गदाधरार्चितपदो गदाधरवरप्रद: ।
गदायुधो गदापाणिर्गदायुद्धविशारद: ॥१५५॥
गदहा गददर्पघ्नो गदगर्वप्रणाशन: ।
गदग्रस्तपरित्राता गदाडम्बरखण्डक: ॥१५६॥
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशय: ।
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक्‌ ॥१५७॥
गीर्गीष्पतिर्गिरीशानो गीर्देवीगीतसद्रुण: ।
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्र्पियंकर: ॥१५८॥
गीर्भूमिर्गीरसज्ञोऽथ गी:प्रसन्नो गिरीश्वर: ।
गिरीशजो गिरौशायी गिरिराजसुखावह: ॥१५९॥
गिरिराजार्चितपदो गिरिराजनमस्कृत: ।
गिरिराजगुहाविष्टो गिरिराजाभयप्रद: ॥१६०॥
गिरिराजेष्टवरदो गिरिराजप्रपालक: ।
गिरिराजसुतासूनुर्गिरिराजजयप्रद: ॥१६१॥
गिरिव्रजवनस्थायी गिरिव्रजचर: सदा ।
गर्गो गर्गप्रियो गर्गदेवो गर्गनमस्कृत: ॥१६२॥
गर्गभीतिहरो गर्गवरदो गर्गसंस्तुत: ।
गर्गगीतप्रसन्नात्मा गर्गानन्दकर: सदा ॥१६३॥
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जक: ।
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायक: ॥१६४॥
गर्गग्लानिहरो गर्गभ्रमहृद‌ गर्गसंगत: ।
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजन: ॥१६५॥
गम्भीरो गणितप्रज्ञो गणितागमसारवित्‌ ।
गणको गणकश्लाघ्यो गणकप्रणयोत्सुक: ॥१६६॥
गणकप्रवणस्वान्तो गणितो गणितागम: ।
गद्यं गद्यमयो गद्यपद्यविद्याविशारद:  ॥१६७॥
गललग्नमहानागो गलदर्चिर्गलन्मद: ।
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रद: ॥१६८॥
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचन: ।
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभन: ॥१६९॥
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारक: ।
गर्भागमनसंनाशो गर्भदो गर्भशोकनुत्‌ ॥१७०॥
गर्भत्राता गर्भगोप्ता गर्भपुष्टिकर: सदा ।
गर्भाश्रयो गर्भमयो गर्भामयनिवारक: ॥१७१॥
गर्भधारो गर्भधरो गर्भसंतोषसाधक: ।
गर्भगौरवसंधानसाधनं गर्भगर्वहृत्‌ ॥१७२॥
गरीयान्‌ गर्वनुद्‌ गर्वमर्दी गरदमर्दक: ।
गरसंतापशमनो गुरुराज्यसुखप्रद: ॥१७३॥
॥ फलश्रुति: ॥
नाम्नां सहस्रमुदितं महद्‌ गणपतेरिदम्‌ ।
गकारादि जगद्वन्द्यं गोपनीयं प्रयत्नत: ॥१७४॥
य इदं प्रयत: प्रातस्त्रिसंध्यं वा पठेन्नर: ।
वाञ्छितं समवाप्नोति नात्र कार्या विचारणा ॥१७५॥
पुत्रार्थी लभते पुत्रान्‌ धनार्थी लभते धनम्‌ ।
विद्यार्थी लभते विद्यां सत्यं सत्यं न संशय: ॥१७६॥
भूर्जत्वचि समालिख्य कुंकुमेन समाहित: ।
चतुर्थ्यां भौमवारे च चन्द्रसूर्योपरागके ॥१७७॥
पूजयित्वा गणाधीशं यथोक्तविधिना पुरा ।
पूजयेच्‌ यो यथाशक्त्या जुहुयाच्च शमीदलै: ॥१७८॥
गुरुं सम्पूज्य वस्त्राद्यै: कृत्वा चापि प्रदक्षिणाम्‌ ।
धारयेद्‌ य: प्रयत्नेन स साक्षाद्‌गणनायक: ॥१७९॥
सुराश्चासुरवर्याश्व पिशाचा: किन्नरोरगा: ।
प्रणमन्ति सदा तं वै द्वष्ट्वा विस्मितमानसा: ॥१८०॥
राजा सपदि वश्य: स्यात्‌ कामिन्यस्तद्‌वशे स्थिरा: ।
तस्य वंशे स्थिरा लक्ष्मी: कदापि न विमुञ्चति ॥१८१॥
निष्कामो य: पठेदेतद्‌ गणेश्वरपरायण: ।
स प्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात्‌ ॥१८२॥
इदं ते कीर्तितं नाम्नां सहस्रं देवि पावनम्‌ ।
न देयं कृपणायाथ शठाय गुरुविद्विषे ॥१८३॥
दत्त्वा च भ्रंशमाप्नोति देवताया: प्रकोपत: ।
इति श्रुत्वा महादेवी तदा विस्मितमानसा ॥१८४॥
पूजयामास विधिवद्‌ गणेश्वरपदद्वयम्‌ ॥१८५॥
॥ इति श्रीरुद्रयामले महागुप्तसारे शिवपार्वतीसंवादे गकारादि श्रीगणपतिसहस्रनामस्तोत्रं सम्पूर्णम्‌ ॥

N/A

References : N/A
Last Updated : April 16, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP