TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमपरिच्छेदः - नवमोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


नवमोऽध्यायः
॥ श्रीभगवानुवाच ॥
भूम्यावरणमध्ये तु ब्रह्माण्डोत्पादनोचितम् ।
योजनानां पञ्चविंशत्कोटिद्विगुणसम्मितम् ॥
देशमुर्वरितं चक्रे भगवान् देशकालवित् ।
असंसृष्टानि तत्वानि ब्रह्माण्डोर्ध्वगतानि च ॥
अण्डं तदन्तर्निखिळं संसृष्टं परिकीर्तितम् ।
विज्ञाननामको विष्णुः अहङ्कारस्य रक्षकः ॥
.मनो हृषीकामात्रासु तत्तन्नामा रमापतिः ।
आकाशवायुतेजस्तु प्राणनामाखिलेश्वरः ॥
अन्ननामा पृथिव्यां सः जलावरणगोपि च ।
विशेषपृथिवी चाण्डद्विगुणावृत्तिरूपिका ॥
अबग्नीरनभोहङ्कृन्महत्तत्व गुणा इमे ।
सत्वाद्यावृत्तयोण्डोर्ध्वं स्थिताः क्ष्मावरणाः क्रमात् ॥
दशोत्तराः प्रविज्ञेया तमसो द्विगुणं रजः ।
रजसो द्विगुणं सत्वं ततो न प्राकृतं क्वचित् ॥
पश्चादूर्ध्वप्रदेशे तु अनिरुद्धात्मको हरिः ।
तस्माद्धशाधिकतनुः सोप्यावरणरूपकः ॥
ततो दशाधिकौ प्रद्युम्नसङ्कर्षणनामकौ ।
वासुदेवस्तदूर्ध्वस्थस्तद्धशांशाधिको मतः ॥
ततोप्यनन्तगुणिकाऽनन्तानन्त प्रदेशके ।
लक्ष्मीनारायणौ व्याप्तौ मर्यादा न तयोः क्वचित् ॥
श्रीर्देशकालतोनन्तागुणानन्ता न हि क्वचित् ।
अनिरुद्धात् प्रथमतो ऋजुभिस्त्वपरोक्षिभिः ॥
सह पूर्वोक्तकालेन जातौ द्वौ भार्ययायुतौ ।
त्रिरूपकौ ब्रह्मवायू त्रिगुणावृत्तिगौ क्रमत् ॥
तेषां सत्वाद्या वृत्तयः स्थूलदेहाः प्रकीर्तिताः ।
ततोनिरूद्धसूक्ष्मदेहाज्जातौ विधीरणौ ॥
स ऋजूकौ चतुर्वारं महत्तत्वगतौ मतौ ।
तेषां महत्तत्वमेव स्थूलदेहं वदन्ति हि ॥
तत स्त्रिरूपौ स ऋजू तौ द्वौ शान्तीशजौ क्रमात् ।
त्रिविधाहङ्कृतिगतौ स भार्यौ स ऋजू उभौ ॥
एकविंशद्वारजातौ मनस्तत्वादितत्वगौ ।
अपरोक्षिणाम् ऋजूनां च शतस्याण्डाद्बहिर्जनिः ॥
एवं रुद्रादि तत्वेशाः स्वसंख्या नियमोचिताः ।
अण्डाद्बहिः सृष्टियोग्याः दृष्टेशाः नेतरे क्वचित् ॥
एवं त्रिरूपतो जाताः प्राक्शान्तीशेन कालतः ।
सूक्ष्मेण ऋजुजन्मानन्तरं शेषादयस्त्रयः ॥
षण्णीलाद्याः कालयोगात् सापर्ण्याद्याः क्रमेण तु ।
अजेशाजेरशेष्यैस्तु अजेराभ्यां स्त्रिभिः स्त्रिभिः ॥
रूपैरहङ्कारतत्वात्मकस्थूलशरीरिणः ।
बभूवुरितरेषां तु पदयोग्यापरोक्षिणः ॥
ते तथैव महत्तत्वाद्येकविंशति तत्वके ।
तावद्रूपैस्सूक्ष्मतत्वाजातौ प्रागनिरूद्धतः ॥
मन आदीनि तत्वानि स्थूलदेहानि भेजिरे ।
इन्द्रादि पुष्करान्ताश्च सूक्ष्मतत्वानिरुद्धजाः ॥
एकविंशद्वारतस्ते आसन् चित्तादि तत्वगाः ।
तानि स्थूलादि तत्वानि तेषाम् आसन् क्रमेण हि ॥
प्राक्शान्तीशोत्थितेन्द्राद्याः मनस्थूलशरीरिणः ।
द्वित्र्यब्दिपञ्चषड्वारं जाताः श्रोत्रादितत्वगाः ॥
सप्ताषटनवदिग्रुद्रवारजाताः क्रमेण तु ।
इन्द्रादयः पुष्करान्ताः वागादि स्थूलदेहकाः ॥
ततश्च पञ्चवारोत्थाः प्राक्शान्तीशेन कालयोगतः ।
शब्दादि स्थूलदेहेताः ततो जातास्तु द्वादिगाः ॥
अत्रोक्तानां सुराणान्तु यादृशस्थूलदेहतः ।
भावीनां च पदस्थानां तद्वशे स्थितिरिष्यते ॥
अनिरुद्धः सूक्ष्मकर्ता प्रागेषामुचितस्थळम् ।
प्राप्यैव सृष्टिमकरोद्धेशकालार्थतत्ववित् ॥
सर्वतत्वस्थितानान्तु ऋजूनां सूक्ष्मदेहगाः ।
सत्वाणवो दशगुणाधिका यान्ति च सर्वशः ॥
रजस्तमोणवः पादमात्रतो यान्ति चोन्नतिम् ।
बहुवारजातरुद्रेन्द्रादि सूक्ष्मशरीरगाः ॥
सत्वाणवस्समाश्चोपाश्चोपचितास्तथा ।
रजस्तमोणवो रुद्रशक्रादिसुरसूक्ष्मगाः ॥
द्वित्र्यब्धिपञ्चषट्सप्ताष्ट धर्मशिवार्ककैः ।
भागतोविंशदन्तैर्वृद्धिं यास्यन्ति वै क्रमात् ॥
तेनैव तत्कारणेन पूर्वपूर्वोक्त कारणैः ।
उत्तरोत्तररूपेषु बुद्धिमान्द्यादि चेष्यते ॥
महदादिषु चाण्डोर्ध्वं दैत्यावेशादि नेष्यते ।
यथा सूक्ष्मशरीरेषु अभिवृद्धं रजस्तमः ॥
भवत्तेषां तथा प्रोक्तं स्थूलदेहेष्वपि स्फुटम् ।
रजस्तमोणवो व्यक्तिं यास्यन्त्येव ततः क्रमात् ॥
तत्वानि पूर्वरूपाणि सन्त्यनन्तानि तानि तु ।
ऋजवः सर्वतत्वेषु प्रतिभातपरावराः ॥
सभार्या नीचोच्चसर्वतत्वेषु संस्थिताः ।
रजस्तमोणूपचयाधिक्याद्बुद्धिविपर्ययम् ॥
नैव यास्यन्ति ते सर्वे हरेः प्रियतमास्सदा ।
ब्रह्मासरस्वतीविष्णोः सर्वाङ्गैः सम्भवन्ति हि ॥
वामनाड्युत्थितौ शेषविपौ विष्णोः शिवस्तथा ।
नीलाद्यावारुणी पूर्वाः इन्द्रकामौ मनोभवौ ॥
सभार्यौ च गुरुर्बुद्धेः मनुराद्योह्युपस्थतः ।
दक्षोङ्गुष्टात् कामपुत्रः मनवः कामपूर्वकाः ॥
मरुतः श्वासतः सूर्यः चक्षुषः चन्द्रमा श्रुतेः ।
धर्मो हृदः सभार्यश्च वरुणो रसनोत्थितः ॥
भृगुस्त्वचोग्निर्मुखतः जातान् मेढ्रान् मनुर्गतेः ।
विश्वामित्रमरीच्याद्याः मित्रोपानाच्चनैरुतः ॥
स्कन्दाद्भवगणपतिः शम्भुजयन्तौ नाभिपादयोः ।
नासत्यौ नासिकाभ्यन्तु विश्वक्सेनो मुखादभूत् ॥
.पद्भ्यान्तु ऋभवः कण्ठाद्धिग्देवास्तु कर्मजाः ।
रुद्राः कपोलाल्ललाटाच्च वसवत्स्विच्छया विभोः ॥
आदित्यास्तु प्रकाशोत्था दन्तपङ्क्तिस्थिता अपि ।
सनकाद्या मनोजाता जयाद्यानाभि पार्श्वतः ॥
गङ्गादि नद्यो नाडिभ्यः पादाङ्गुष्टादिभिः प्रभोः ।
अनुक्ततात्विकास्सर्वे कटाक्षोत्था बुधामताः ॥
शनिः शरीरतः पुष्कराद्या कर्मेन्द्रियोद्भवाः ।
अनुक्तदेवताभार्याः भर्तृभिः सहसम्भवाः ॥
एते ह्यशेषतत्वेषु तत्वस्थित हरीरयोः ।
प्रोक्त्यैरङ्गैः क्रमाज्जातः वसन्ति ह्यभिमानिनः ॥
सृष्टावेवं बहिश्चाण्डान् मुक्तावेवं हरेर्वशः ।
जातौ जातौ हि यस्तस्मात् कामस्तुद्गतिस्सुतः ॥
चण्डो जयाद्या द्वारस्थाः शशाङ्को धनपस्तथा ।
गन्धर्वपतयस्सर्वे जातिष्वपि च तात्विकाः ॥
पुष्करोच्चा बुधोच्चास्तु अनुक्तास्ते प्रकीर्तिताः
एवं शेषस्य भागोत्था बहिरण्डात्समस्तशः ।
नवकोट्यो हि देवानां सत्वतत्वाभिमानिनः ॥
अजो विपस्ततो नीलाद्विषट्कविपवल्लभा ।
तत इन्द्रश्शशी तस्मात् प्राणाद्या मारुतोखिलाः ॥
इन्द्राद्दक्षस्ततो देवर्षयो वै नारदादयः ।
इन्द्राद्गुरुस्ततो सूर्यः जयौ विघ्नप्रभुस्ततः ॥
अभवंश्च स्मृतासूर्यादग्निरग्नेस्तु रुद्रकाः ।
आदित्यावसवो विश्वाप्याश्वनौ रक्षसाधिपः ॥
पर्जन्य बुधशन्याद्याः पुष्करान्ताः समुत्थिताः ।
वसन्ति सर्वतत्वेषु गरुत्मान् मार्गदेवताः ॥
उत्तमानां च गुरवः नीचा उत्तमसेवकाः ।
॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे नवमोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:56.5830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पारिप्लव

  • n. रैवत मन्वन्तर के भूतरजसोम में एक देवगण । 
RANDOM WORD

Did you know?

कुंभमेळ्याबद्दल माहिती द्या? नजिकचा कुंभमेळा कोठे आहे ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.