TransLiteral Foundation

प्रथमपरिच्छेदः - अष्टमोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


अष्टमोऽध्यायः
॥ श्रीहंस उवाच ॥
व्यतीते लयकाले तु सृष्टिकाल उपागते ।
परकालादिमादौ तु पुरुषः सर्वचेतनान् ॥
वासुदेवेर्पयल्लिङ्गबद्धान् जीवान् विलक्षणान् ।
तारतम्ययुतान् स्वयोग्यतां कलितांश्च सः ॥
स्वस्वोचितमहायत्नाभिमुखान् स्वस्वकर्मणा ।
जन्मलाभोचितान् वासुदेवस्थान् वीक्ष्य चिन्तयन् ॥
.सृष्टिकालाद्यनिमिषसूक्ष्मदेहोचितं ह्यजाम् ।
लिङ्गबद्धन्तु तत्पूर्वक्षणवैषम्यसंगतः ॥
एकं गृहीत्वान्यजीवान् प्रादात् सङ्कर्षणो विभुः ।
स वायुमेकं लिङ्गे तं गृहीत्वान्यान् सुचेतनान् ॥
प्रद्युम्रोऽदात्तयोर्भार्ये स गृहीत्वा सलिङ्गके ।
तदन्यान्तात्विकान् सर्वपदस्थान् भावितात्विकान् ॥
व्यक्तापरोक्षिणः संख्या नियमात् सूक्ष्मयोगतः ।
स्रष्टुं प्रादात् सचरमे अनिरुद्धोऽखिलेश्वरः ॥
वासुदेवो विरिञ्चस्य लिङ्गदेहं व्यचालयत् ।
तत्तलिङ्गदेहस्थत्रिगुणेभ्यस्त्रिबिन्दवः ॥
न्यपतन् तत्र योबिन्दुः सात्विकः स तु निर्मलः ।
रजो वैषम्यसंयुक्त रजोबिन्दुस्तथापतत् ॥
तमो वैषम्यकलितस्तमोबिन्दुरभूत्ततः ।
रजोबिन्दुगतो विष्णूरजोवैषम्यमूर्जितम् ॥
पृथक्स्थाप्य रजोबिन्दुं शुद्धं चक्रे जगद्गुरुः ।
तमोबिन्दुगतोदेवः तमोवैषम्यमुत्कटम् ॥
समुधृत्य पृथक्स्थाप्य तं बिन्दुं शुद्धमातनोत् ।
ततो माया प्रार्थितः सन् वासुदेवस्तदादिमः ॥
तद्रजोगुणवैषम्यलिङ्गबद्धमजं विभुः ।
अजस्य सूक्ष्मदेहाप्त्यै रजोवैषम्यमूर्जितम् ॥
निक्षिप्य च निगीर्येशोमायायां महदाह्वयम् ।
सूक्ष्मरूपं तु तद्वीर्यं प्राकृतं प्राक्षिपद्धरिः ॥
तत्र सा सुषुवे सूक्ष्मदेहवन्तमजं विभुम् ।
गुणत्रयाणवः पूर्वं सांख्या नियमतः स्थिताः ॥
यावन्तस्ते सदा नित्याः तेषां नाशो न विद्यते ।
तत्र सत्वाणवः सर्वे दशधोपचिताः सदा ॥
भवन्ति राजसास्तामसाणवः पादमात्रतः ।
भवन्त्युपचिता वायुसरस्वत्यादि सूक्ष्मगाः ॥
सत्वादयस्तु दशधा ऊर्जितास्सम्भवन्ति हि ।
त्रृणादीनां सूक्ष्मगतानधिकाः प्रभवन्ति हि ॥
सत्वाणवो राजसाश्च तामसाह्यणवश्च ये ।
ऋजूनां सूक्ष्मगाः पादोपचिताः प्रभवन्ति हि ॥
सांशास्सर्वेषु सांशेषु सूक्ष्मदेहेषु कृत्स्नशः ।
सत्वाणवो दशाधिक्यं यान्त्येवोपचितौ सताम् ॥
रजस्तमाणवस्तूच्चेष्वल्पनीचेषु चाधिकाः ।
तद्रजोगुणवैषम्यमादायाद्यानुजः स्वयम् ॥
सर्वेषां सूक्ष्मदेहानां अन्ते वसति नाशकृत् ।
सत्वंरजस्तमः सृष्टं विष्णुब्रह्मशिवात्मकम् ॥
श्रीभूदुर्गापतिर्विश्वतैजसप्राज्ञनामकाः ।
शुक्लरक्तात्मिकानीला आदायानन्तरूपकः ॥
तत्तत्सूक्ष्मशरीरस्थस्थानत्रयगतो हरिः ।
तदा ह्यवस्था त्रितयं तद्विशेषादिमे सुखम् ॥
एकोनविंशतिमुखौ विश्वतैजसनामकौ ।
सव्यापसव्यगान्येवं पुरुषास्यानिमध्यगम् ॥
गजाभं तु तयोरस्याः मुखानां कृत्यमप्युत ।
दक्षिणाक्षिस्थितो विश्वः सत्वस्थः सत्वभागतः ॥
उत्तमानां मध्यमानां नीचानां तत्वमानिनाम् ।
त्रिभिर्मुखैः सत्वगतैः अवस्थां जाग्रदाह्वयाम् ॥
करोत्ययं मध्यगाख्य त्रितयेन स एव हि ।
उच्चमध्यावरामर्त्यदासानां जाग्रदाह्वयाम् ॥
करोत्यवस्थामन्तस्थैः त्रिभिरास्यैः स एव हि ।
निरंशानां च जीवानां जाग्रतां सम्प्रवर्तकः ॥
पुंसामेवं वामगास्यैः स्त्रीणामेवं करिष्यति ।
अनन्तानन्तजन्मोरु मर्त्यदेहैः कृतानि तु ॥
जाग्रद्धशायां मनसा वाचका येन चेन्द्रियैः ।
कृतानि सात्विकादीनि कर्माण्युच्यावचानि च ॥
यानि यान्यपि सर्वाणि संचिंतान्यपि तेष्वलम् ।
नष्टेषु तददृष्टानि लिङ्गानि निवसन्त्यलम् ॥
तेषु भोगाय दत्तानि भुक्त्वा नाशं प्रयान्ति हि ।
भोगाय च प्रदत्तानि अर्धभुक्तानि सर्वशः ॥
प्रारब्धानि च तेष्वेव कानिचिद्भोगतः क्षयम् ।
यान्ति प्रारब्धशिष्टानि अपरोक्षे सतिस्फुटम् ॥
न नयान्ति च सर्वाणि भोगयोग्यान्य संशयः ।
तत्र दुष्प्रारब्धजातं बह्वल्पं करोत्यजः ॥
भगवद्भक्ति योगेन हरेरिच्छा हि तादृशी ।
हरिणा जीवभोगाय न दत्तानि ह्यनन्तशः ॥
राशीकृतानि लिङ्गस्थकर्मादृष्टानि कोटिशः ।
स़ञ्चितान्यपि तानीह अपरोक्षे सति स्फुटम् ॥
दग्धान्यपि विनष्टानि भवन्त्येव न संशयः ।
मर्त्यो जीवन्भारतेस्मिन् नित्यं कोटिसहस्रशः ॥
करोति विवशो बद्धः प्रकृत्यातान्यनन्तशः ।
अनन्त जन्मनानन्ताऽनन्तायुः परिमाणतः ॥
कृतान्यभुङ्क्तस्वकृतकर्मणां भोगतो लयः ।
सञ्चितानामनन्तोरु ब्रह्मकालैरपि क्वचित् ॥
क्वापि नो घटते भोक्तुं किन्तु श्रीविष्णुदर्शने ।
नैषां फलं हि जीवानां भवेदित्याज्ञया हरेः ॥
लिखितान्यपि पत्रेषु चित्रगुप्तैः पुनः पुनः ।
रमाब्रह्मादयो देवाः सर्वकर्माभिमानिनः ॥
यच्छन्ति न फलं पुण्यं पापं वा तस्य कर्हिचित् ।
च्छित्वा लिखितपत्राणि यमदूतैर्हरिः प्रियैः ॥
.बोधयन्त्यपि हे जीव न ते सञ्चिततो भयम् ।
इति कारणतो नाशं सञ्चितस्य वदन्ति हि ॥
घटादिनाशवन्नाशः कर्मणां नैव शस्यते ।
सुप्रारब्धस्य सर्वस्य भोगादेव परिक्षयः ॥
अपरोक्षानन्तरन्तु कृतं कर्म शुभाशुभम् ।
आगामीत्युदितः सद्भिर्नतलोपो भविष्यति ॥
न लिखन्ति पटे चित्रगुप्तास्तानि सुरोत्तमाः ।
यच्छन्ति न फलं तेषामतो न श्लिष्यते जनः ॥
आगामिकर्मभिस्तच्चानिष्टं काम्यं हि राज(क्ष)साः ।
गृह्णन्तीष्टं काम्यपुण्यं तदिष्टाः प्राप्नुवन्ति हि ॥
आगामि विष्णुद्वेषादि कलिर्गृह्णाति नेतरः ।
आगामि भक्तितो मुक्तो प्राप्तव्यानन्दमश्नुते ॥
वेदोक्तमप्यवेदोक्तं ज्ञानाज्ञानादिभिः कृतम् ।
बाल्ययौवनवार्धिकैः कृतं वाक्कायमानसैः ॥
भीत्या प्रीत्या आवेशतो वा कृतं कर्म शुभाशुभम् ।
ज्ञायन्नेव करोत्येषः भुङ्क्ते जागृद्धि तत्फलम् ॥
समस्त भूतळे वापि विवरेष्वन्तरिक्षके ।
स्वर्गादि सर्वलोकेषु ब्रह्माण्डाद्बहिरन्तरे ॥
निरये वा तमसि वा वैकुण्ठादिषु वा जनः ।
जाग्रद्भुङ्क्ते कर्मफलं विश्वाधीनः सदैव हि ॥
आनन्तासनवैकुण्ठश्वेतद्वीपेषु संस्थिताः ।
महरादिषु सत्यान्तलोकेष्वण्डाद्बहिस्तथा ॥
तात्विकाः स्वाधिकारेषु नियता नेतरे जनाः ।
स्वप्रारब्धफलं यान्ति ते सर्वे ह्यपरोक्षिणः ॥
अतात्विका निरंशानां योग्यानां क्वापि कर्हिचित् ।
नाधिकारस्त्वयोग्यानां किं वाच्यं दुःखभोगिनाम् ॥
ईयुः त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् ।
तत्र मख्या हरिं यान्ति तदन्ये वायुमेव तु ॥
अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा ।
स्थानमात्राश्रितास्ते तु पुनर्जनि विवर्जिताः ॥
ज्ञानगम्येषु लोकेषु अण्डान्तर्महरादिषु ।
अतात्विकनिरंशानां मुक्तान्तानां क्रमोन्नताम् ॥
वासः प्रारब्धपुण्येन निष्कामो न भविष्यति ।
आतात्विकनिरंशानां सर्गमर्त्याधमेष्वपि ॥
स तात्विकानां प्ररब्धात् पुण्यात्पापाच्च संचितात् ।
भोगदत्तात् पुण्यपापात् सुखदुःखादि शस्यते ॥
तिर्यग्योनिषु गर्भेषु वासेभ्येषां प्रकल्प्यते ।
निरंशनीचसांशानां नरके वास इष्यते ॥
प्रारब्धतः सञ्चिताद्वा न योग्यानां तमोगतिः ।
अयोग्यानां द्वेषपाकात् तमः प्राप्तिर्भविष्यति ॥
देवगन्धर्वपर्यन्ताः देवशब्दोदिताः क्रमात् ।
देवानां निरयो नैव तमश्चापि कथञ्चन ॥
ना सुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् ।
भारताद्यष्टवर्षेषु सप्तद्वीपेषु चाद्रिषु ॥
सर्वेषां पापपुण्यैश्च मुख्यप्रारब्धसञ्चयैः ।
तमो मिथ्याज्ञानयोगात् ज्ञानेनैव हरेः पदम् ॥
तेषां प्रागुक्त कर्मोत्थ फलं वै जाग्रता भवेत् ।
जाग्रत्प्रवर्तको विश्वः सोऽज दक्षाक्षिगो भवेत् ॥
लिङ्गोत्थ सत्वमादाय तत्सूक्ष्मस्थ तथा चरन् ।
न धातुः सञ्चितं काम्यं न दृष्टं पातकादिकम् ॥
न दैन्यावेशदुःखादि न संशयविपर्ययौ ।
न दुरिच्छानान्यरतिः न भोगेच्छा कुसङ्गतिः ॥
न देहाभिमतिर्नाऽसत्पथे देहेन्द्रियोद्गतिः ।
निष्काम्यकर्मसज्ञानसद्भक्तिषु सदारतिः ॥
ब्रह्मणो हि परस्यास्य प्रसादात् सर्वदासुखम् ।
स्वप्ननिद्राव्याधिपूर्वं तच्च दुःखफलं त्यजेत् ॥
सोन्तरङ्गो हरेः साक्षात् सर्वोत्कृष्ट प्रियो मतः ।
पक्वशेषादिभिर्दृश्यमापरोक्षेण केशवम् ॥
अनादिकालमारभ्य अजजीवगणाः सदा ।
पश्यन्त्यात्मोचितहरेरपरोक्षाय जन्मभिः ॥
यतन्तेशतकल्पान्त्यैः दृष्ट्वेशं शतकल्पकैः ।
कृतयानन्तवेदोक्त गुणोपासनया पदम् ॥
प्राप्नोति तस्य सूक्ष्मापिर्वासुदेवात्तदाभवत् ।
तद्धेहलिङ्गजं शुद्धं रज आदाय तेजसः ॥
तत्सूक्ष्मकण्ठे वसति स्वप्नकृद्भगवान् हरिः ।
एकादशेन्द्रियैः कर्मकर्तव्यमिति वासना ॥
मनस्युत्पद्यते तच्च न करोति प्रयत्नतः ।
निद्राज्ञानोन्मादभयरोगायासा विदुन्मतैः ॥
अनुकूला भावताव जन्मजन्मान्तरेष्वपि ।
अकृतानां कर्मणान्तु स्वप्नः स्येशफलप्रदः ॥
स्वप्नदृष्टा अनन्तार्थास्तत्काल सुखदुःखदाः ।
न जाग्रदृष्टिपथगाः किन्तु तत्काल कल्पिताः ॥
स्वप्ने स्वस्थस्य जीवस्य वासनानन्त्यमीश्वरः ।
उपादानीकृत्यमुख्यैः पूर्वोक्तैरेव तैजसः ॥
कल्पयित्वा बहूनर्थान् दर्शयत्यखिलेश्वरः ।
स्वप्नः सत्यस्ततो यस्मात् भावीनफलसूचकः ॥
शेषादिसर्वजीवानां योग्यकाले तथा चरन् ।
तैजसः स्वप्नकृच्चेति जनस्य स्वप्नकृद्भवेत् ॥
तत्तमोगुणमादाय प्राज्ञस्तसूक्ष्महृद्गतः ।
जीवस्य लिङ्गबद्धस्य पादस्थस्य जगद्गुरोः ॥
ध्यानावस्थां ददात्येवमेकास्यो देह्वयोनितः ।
लिङ्गबद्धं ग्रसन्नर्धं मूर्छावस्थां प्रयच्छति ॥
लिङ्गबद्धं मुखेस्थाप्य प्राज्ञोत्यल्पोन्यरूपतः ।
यदाश्लिष्यति तं देवः तदा निद्रां प्रयच्छति ॥
प्राज्ञो जीवेश्वरस्तं वै विना जीवोक्षमः स्मृतः ।
प्राज्ञः कण्ठस्थितं प्राप्य जीवानां स्वप्नदो भवेत् ॥
जीवं गृहीत्वा दक्षाक्षिगतोसौ जगदीश्वरः ।
न प्राज्ञतेजसौ धातुः स्वप्ननिद्रा प्रवर्तकौ ॥
ध्यानावस्थां विना तस्य तत्तद्दुष्कर्म वर्जनात् ।
प्राज्ञं जीवेश्वरं प्राहुः स सर्वहृदिसङ्गतः ॥
सांशजीवं स वै प्राज्ञो रूपैण्यैकेन पादयोः ।
हृदिसंस्थाप्य सूक्ष्मान्यरूपेणादाय चेतनम् ॥
सलिङ्गं स यदा विश्वे नैकीभूतो भविष्यति ।
सोणुः प्राज्ञोहृदिस्थेन एकीभूतो भवेद्यदि ॥
ध्यानावस्थां सञ्जनयत्यपि जीवपतिप्रभुः ।
विश्वादयो निरंशानां अवस्था त्रितयप्रदाः ॥
विना ऋजून् सर्वसुरान् भुविजातान् जगद्गुरुः ।
अवस्थात्रयसंयुक्तान् कुर्वन्ति प्राज्ञपूर्वकाः ॥
ऊर्ध्वलोकस्थितानान्तु सदा जागृत्प्रवर्तकः ।
एवं सूक्ष्मशरीरेण ब्रह्माणमसृजद्विभुः ॥
एवं सङ्कर्षणो वायोः जयायां सूक्ष्मदेहकृत् ।
वासुदेवः सरस्वत्याः ब्रह्माणमकरोत्पतिम् ॥
सङ्कर्षणस्तु भारत्याः मुख्यप्राणं व्यधात्पतिम् ।
सरस्वत्याश्च भारत्याः प्रद्युम्नः सूक्ष्मदेहकृत् ॥
तयोस्ताभ्यां सूक्ष्मतनू विपशेषौ बभूवतुः ।
सूत्रनामा तदावायुः ब्रह्मा पुरुषनामकः ॥
वेदादि सर्वनित्यानाम् अर्थानां जीवसन्ततेः ।
नित्यानामपि सृष्टौ हि तावुभावाभिमानिनौ ॥
ते भार्ये तौ विनाकश्चनार्थोपि स्थितिमर्हति ।
ब्रह्मा निरभिमानित्वात् शरीर्यप्यशरीरवान् ॥
अशरीरो वायुरभ्रं विद्युदित्यादि नामभिः ।
परशुक्लत्रयं वाच्यं योगात्ते सर्वमानिनः ॥
अथानिरुद्धः कालेन ब्रह्मवाय्वोः सभार्ययोः ।
त्रिचतुस्त्वेकविंशत्यवारं सूक्ष्मशरीरकृत् ॥
त्रिवारमेकविंशत्सवारं सूक्ष्म तनुं प्रदात् ।
अनिरुद्धो विपादीनां नीलादीनां तथैव च ॥
सौपर्ण्यादि त्रयाणाञ्च कालदेशक्रमेण च ।
इन्द्रादि पुष्करान्तानां तात्विकानाम् अशेषतः ॥
एकविंशतिवारन्तु अनिरुद्धस्तु सूक्ष्मकृत् ।
यदा यस्य च सूक्ष्माप्तिस्तत्पूर्वक्षण एव च ॥
तत्तज्जीवगणस्यासु लिङ्गवैषम्यमित्यपि ।
पञ्चसप्तभिर्मासैर्बाह्यमानेन सर्वशः ॥
तात्विकानां तु देवानां सूक्ष्मसृष्टिरभूद्धरेः ।
ततो स सत्वतमसः वैषम्यावस्थयायुताम् ॥
जडाख्यां प्रकृतिं सम्यक् चेष्टयामास विश्वसृट् ।
ततो बिन्दुत्रयं जातं सत्वं चेति रजस्तमः ॥
ऊर्ध्वदेशे सत्वबिन्दुः रजोबिन्दुस्ततोप्यधः ।
तदधोभूत्तमो बिन्दुः स्थूलश्चाद्यास्त्रिबिन्दवः ॥
श्रीभूदुर्गेति रूपा मा क्रमात्रिगुणमानिनी ।
विष्णुब्रह्माशिवश्चेति बिन्दुक्रमनियामकाः ॥
ब्रह्मवायू सभार्यौ द्वौ त्रिरूपावभिमानिनौ ।
सत्वादिबिन्दुषु श्रीश्च श्रिता नश्वरेषु वै ॥
रजस्तमो बिन्दुगतवैषम्ये जगदीश्वरः ।
ब्रह्मा सङ्कर्षणात्मा तु समुधृत्य ररक्षतुः ॥
ततो विष्णुः सत्वबिन्दुगतः संवर्धयत्यजः ।
सत्वावरणमाद्यं च चक्रे तत्र वृतोद्यमम् ॥
रजोविन्दुगतो ब्रह्मनामकस्तदधस्तने ।
देशे द्वितीयावरणं राजसस्यैव नामकम् ॥
तमोबिन्दुस्थितो रुद्रस्तामसावरणं व्यधात् ।
तद्धि द्वितीयावरणं रजसस्यैव गर्भगम् ॥
विष्णुब्रह्मशिवौ द्वौ द्वौ ब्रह्मवायू सभार्यकौ ।
श्रीभूदुर्गास्वाद्यमाद्य तृतीयावरणेषु हि ॥
तत्तदात्मस्थूलदेहत्रिगुणेष्वभिमानिनौ ।
आद्यं शुक्लं द्वितीयं तु रक्तं नीलं तृतीयकम् ॥
रजोगुणस्यवैषम्या त्रिगुणावरणान्तरे ।
महदावरणं चक्रे ब्रह्मनामा स भूपतिः ॥
चतुर्थावरणं तत्र विष्णुब्रह्मशिवात्मकः ।
जाताभ्यां ब्रह्मवायुभ्यां जतौ द्वौ द्वौ त्रिरूपकौ ॥
सभार्यौ ब्रह्मवायू च महत्तत्वाभिमानिनौ ।
महत्तत्वनियन्तेशः आनन्दाख्यो हरिः स्वयम् ॥
आनन्दनाम्नस्तनयौ ब्रह्मवायू महद्गतौ ।
रजोगुणस्य वैषम्यात् सर्वांशेन मतः कळाः ॥
राजसांशेनेन्द्रियाणां दशानां च कळास्तथा ।
तामसांशेन तन्मात्राः कळाः पञ्चमहद्गताः ॥
अभवन्ताः कळा नित्यं षोडशापि सदातनः ।
महत्तत्वाद्विकुर्वाणाद्ब्रह्मणः स्थूलदेहतः ॥
आनन्दवशगाज्जातस्त्वहङ्कारस्त्रिवृन्मतः ।
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ॥
उद्यद्रविप्रभावत्वान् महताहं त्रिवर्णकः ।
वैकारिकस्तु सत्वांशजातः शुक्ल उदहृतः ॥
तैजसो राजसांशोत्थः रक्तवर्णः प्रकीर्तितः ।
मनो हृषीकाणि मात्राः पूर्वं सूक्ष्मस्वरूपतः ॥
महत्तत्वगताह्येता अहंकाराश्रिताः क्रमात् ।
गायत्रीशो विधिः सत्वे विरिञ्चस्तु रजोगुणे ॥
सावित्रीशो भवत्यद्धा तमसि ब्रह्मनामकः ।
सरस्वतीशो वसति तादृग्रूपत्रयोत्थितौ ॥
त्रिरूपौ वै ब्रह्मवायू तन्नामानौ महद्गतौ ।
विद्यादिभिस्त्रिभिस्तासु गायत्र्यादिषु तिसृषु ॥
क्रमाद्ब्रह्मा च वायुश्च शेषश्चासन् हरीच्छया ।
विपशेषौ सभार्या च महद्राजे रजोत्रिधा ॥
हर्याज्ञयैवत्रिविधाहंरेष्वभिमानिनः ।
विद्याद्युत्थैर्ब्रह्मपूर्वैस्त्रिभिः रुद्रस्त्रिरूपकः ॥
सभार्यस्त्रिविधाहंकृन्मानीतुस्थूलदेहकः ।
महत्तत्वस्य गर्भस्थमहदावरणं मतम् ॥
लक्ष्मीनारायणो ब्रह्मवायू भार्यासमन्वितौ ।
उक्तेषु वक्ष्यमाणेषु सर्वतत्वेषु सर्वदा ॥
वसन्ति तान्विना शेषवीशाद्या नक्षमा क्वचित् ।
वैकारिकाद्धि कुर्वाणान् मनस्तत्वं जगद्गुरुः ॥
सृष्ट्वाहङ्कारगर्भस्थं चकार पुरुषर्षभः ।
तैजसात्तु विकुर्वाणात् हरिणा चेन्द्रियाणि च ॥
ज्ञानशक्तीनि पञ्चापि कर्मशक्तीनि पञ्च च ।
सृष्टा भावीनि काले तु सृज्यं वै भूतपञ्चकम् ॥
यत्र यत्र स्थाप्यमीशस्तत्रतानि क्रमाद्व्यधात् ।
आकाशं तु विकुर्वाणात् स्पर्शमात्रमभूद्धरेः ॥
ततो वायुं समुत्पाद्य वाय्वावरणमातनोत् ।
वायोश्चैव विकुर्वाणाद्रूपमात्रं ह्यभूत्ततः ॥
ततो वह्निं समुत्पाद्य वह्न्यावरणमातनोत् ।
वह्नेरपि विकुर्वाणाज्जलमात्रं व्यधाद्धरिः ॥
ततः सलिलमुत्पाद्य जलावरणमाचरत् ।
जलावृत्ते विकुर्वाणात्तु गन्धमात्राभवद्विभोः ॥
ततः पृथ्वीं सनिर्माय चक्रे भूम्यावृतिं हरिः ॥
॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे अष्टमोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:56.5370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

eighteen mo

  • = octodecimo 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.