TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमपरिच्छेदः - षष्ठोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


षष्ठोऽध्यायः
॥ श्रीहंस उवाच ॥
निश्शेषतो रात्रिमाने व्यतीतेत्वहराग(दि)मे ।
क्षणे तं विश्वसृक्स्रष्टुमिच्छां चक्रेऽखिलप्रभुः ॥
ततः स्वगर्भगान् जीवान् लिङ्गमुक्तान् विनेश्वरः ।
प्रकृत्यात्मकलिङ्गेन शरीरेणावृतास्त्रिधा ॥
विभिन्नानां स्तमसान् शुद्धराजसान् सात्विकान् प्रभुः ।
स्वोदरस्थान् समुधृत्यसृज्यान् पुरुषनामकः ॥
प्रादात् सवासुदेवाख्यो सर्वान् जीवान् जगत्प्रभुः ।
नैव सृष्टिस्तु मुक्तानां बद्धानां न हि सर्वशः ॥
सृष्टिरुक्तायुक्तः संख्या नियमात् सृष्टिरुच्यते ।
सृष्टिः संख्या नियमतः तात्विकाऽतात्विकेषु च ॥
निरंशेषु न संख्यास्ति बहुत्वात्वाद्बहुधैव सा ।
ब्रह्मत्वयोग्या ऋजवो नामतोऽनन्तशो गणाः ॥
तेषु पूर्वानन्तकल्पैः मुक्ताः सन्ति ह्यनन्तशः ।
लिङ्गबद्धा अप्यनन्तानन्तशः सन्ति गर्भगाः ॥
हरेस्तेषां सर्वशोपि तेषु सृज्यास्तु केचन ।
ऋज्वादि तात्विकास्सर्वे अनादितो ह्यपरोक्षिणः ॥
सामान्यतो विशेषेण स्वस्वयोग्यापरोक्षिणः ।
क्लृप्तकालोचितमहासाधनेन भवन्ति हि ॥
यतन्ति ह्यपरोक्षार्थम् ऋजवो शतसम्मिताः ।
पूर्वापरोक्षिणस्ते च शतसंख्यामिताः सदा ॥
अनन्तवेदोक्तगुणोपासनायां हरेः सदा ।
यतन्ति तेपि क्रमशो ह्युपासीतगुणोच्चयाः ॥
भवन्ति वेधाः सम्पूर्णसद्गुणोपास्तिमानिह ।
काले मुक्तो भवत्येव मुच्यते नैकदैव हि ॥
एवञ्च ब्रह्ममानेन कल्पद्विशतकेन च ।
पूर्णशक्तिः पूर्णगुणोपास्तिः मुक्ता भवत्यलम् ॥
मुक्तेः पूर्वक्षणे भोग्यसुप्रारब्धक्षयेपि च ।
एवमेवोत्तरत्रापि संख्या नियमतः सुराः ॥
मुच्यन्ते तात्विका वक्ष्यमाणैः कल्पैरजस्य तु ।
द्विपञ्चाशत्कल्पमिताः शेषाद्यास्तु सभार्यकाः ॥
विंशत्कल्पमितास्त्विन्द्रजीवाः द्विनवकल्पकाः ।
अहंप्राणपदार्हश्च गुर्वाद्याद्व्यष्टकल्पकाः ॥
प्रवाहस्तु द्विषट्कल्पैः सूर्याद्याः दशकल्पकाः ।
मित्रादीनां च नवभिस्तूक्त शेषगणस्य तु ॥
अष्टभिः सप्तभिः कल्पैः सनकादि गणस्य तु ।
षड्भिः पर्जन्यमारभ्य पुष्करान्तगणस्य वै ॥
अपरोक्षतः कर्मदेवाः पञ्चकल्पापरोक्षिणः ।
चतुर्भिराजानजानान्तु सार्धकल्पत्रयेण तु ॥
कृष्णाङ्गसङ्गगोपीनां त्रिभिः पितृगणस्य तु ।
गन्धर्वाणान्तु कल्पाभ्यां मर्त्यानां तु तथैकतः ॥
अर्धकल्पं तृणान्तानां योग्यानां हरिदर्शने ।
नियमोऽयंसर्वकल्पेष्वेवमेव न चान्यथा ॥
क्ल्पसंख्या ब्रह्ममानाद्विज्ञेया योग्यचेतनैः ।
असुराणां तमःप्राप्तिः ब्रह्मणो दिनकल्पतः ॥
भवत्येव जगद्धातुराज्ञयेत्थं सदैव तु ।
इन्द्रादिपुष्करान्तानां गुणोपासनयोचितैः ॥
प्रोक्तैः कल्पैर्विमुच्यन्ते तावत्कल्पैस्तु साधनम् ।
तत्पूर्वमपरोक्षस्य कर्तव्यमिति निश्चयः ॥
अण्डान्तराळे पद्मोत्थब्रह्मा यावद्धि तिष्ठति ।
तावत्संवत्सरगतप्रतिप्रतिदिनेष्वपि ॥
सांशा अतात्विकाः सर्वे संख्यया वक्ष्यमाणया ।
मितास्तु प्रतिकल्पेऽपि पदस्था ह्यपरोक्षिणः ॥
उर्वश्याद्याऽप्सरसः शतान्तां श्चाष्टसंख्यया ।
मिता आजानजैस्तुल्याः कर्मदेवैः समाः पराः ॥
शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ।
अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योऽवराः क्रमात् ॥
गन्धर्वास्तु शतं तेषु अष्टौ तुल्यास्तु कर्मजैः ।
शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ॥
ऋषीणां च शतं कर्मदेवैस्तल्यमुदीरितम् ।
हर्यावेशाश्च तन्मध्ये विंशदीषद्गुणोत्तमाः ॥
तेष्वेव तात्विकाश्चाष्टौ शतकं कर्मजैः समम् ।
तदन्येऽजानजेभ्यस्तु तुल्या अग्निसुता अपि ॥
द्व्यष्टौसहस्राणिशतंत्रिंशच्चारणरक्षसाम् ।
साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ॥
आजानजास्तेस्वन्यूनं पितृगन्धर्वसंयुताः ।
प्रतीकालम्बनाः सांशाः निरंशास्तु ततोऽवराः ॥
प्रतीकालम्बनस्तेषु श्रेष्ठाः मानुषगायकाः ।
ततो न्यूनास्तु राजानो मर्त्योच्चास्तु ततोऽधमाः ॥
मर्त्यगन्धर्वराश्यादि सर्वजीवगणेष्वपि ।
ये मुक्तियोग्यास्ते सर्वे प्रतीकस्थावलम्बिनः ॥
निरंशा अपरोक्षात्प्राक् ऊर्ध्वमप्यण्ड एव हि ।
सृज्यानूर्ध्वं यथा सांशाः अपरोक्षविवर्जिताः ॥
अपरोक्षिणान्तु सांशानां तात्विकैर्भिन्नचेतसाम् ।
अतात्विकानां कर्मादि सुरगन्धर्वमानुषाम् ॥
एतावदन्तजीवानां सूक्ष्माप्तिरनिरुद्धतः ।
अजोत्पत्तेः पुराजाण्डे स्थूलाप्तिरिति निश्चयः ॥
तात्विकानां बहिश्चाण्डात् सूक्ष्मस्थूलाप्तिरिष्यते ।
असंसृष्टशरीरास्तेऽण्डोत्पत्तेः पुरास्सुराः ॥
अण्डान्तराळे सर्वेऽपि संसृष्टाः स्थूलदेहकाः ।
लये सर्वे लिङ्गबद्धाः शून्यकुक्षा वसन्ति हि ॥
तेषु मुक्तेतरे संख्या नियमात्सृष्टिसम्मताः ।
ये च तान्निखिलान्वासुदेवः स्रष्टुमुपाक्रमत् ॥
जडाख्या प्रकृतिः सर्वजीवानां लिङ्गरूपिणी ।
प्रकृतेर्गर्भगा जीवाः लिङ्गदेहयुता मताः ॥
अनादिकालमारभ्य जीवाः संसृतिबन्धगाः ।
तत्र पूर्वानन्तकल्पे जीवाः सत्साधनेन च ॥
.मिश्रेण विपरीतेन ज्ञानेनात्यक्तबन्धनाः ।
जीवाश्च त्रिविधा आसन् शतकोटिसहस्रशः ॥
सृज्येषु लिङ्गबद्धेषु पूर्वसृज्यश्चतुर्मुखः ।
न चैककाले सर्वेषां सृष्टिः सा कालभेदतः ॥
भवत्यतः पूर्वजाताः उत्तमाऽन्ये ततोऽवराः ।
लयाख्य परकालान्ते व्यतीते सृष्टिसम्मते ॥
परकालाऽदिमेऽजस्य सृष्टिरन्यस्य कालतः ।
ब्रह्मणः सृष्टितः पश्चाद्वायोः सृष्टिः शताब्दतः ॥
ततः शताब्दतो वाण्याः भारत्यास्तच्छताब्दतः ।
ततः सहस्राब्दतश्च सृष्टिस्तु विपशेषयोः ॥
नीलादीनां सहस्रश्च वत्सरैस्तावता पुनः ।
वारुण्यादेर्दशसाहस्राब्दतस्तु ततः परम् ॥
सृष्टिरिन्द्रस्य कामस्याप्ययुताब्दास्तथापरे ।
सृष्टास्युर्हरिणा ये च नीचास्तेऽनुत्तमोत्तमैः ॥
पुष्करान्तास्तात्विकाश्च तथैवाऽतात्विकाः परे ।
निरंशा नित्यबद्धाश्च तमोयोग्याश्च राक्षसाः ॥
अयुताब्दाद्धेवमानात् पूर्वपूर्वव्यवस्थया ।
सृष्टिर्भवति सा सूक्ष्मस्थूलभेदाद्विधा मता ॥
तात्विकानां पदस्थानां सर्वेषामपरोक्षिणाम् ।
अण्डात्पूर्वैव भवति तदन्येषां तदन्तरे ॥
अण्डाद्बहिरथाण्डान्तर्जायमानजनस्य तु ।
पूर्वोक्तकालनियमात्सृष्टिः ज्ञेया यथाक्रमम् ॥
लिङ्गबद्धस्य तु यदा सूक्ष्मदेहाप्तिरिष्यते ।
ततः पूर्वक्षणे लिङ्गे गुणवैषम्यमिष्यते ॥
लिङ्गदेहस्य मध्यस्थो रजोभागः प्रकीर्तितः ।
भूर्नामकेन्दिरा तत्र चेष्टका तस्य मानिनी ॥
सत्वभागस्पृष्टरजः पार्श्वगा राजसाणवः ।
दशप्रलयकाले तु भूम्या सत्वस्य पार्श्वगाः ॥
भवन्ति लयकालान्ते तत्र तिष्ठन्ति सर्वशः ।
राजसाणुः सात्विकांशगतस्त्वेकैकशः पृथक् ॥
दशैव तादृशा एते मिलिता द्वादशाणवः ।
सात्विकेषु शतमितान् रक्तवर्णान् करोत्यलम् ॥
स्वभावतस्सत्वभागाः शुक्लास्ते सत्वसंस्थिताः ।
रक्तासहस्रसंख्याकाः दशभीराजसाणुभिः ॥
भवन्ति च रजः स्पृष्टाः सत्वपार्श्वगता लये ।
एवमेको राजसाणुः राजसांशापसव्यगम् ॥
तामसांश भुवानीतः स्वशतांशन्तु तामसम् ।
अत्यल्पं नीलवर्णं ते रक्तोरक्ती करोत्यलम् ॥
एकः शुद्धो राजसांशः परिच्छेदे तु राजसे ।
मध्ये तिष्ठन्त्यपि लये राजसाणु समा इमे ॥
तमः परिच्छेदगताः तामसाणुस्तु यादृशाः ।
लये सत्वपरिच्छेदपार्श्वगा राजसाणवः ॥
तामसास्तादृशा एते मिलिता द्वादशाणवः ।
राजसा तामसात्यल्प परमाणु प्रमाणतः ॥
अधिकं गुणितास्तत्र शतद्वादशसम्मिताः ।
दशराजससंयुक्त सहस्रसात्विकाणवः ॥
लक्षाभवन्ति कार्योपयुक्ता एते भवन्ति हि ।
तामसात्तु परिच्छेदाद्विगुणो राजसस्मृतः ॥
राजसात्तु परिच्छेदा द्विगुणस्सात्विकः स्मृतः ।
एकैकस्मन्परिच्छेदेप्यनन्ताः परमाणवः ॥
सन्ति तत्र नियन्ताजो विष्णुब्रह्मशिवात्मकः ।
नारायणोनन्तगुणः श्री स्त्रीरूपाभिमानिनी ॥
जडायां प्रकृतौ चापि लिङ्गदेहे तथैव च ।
सन्त्यानन्ताणवस्तेषु पूर्वोक्ताः कार्यसाधकाः ॥
सत्वङ्गता राजसांशाः लये राजससात्विकान् ।
वदन्ति तामसगतं रजोराजसतामसम् ॥
रजः परिच्छेदगतं सन्तो राजसतामसम् ।
वदन्त्येव लये योगो भवति श्रीहरीच्छया ॥
साम्यावस्थां बुधाः प्राहुः एतां प्रकृतिलिङ्गयोः ॥

॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे षष्ठोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:56.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

झांपी

  • स्त्री. झांपड . - शर . 
RANDOM WORD

Did you know?

मनुष्याच्या जीवनात स्नानाचे महत्त्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.