TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमपरिच्छेदः - एकादशोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


एकादशोऽध्यायः
॥ श्रीहंस उवाच ॥
पुरुषेषु ब्रह्मवायू विपादिषु रमापतिः ।
पुं रूपेण विशेषावेशादिकं सर्वदा हरिः ॥
करोति स्त्रीषु मा वागीर्वायुस्त्रीस्वरूपतः ।
विशेषावेशकृद्विष्णुः योग्यतायानुयोगतः ॥
आविष्टस्तूत्तमेष्वेकः विशेषात्मा तु तैः सुरैः ।
जीवैरसाध्य सुमहत्कर्मकार यतीश्वरः ॥
.उत्तमोत्तमजीवेषु आवेशो यादृगिष्यते ।
न तथा नीचजीवेषु तस्मात्तेह्यल्पशक्तयः ॥
पदस्थेषु सुरेष्वेवमावेशो नैव मुक्तिगः ।
न निरंशेषु चावेशाः सांशेष्वाजानजेष्वपि ॥
वायोः सर्वावतारेषु विशेषावेश एव हि ।
स्वरूपलिङ्गसूक्ष्मेषु स्थूलदेहेषु सर्वदा ॥
रक्षार्थं सर्वतत्वेषु सर्वदा वसतीश्वरः ।
आवेशो न तथा विष्णोर्विशेषाख्यः सुरेष्वपि ॥
क्वचिद्व्यक्तिं क्वचिद्रासं सप्तावेशोँडजेष्वपि ।
अण्डादूर्ध्वं सदादेवेष्वन्तः ऋजुषु चेष्यते ॥
नीचेषूत्तमदेवानाम् आवेशः क्वचिदिष्यते ।
बलार्थमसुरेष्वेव आवेशं कुर्वति प्रभुः ॥
आदादाज्ञा तेन दृप्ता सुरैर्नष्टा हरीच्छया ।
भवन्ति नित्यदा विष्णुः सुरेष्वन्तर्हितो हि सः ॥
ज्ञानानन्दबलाद्याये गुणाः साधारणा मताः ।
तृणादि ब्रह्मपर्यन्तेष्वपि माया हरावपि ॥
तथापि नीचनीचेषु गुणादीपौपमाश्रिताः ।
साधरणाः सजातीयाः विजातीया विलक्षणाः ॥
स्वन्तन्त्रत्वं स्वरमणत्वं सुगुणव्याप्तिता तथा ।
परापेक्षादि शून्यत्वं नियन्तृत्वं जगद्गुरौ ॥
सृष्ट्यादि कर्तृताद्यास्तु विजातीया हरौ मताः ।
अक्षत्वादयो मायां नैव ते ब्रह्मणि स्फुटम् ॥
ऋजुत्वं प्राकृतोच्चत्वं नित्यार्थेष्वभिमानिता ।
सर्वाधिपत्यता लिङ्गदेहे कार्यवशीत्वता ॥
निष्काम्ययोग्यतापूर्वाः विजातीया इतिस्मृताः ।
एते हरीरयोः प्रोक्ताः नैव ते विपशेषयोः ॥
एवमेषूत्तमेषूक्ताः विजातीया न नीचगाः ।
सत्यनन्तत्वतस्त्वेषामुक्तिर्नैव हि शक्यते ॥
कर्मदेवान् समारभ्य ब्रह्मा तेषु शरीरिषु ।
चक्रशङ्खादयोरेखाः शरशक्त्यङ्कुशादयः ॥
प्रासतोमरतिर्यंकहलभाग्योमृतादयः ।
गोविन्द्यातिलगोधूमछत्रचामरतोरणाः ॥
ध्वजोर्ध्वव्यजनाकारा आन्दोलागतवानिनः ।
मच्छकच्छपसिंहाद्याः वृषरत्नधरादयः ॥
गरुत्मच्छेषमुखरा रेखा दक्षके पदे ।
पुंसान्तु दक्षिणेपादे स्त्रीणां वामे वसन्ति हि ॥
धेनुशङ्खगदारेखाः वामे पुंसां शुभा मताः ।
नीचेष्वङ्गन्यूनरूपाः उत्तमेषूच्चरूपकाः ॥
सम्पूर्णाः सर्वदारेखाः प्राणे मायां हरावपि ।
तत्राप्युच्चक्रमोच्चास्ति रेखाः चोच्चत्वहेतवः ॥
षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
सप्तपाद चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ॥
शरीराङ्गेषु साधूनां पञ्चस्थानेषु दीर्घताम् ।
हृस्वत्वं पञ्चसु तथा सप्तस्थानेषु रक्तिमा ॥
षडौन्नत्यं यस्य सम्यक् पृथुता त्रिषु यस्य तु ।
गम्भीरता च लघुता त्रिषु स्थानेषु भाति वै ॥
स सुलक्षणसम्पन्नः स तु ज्ञानप्रदो गुरूः ।
मर्त्योत्तमेषु वै विंशल्लक्षणानि भवन्ति हि ॥
क्रमेणैकैकशो वृद्धान्यपि सलक्षणानि च ।
सर्वाणि परिपूर्णानि लक्षणानि विधीरयोः ॥
शरीरे च स्वरूपे च सर्वसत्साधनेष्वलम् ।
अतिव्यक्तानि वोच्चेषु अव्यक्तानीतरेषु च ॥
अथ सृष्टौ तारतम्यं शृणुष्व प्रागथोत्तरे ।
आत्मसूक्ष्मगुणस्थूलसृष्टयः प्रागुदीरिताः ॥
पञ्चमात्राव्यक्तभूता वृत्तिपञ्चकतः क्रमात् ।
प्रागुक्त भावरूपाज्ञानपञ्चकमभूत्ततः ॥
भ्रान्तिर्भौतिकदेहानां व्यक्तायोनिष्वपि क्वचित् ।
अण्डादूर्ध्वमियं सृष्टि रसं सृष्टेति कीर्त्यते ॥
महदाद्यण्डपर्यन्तः सर्ग इत्यभिधीयते ।
संसृष्टमण्डं तद्गञ्च समस्तं सम्प्रकीर्तितम् ॥
अनुसर्गं जनाः प्राहुः अण्डान्तर्यदजोत्थितम् ।
महदाद्याः सुराः सर्वेप्यण्डसृष्टावशक्तयः ॥
अस्तुवन्पुरुषं सार्धं सप्तत्रिंशच्छरन्मयम् ।
कालं ततो हरिः सर्वतत्वजातं तदन्तकैः ॥
भाग्यैरादाय संयोज्यैरेकीभूतं करोत्यजः ।
तच्च त्रेधा विभज्येशः तेष्वाद्यं भागमीश्वरः ॥
गृहीत्वा विष्णुनामेशस्तन्निगीर्य श्रियं स्वयम् ।
वीर्यं तदात्मकं तस्यामाधत्त पुरुषेश्वरः ॥
पृथिव्यावृत्तिमध्ये तु सुषुवेण्डं विधेस्तनुम् ।
पञ्चाशत्कोटिविस्तारमण्डंसृष्ट्वा जगद्गुरुः ॥
सर्वचिच्चैत्यसहितो वीराणामण्डमाविशत् ।
ब्रह्माण्डे जलसम्पूर्णे सर्वलोकाश्रयो भवेत् ॥
स विष्णुः पद्मनाभाख्यो भूदण्डसलिले शुभे ।
प्राकृतेः स्वस्वरूपेणात्यभिन्नो हीश्वरो हरिः ॥
सर्वाभरणसम्पन्नः सहस्राङ्घ्र्यक्षिबाहुकः ।
प्राक्(प्रत्यक्)शिरास्तूर्ध्वमुखः शिश्ये पीताम्बरः समः ॥
अण्डसृष्ट्यादिमेकाले तत्वजातात्त्रिधा कृतात् ।
अद्यादण्डमभूदन्यं पद्मनाभोग्रसद्विभुः ॥
तत्सृष्टं भूप्रदानं नाभौ स्थाप्य हिरण्मयम् ।
पद्मं व्यजनयत्तस्य कन्दात् भूमिरथोभवत् ॥
.सप्तद्वीपसमुद्रादि तमोघनजलान्विता ।
पञ्चाशत्कोटिविस्तीर्णाप्यण्डमध्यप्रदेशगा ॥
लक्षयोजनसंख्याकपृथुलातिधृढाश्रया ।
पञ्चविंशत्कोटिमितलक्षोनं गर्भवार्यधः ॥
योजनानां तदुपरि स्थापिताभूरभूद्धरेः ।
भूनामा भूमिगो विष्णुगर्भवार्येस्तदाह्वयः ॥
वक्ष्यमाणेषु चोक्तेषु जडचित्सु तदाह्वयः ।
आधारो रक्षकः सर्वनामा सर्वभृदीश्वरः ॥
मेरुस्तन्मध्यगो भूमेश्चतुरस्रो हिरण्मयः ।
योजनानां लक्षमितः उच्छ्रायाद्रत्नसानुकः ॥
अथ षोडशसाहस्रयोजनायाम ईरितः ।
तावता भूरिमानस्सहमेकस्सर्वसुरालयः ॥
ऊर्धं तद्विगुणायामः सहस्राशीतियोजनैः ।
चतुर्भिरधिकैर्भूमेरुच्छ्रितः सर्वतः शुभम् ॥
मेरोः पूर्वाद्यष्टदिक्षु लोकपाल सदांस्यलम् ।
सन्त्येवसर्वभद्राणि सार्धताद्विसहस्रकैः ॥
चतुरस्राणि तन्मध्ये तच्चतुर्गुणविस्तरम् ।
ब्रह्मणस्तु सदस्यानि रत्नहेममयानि च ॥
तेष्विन्द्रोग्निर्यमः क्रव्यात् वरुणानि लयक्षपः ।
शिवश्चेति सभार्यास्ते साङ्गाः सपरिवारकाः ॥
तन्मदध्ये मण्टपस्तस्य विधेराज्ञाकरास्तथा ।
तत्र वाणीश्वरोनन्त भुजगस्य सुशिरस्ककः ॥
लोकपालसदो मध्ये विन्ध्योदिक्षु चतुस्रुषु ।
समनाः सर्वतोभद्रा तारसार्धाष्टसहस्रकाः ॥
मन्दारपारिजाताद्याः दिव्यपुष्पफलश्चदाः ।
सरित्सरोवराण्यत्र कञ्जादिसुमवन्त्यपि ॥
नानानारीसेवितानि हंसादि द्विजवन्त्यपि ।
आजानजसमानैकजातीयपरिचारकैः ॥
सेवितोद्रिवरोभास्वद्दीप्य दिव्यद्रिगोचरः ।
दिव्याभरणवस्त्राद्यैः अलङ्कृतसुराद(ल)यः ॥
तस्य पूर्वाद्यष्टदिक्षु मन्दरो मेरुमन्दरः ।
सुपार्श्वः कुमुदश्चेति अवषटम्भनगाः क्रमात् ॥
ते सहस्रस्त्रिका यामाः सहस्रदशकोच्छ्रिताः ।
चूतजम्बूकदम्बाश्चन्यग्रोधस्तेषु भूरुहाः ॥
एकादशशतोच्चास्ते गजोपमफलान्विताः ।
सुवर्णरत्नसंकाशाः शतशाखा समावृताः ॥
तत्र नाना पक्षिगणाः सगन्धकुसुमछदाः ।
तेषां तूपरितः स्वर्णरत्नमन्दारभूमिषु ॥
नन्दनं चैत्ररथकं वैभ्राजकमितीरितम् ।
वनान्यवर्णनीयानि सर्वतोभद्रसंज्ञकम् ॥
तेषु वै कामिकाः सिद्धाः चरन्ति ललनान्विताः ।
तेषु सञ्चरतां सौख्यम् अधिकं न श्रमादयः ॥
एषां फलैर्निपतितैः विशीर्णैः शुभ्रसद्रसैः ।
निर्यद्रसमुद्भूताश्चतस्रश्च चतसृषु ॥
द्विलक्षवृत्त दीर्घस्थाः जरा दुर्गन्ध दुःसहाः ।
नीलः श्वेतः शृङ्गवांश्च मेरोरुत्तरतो नगाः ॥
योजनानां नवसहस्रायामाक्ष्मातळस्य च ।
मर्यादागिरयस्सर्वे प्रत्यक्सागरदीर्घकाः ॥
उश्च्रयाद्धशसाहस्राः पृथुला द्विसहस्रकाः ।
निषधो हेमकूटश्च हिमवानिति दक्षिणे ॥
पूर्वमानेनोक्तभुवः मर्यादा गिरयोमताः ।
विस्तारादुच्छ्रयाद्धैर्घ्यान्नीलादीनां समाः क्रमात् ॥
नानासिद्धगणैः सेव्याः सर्वरत्न समाकुलाः ।
पूर्वस्यां दिशि मेरोस्तु गन्धमादनपर्वतः ॥
प्रतीच्यां दिशि मेरोस्तु माल्यवान्नाम भूधरः ।
आनीलनिषधायामौ पर्वतौ देवपूजितौ ॥
तौ पूर्वसमितौ दिवौ सर्वसद्वृक्षशोभितौ ।
चतुर्दिक्ष्वपि मेरोस्तु नवसाहस्रयोजनैः ॥
विस्तृतं भूतळं चेलावृतवर्षं वदन्ति हि ।
रम्यको हिरण्मयश्चैव कुरुवर्षादयस्त्रयः ॥
वर्षानीलाद्यद्रिभिस्ते विभक्ता स्वर्णभूमयः ।
गन्धमादनतः पूर्वभूमौ भद्राश्चवर्षके ॥
माल्यवत्पश्चिमेकेतुमाल्यवर्षः प्रकीर्तितः ।
हरिकिंपुरुष भारतवर्षास्तु क्रमयोगतः ॥
दक्षिणे निषधाद्यद्रिविभक्तभूमयः क्रमात् ।
वैवस्वतो मनुर्मर्त्योपासको रम्यकेश्वरः ॥
अर्यमाः पितृपः कूर्मोपासकस्तु हिरण्मये ।
भूमिरादिवराहस्य भार्या वै कुरुवर्षगा ॥
हयास्योपासको भद्रश्रवाः भद्राश्च वर्षके ।
रत्याकामेनार्चितौ द्वौ कृतिप्रद्युम्नसंज्ञकौ ॥
केतुमाल्ये स्त्रीजनार्च्यो न जीवं भद्रके खलु ।
प्रह्लादोपासितो नारसिंह्मोपि हरिवर्षगः ॥
हनुमत्पूजितो रामः नाथः किंपुरुषस्य तु ।
भद्राश्वाद्दक्षिणे वर्षे भारताख्यो गुणाधिकः ॥
नराभिमानि शेषांश भारतस्यास्य चानुजः ।
नारायणो दक्षपुत्र्याः मूर्त्याधर्मसमुत्थितौ ॥
तौ नारदस्य च ऋषेः ज्ञानदौ लोकपूजितः ।
इळावृत्ते मेरुपूर्वदिशि सव्यापसव्यगौ ॥
जठरो देवकूटश्च मेरुपृष्ठे च पूर्वतः ।
गन्धमादन संस्पृष्टौ स्वर्णरत्नमयौ समौ ॥
विस्तारात्तूच्छ्रयाच्च योजना द्विसहस्रकौ ।
नवसाहस्रसद्भूमिमध्ये जठरनीलयोः ॥
भूर्देवकूटनिषधमध्यस्थात्तावती मता ।
षट्सहस्रान्तरभुवौ गन्धमादनमन्दरौ ॥
तिर्यक् तद्विगुणा भूमिः मेरुपूर्वस्थगोत्रयोः ।
कैलासकरवीरौ द्वावेवं मेरोस्तु दक्षिणे ॥
पवनः परियात्रश्च द्वौ मेरोः पश्चिमाश्रयौ ।
शृङ्गश्च मकरश्चैव मेरोरुत्तरतस्तथा ॥
निषधान्तौ दक्षिणवुत्तरौ नीलसम्मितौ ।
पाश्चात्यौ माल्यवत्सृष्टौ पूर्वगाद्रीवमानतः ॥
एतैरखिळावृतोवर्षो विभक्तश्चाष्वधामलः ।
सुकुमारं वनं रम्यं सर्वत्र्यैण्यैव तेष्वलम् ॥
तेषु चेवास्त्रियः पृष्टापूर्वाध्यष्टं दिगुन्मुखाः ।
अषटरूपैरादिशेषः सहस्रवदनः प्रभुः ॥
वसत्यस्य महारुद्रः सांबश्चाष्टतनुः स्वयम् ।
सदोपास्त इति शेषं तद्गं सङ्कर्षणं परम् ॥
पनरष्टतनुः शम्भुः भवान्याभस्मगो भवः ।
तेष्वष्टभवनेष्वेव सदारमति शङ्करः ॥
प्रारब्धकर्मणा सापि पतिं रमयति स्फुटम् ।
॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे एकादशोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:56.6770000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

readily realisable

  • तत्कालसहज वसूलीयोग्य 
RANDOM WORD

Did you know?

भारतीय विवाहसंस्थेचा पाया केव्हां घातला गेला?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.