TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमपरिच्छेदः - पञ्चदशोऽध्यायः

'पाञ्चरात्रागमः' एक उत्कृष्ट रचना.


पञ्चदशोऽध्यायः
॥ श्रीहंसः ॥
सत्यात् कोटिर्द्वादशोर्ध्वः लोको वैकुण्ठनामकः ।
दुर्गाभागस्त्वधोदेशः भूकन्दो दशलक्षकः ॥
तस्योपरिष्टाद्भूभागः श्रीभागस्तु तदूर्ध्वतः ।
भूकन्देन त्रयस्तुल्या त्रिंशल्लक्षोन्नतं मितम् ॥
शिखरं तत्रिभागेषु महाहर्म्याण्यनेकशः ।
मण्यात्मकानि वैद्व्यष्टसंख्यानि च शुभानि च ॥
मध्ये वज्रमयानेको पर्यावरणमानि च ।
महरादीनि चत्वारि हयजतं विस्तराणि च ॥
भुवनानि यथा भागत्रये वैकुण्ठभूमयः ।
अजाण्डखर्परस्पृष्टाः मध्ये प्राकारसप्तकाः ॥
युक्ता पूर्वादिदिक्द्वारा सप्तसप्त हिरण्मयः ।
पुष्करागावर्णयुक्तपद्मरागकवाटकाः ॥
इन्द्रनीलनिरोढोरुवज्रपट्टसभासुराः ।
सव्यापसव्यो देदिप्यन्मणि वेदी तटोन्नताः ॥
द्वारि द्वारि कृतोदार रत्नकञ्जासना सभाः ।
अनन्तसूर्यभादीप्तलोकमण्डनभूषणाः ॥
तेषु तेषु त्रिभागेषु रमानन्तानन्ताधिरूपिणी ।
विपेशानां समस्तानां ब्रह्मणा सह कर्हिचित् ॥
वैकुण्ठादि त्रिभागानां दर्शनं भवति ध्रुवम् ।
न तत्र संस्थितिस्तेषां महरादिषु संस्थितिः ॥
तृणादयो महर्लोके मानुषाद्यास्तदूर्ध्वतः ।
राजानस्तु तपोलोके सत्यलोके नृगायकाः ॥
मुक्तानामेव बद्धानामुत्क्रान्ता नामिहस्थितिः ।
नृगन्धर्वाजानजान्ता उत्क्रान्तास्तु तपस्थिताः ॥
कर्मदेवास्समुत्क्रम्य सत्यलोके वसन्ति हि ।
अतात्विका लिङ्गमुक्ता स्थानत्रयगता अपि ॥
भागत्रयेष्वपि न हि प्राकारसंस्थिता भवत् ।
तस्योपरिष्टात् प्राकाराः श्रीभागस्य बहिस्थिताः ॥
चतुष्कोट्यात्मकस्तस्यपरितः परिघात्मिका ।
द्विषट्कोट्या यामयुक्ता बाह्यप्राकार ईरितः ॥
षट्प्राकारास्तदन्तस्था कोट्यन्तरवकाशकाः ।
अष्टकोट्यात्मकस्तस्य परिष्टाद्बहिरावृतिः ॥
श्रीः कोटियोजनमिता विरजाख्या नदीशुभा ।
यदम्भःस्पर्शनाल्लिङ्गमुक्ताः सद्यो भवन्ति हि ॥
जनास्तत्र हरिर्नित्यं जलक्रीडारतः श्रिताः ।
भूभारोर्ध्वावरणगा भूरेवावराणात्मिका ॥
तन्मध्ये तु ततो लक्षोन्नत श्रीभागभूतळे ।
विरजा तत्र द्वौ भागौ मुक्तामुक्ताश्रयौ शुभौ ॥
एवं दुर्गाभागगतो पर्यावरणसङ्गता ।
भूभागदुर्गा भागौ द्वौ मध्यो भूरुन्नताकृति ॥
तयोरूर्ध्वावरणतत्सन्धिगेरण्यनामके ।
नद्यौ दुर्गाभूमयाम्बुसमिते श्रीहरिप्रिये ॥
न तत्र लिङ्गभङ्गादि हरिणा चिन्तितं क्वचित् ।
प्रधानपरमोव्योम्नोरन्तरा विरजा नदी ॥
प्रधानात्मकदेहौ तौ ब्रह्मवायू सभार्यकौ ।
भूभागोर्ध्वावरणगो लये सर्वसुरैः सह ॥
सुरान् विनावताराणाम् आरम्भे च समाप्तिके ।
काले भूभागोर्ध्वगतौ स्यातां क्वापि हरीच्छया ॥
अतो भूभागोर्ध्वदेशः प्रधानमिति कीर्तितम् ।
यदधीना यस्य सत्ता तत्तदित्येव भण्यते ॥
तादृक्प्रधान संसृष्टः श्रीभागः परमाम्बरम् ।
अतः प्रधानपरमो व्योमगेत्यभिधीयते ॥
निरंशतात्विकानां च ह्यण्डान्तस्तन्निमज्जनम् ।
तात्विकानां तु सर्वेषाम् अनिरुद्धावृति स्थिते ॥
सत्वारणतस्तूच्च प्रदेशे संस्थिते मले ।
श्वेतद्वीपस्वधामभ्यो एकीभूतेति शोभने ॥
श्रीदुर्गाभ्यां च भूम्या च एकीभूते विलक्षके ।
श्रीभागे तत्रगे तस्य परिघा विरजा नदी ॥
तज्जले तु ततः स्नात्वा लिङ्गभङ्गः प्रदृश्यते ।
लये पृथिव्यावरणं व्युत्क्रामद्गच्छतां सताम् ॥
प्रथमावरणं प्रोक्तं सत्वावरणमन्तिमम् ।
तदुच्चाव्याकृताकाशो व्योमशब्देन भण्यते ॥
अनन्ता(अन्तिमा)वरणव्योम्नोरन्तरा विरजेत्यतः ।
सोत्पत्यङ्गेषु देवानाम् अङ्गसायुज्यमिष्यते ॥
श्रीभागवैकुण्ठतद्गवासुदेवस्य चक्रिणः ।
अनन्तरूपे सर्वाङ्गसायुज्यं ब्रह्मणो भवेत् ॥
मुक्तस्य च स्वरूपेण ह्यणोर्वृद्धिर्न युज्यते ।
नोहानिः पुनरावृत्तिदुःखाज्ञानभयादयः ॥
नीचनीचाल्पमुक्तानां पूर्तिः स्वानन्दमात्रतः ।
नैवोत्तममुदाकाङ्क्षा सेवाध्यानादिकं फलम् ॥
न हरेर्नपरस्यापि मुद्भुजस्ते स्वमुद्भुजः ।
प्रलयत्वं क्वचित्सृष्टिः काले श्रीभाग एव हि ॥
ब्रह्मा चिन्मात्रदेहेन ह्यन्तप्राकारगो मतः ।
रुद्रादयः षष्टमगाः इन्द्राद्याः पञ्चमस्थिताः ॥
चतुर्थस्थाः सूर्याद्या तृतीयस्थाः मरुद्गणाः ।
द्वितीयप्राकारसंस्थाः पर्जन्याद्याः सुरोत्तमाः ॥
चिन्मात्रदेहैः श्रीभागे आद्ये कर्मजपूर्वकाः ।
एते मुक्तास्तु भूभागे दुर्गाभागे तथैव च ॥
शुद्धसात्विकदेहैस्तु प्राप्तास्तु सुखिनो हरेः ।
चतुर्लक्षाधिकाशीतिलक्षजीवगणस्य तु ॥
बिम्बात्मा तत्तादाकारो सदा तद्गः प्ररक्षति ।
सर्वजीवगणामुक्ताः सन्ति वैकुण्ठमन्दिरे ॥
जीवा(न)नां पात्य(पायो)पि हरिः स हि रूपान्तरैविभुः ।
सर्वजीवसमात्यल्परूपैः स्थूलैश्चतादृशैः ॥
अनन्तकोटिकल्पीयमुक्तोपास्यः त्रिभागगः ।
तादृग्रूपानन्तयुक्तश्रिया सह चरत्यसौ ॥
.तौ तत्र पूजोपयोग्यानन्तानन्तार्थरू पकौ ।
तत्र स्वारूपिककिरीटादि शङ्खचक्रादि साधनैः ॥
सुदर्शनाद्यायुध्यैश्च गन्धमाल्यादिकार्हणैः ।
नैवेद्यवस्त्रा(सङ्गाद्यैः)शय्याद्यैः रूपैः स्वैः स्वयमर्चितः ॥
श्रियासदैक्यमापन्नः मोदरूप्यनुमोदते ।
श्रीः देव(वि)मखिलाकारा तैर्विष्णुं पूजयत्यलम् ॥
तैर्न्निमाल्यैः विष्णुदत्तैः रमैकी भवति स्फुटम् ।
भूदुर्गभागयोरेवं शुद्धसात्विकसाधनैः ॥
तन्मानिनी श्रीःसम्पूज्य तन्निर्माल्यैरजादिकान् ।
मुक्तास्तोषयति प्राज्ञाः गन्धमाल्यादिभिः शुभैः ॥
ते विमानरथांडोला डोलालोल विशेषकैः ।
शय्याभरणवस्त्राद्यैः करिहर्यादिभिः क्वचित् ॥
समानैरुत्तमजनैः फलपुष्पाक्षतादिभिः ।
स्वस्व्येष्टतरुणीभिश्च जलक्रीडादिभिस्तथा ॥
अव्याहृतेष्टगतयः पूजाया सत्कथादिभिः ।
पुनरावृत्तिरहिता नमन्ति निखिला अपि ॥
नवकोट्यो हि देवानां पदस्था देवतागणाः ।
लिङ्गसूक्ष्मस्थूलदेहयुक्तास्सर्वे सभार्यकाः ॥
सेवार्थं श्रीहरेर्दुर्गाभागे सम्यग्वसन्ति हि ।
ते कामधुक्कल्पवृक्षचिन्तामणिसमुत्थितैः ॥
पूज्योप(युक्ता)योगानन्तार्थैः जलेन श्रीकरार्पितैः ।
तया सम्पूजितहरिनिर्माल्यैः पुनरार्पितैः ॥
पवित्रिताङ्गापरितः सञ्चरन्त्यपि मोदिनः ।
सायुज्यमपि सालोक्यं सामीप्यं सर्वदा हरेः ॥
सारूप्यमपि मुक्तिर्हि चतुर्था किल भण्यते ।
विष्णुर्मुक्तान् स्वदेहस्थान् स्वस्वानन्दैकभोजिनः ॥
करोति तद्धि सायुज्यं तत्सुराणां च नीचगम् ।
सामीप्यादि त्रयं कर्मदेवानां युज्यते क्वचित् ॥
तद्भिन्नदेवदासानां सारूप्यादि द्वयं मतम् ।
एकलोकनिवासाख्यं सालोक्यमितरस्य तु ॥
शुद्धसात्विकदेहेषु चतुर्भुजसमन्विताः ।
दरारिपीताम्बरिणो यदि सारूप्यमीरितम् ॥
जयश्च विजयश्चैव बलश्च प्रबलस्तथा ।
चण्डः प्रचण़्डश्च तथा नन्दश्चापि सुनन्दकः ॥
कुमुदः कुमुदाक्षश्च तथा भद्रसुभद्रकौ ।
सुधामदामनामानौ विष्वक्सेनवशे स्थितौ ॥
रूपैश्चतुर्भिसर्वेपि चतुर्दिक्ष्वपि सप्तसु ।
अन्तः प्राकारगद्वारमारभ्यद्वारपालकाः ॥
नन्दिनी हरिपादोत्था दुर्गाभागशुभोदका ।
परिघा स तु वैकुण्ठश्चतुरस्रः प्रकीर्तितः ॥
बाह्यण्डव्यापिनो विष्णोर्लोके वैकुण्ठनामकः ।
कोट्युच्छ्रितानन्तमूर्ध्नः मुखे मूर्ध्नि सुचित्यते ॥
गर्भोदकान्तर्देहस्थखर्परास्पृष्टपादुकः ।
स्वरतस्यानन्तासनाख्यः कटिः पीताम्बरात्मकः ॥
घनोदकं कटितटी मेरुस्तन्नाभिमध्यगे ।
योजनानां पञ्चविंशत्कोटिगं मेरुपर्वतात् ॥
अजाण्डखर्परं दिक्षुविदिक्षूर्ध्वमधः स्मृतम् ।
मह्यादिभिरावरण्यैर्दशभिस्तु दशादिकैः ॥
दत्तं चावरणान्येत्यन्यूर्ध्वशिष्टानि सर्वशः ।
अधः पादानि तद्विष्णोः स्थळान्याहुर्मनीषिणः ॥
शिलावत्प्रतिमा विष्णोरजादेरभिमानतः ।
अण्डंलोकाश्च देवानां क्रमाद्धेहास्तु मानिनः ॥
एवं विधाजाण्डकोट्यनन्तात्मकरूपकैः ।
सावकाशं सञ्चरद्भिः विलासद्रोमकूपतः ॥
हरेरेवं जगत्तस्य वशेज्ञात्वा विशेषतः ।
विराड्रूपस्य च हरेः सत्यलोकः शिरस्यलम् ॥
लोकालोकस्तस्य हरेः कटिसूत्रे विचिन्त्यते ।
पीताम्बरः स्वर्णभूमिः शुद्धोदाब्धिः कटिस्तळे ॥
कटिप्रधानस्थिगणे चिन्तयेन्मानसोत्तरम् ।
मूलाधारे जाम्बवाख्यं केसरेषु इळावृतम् ॥
जठराद्यास्तु तद्रेखा मेरुस्तन्नाभिमध्यगः ।
मेरूपरिस्थलोकेश भवनानि च सर्वशः ॥
बीजकोशेषु सञ्चिन्त्य मुच्यते पुरुषर्षभः ।
भुवर्लोकं तस्य नाभौ स्वर्लोकं हृदि चिन्तयेत् ॥
महर्लोकमुरस्स्थाने जनलोकं गले हरेः ।
तपोलोकं मुखे ध्यात्वा सत्यलोकं तु मस्तके ॥
षडष्टद्वादशाद्व्यष्टद्विसहस्रदळान्यपि ।
नाभ्यादिकानि पद्मानि भुवरादीनि वै हरेः ॥
पाताळं तस्य पादे तु प्रपदेषु रसातळम् ।
महातळन्तु जघने जङ्घयोश्च तळातळम् ॥
सुतळं जानुदेशे तु ऊर्वो(पि तु)स्तु वितळातळे ।
विराड्रूपस्य चाङ्गेषु लोकाश्चिन्त्या सुचेतनैः ॥
पद्मनाभस्य नाभ्युत्थं प्राकृतं पद्ममूर्जितम् ।
संसृष्टतत्वसञ्जातं भूतत्वादिकसङ्गतम् ॥  
सर्वलोकात्मकं तस्य शिखाग्रे सत्यनामके ।
आद्यः ब्रह्मांशतो जातो विष्णुनैव चतुर्मुखः ॥   
सृष्टः स्वयं द्रष्टुमिच्छन् चतुर्दिक्षुविधिर्हरिम् ।
मुखानि लेभे चत्वारि नापश्यद्धिक्षु वै स्वयम् ॥   
ततस्तन्नाळमध्यं तच्छिद्रादन्तर्गतं हरिम् ।  
पश्यामीति तपश्चक्रे न तत्राविददीश्वरम् ॥      
सत्यभागधोसंस्पृष्ट संस्पृष्टाम्बुस्थया श्रिया  ।    
वायुरूपस्थया धाता भीता विष्णोर्विभीरभूत् ॥     .
॥ इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे पञ्चदशोऽध्यायः सम्पूर्णः ॥
॥ श्री कृष्णार्पणमस्तु ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:54:56.9600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spontaneous electrolysis

  • उत्स्फूर्त विद्युत अपघटन 
RANDOM WORD

Did you know?

देवक म्हणजे काय ? त्याचे महत्व काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.