TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः ४
अथाभ्रीयं व्याचक्ष्महे ॥१॥
तत्किल निखिलजरामरणपरिहारेण सुधारससध्रीचीनत्वं अङ्गीकरोति ।
साधनानामस्य बहुभिर्बहुधोपवर्णितानां रसमङ्गलीयमन्यतमं विलिखामः ॥२॥

(अभ्रः वज्र)
यदञ्जननिभं क्षिप्तं न वह्नौ विकृतिं व्रजेत् ।
वज्रसंज्ञं हि तद्योज्यमभ्रं सर्वत्र नेतरत् ॥३॥

(अभ्रः)
वज्रं भेकवपुः कृष्णमभ्रकं त्रिविधं मतम् ।
ततः कृष्णं समादाय पाचयेत्काण्डिके रसे ॥४॥

(अभ्रः)
ततः कृष्णं समादायेत्यनेन कृष्णत्वसामान्याद्वज्रकृष्णाभ्रयोर्ग्रहणम् ।
भेकवपुस्तु हरितपीतादिवर्णं न ग्राह्यमिति ॥५॥

(अभ्रः सत्त्वपातन)
चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकं अवशोष्य च सूरणस्य ।
भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम् ॥६॥
पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ ।
सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत्सकललौहगुणाधिकं च ॥७॥

(अभ्रः सत्त्वः एकीकरण)
कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् ।
मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत् ॥८॥

(पञ्चमित्र)
घृतमधुगुग्गुलुगुञ्जाटङ्कणमिति पञ्चमित्रसंज्ञं च ।
मेलयति सर्वधातूनङ्गाराग्नौ तु धमनेन ॥९॥
समगन्धमभ्रसत्त्वं सटङ्कणं शूकमूषया ध्मातम् ।
सार्धं तत्सत्त्वरजः सपारदं सकलकार्यकरम् ॥१०॥

(अभ्रः सत्त्वः शोधन, मारण)
अयोधातुवच्छोधनमारणमेतस्य ॥११॥

(अभ्रः सत्त्वः सेवन)
चूर्णं अभ्रकसत्त्वस्य कान्तलोहस्य वा ततः ।
तीक्ष्णस्य महादेवि त्रिफलाक्वाथभावितम् ॥१२॥
यावदञ्जनसंकाशं वस्त्रच्छन्नं विशोष्य च ।
भृङ्गामलकसारेण हरिद्राया रसेन च ॥१३॥
मिश्रितं क्रौञ्चजघृतमधुसंमिश्रितं ततः ।
लोहसम्पुटमध्यस्थं मासं धान्ये प्रतिष्ठितम् ॥१४॥
घृतेन मधुना लिह्यात्क्षेत्रीकरणमुत्तमम् ।
एवं वर्षप्रयोगेन सहस्रायुर्भवेन्नरः ॥१५॥

(अभ्रः वज्रः शोधन)
वज्राभ्रं च धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् ।
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्रवैः ।
भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ॥१६॥
धान्याभ्रभस्मप्रयोगस्यारुणकृष्णभेदेन प्रकारद्वयं विलिख्यते ॥१७॥

(अभ्रः मारण)
कृत्वा धान्याभ्रकं तत्तु शोषयित्वा तु मर्दयेत् ।
अर्कक्षीरौदनं मर्द्यमर्कमूलद्रवेण वा ॥१८॥
वेष्टयेदर्कपत्रैस्तु सम्यग्गजपुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः ॥१९॥
ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ।
म्रियते नात्र सन्देहः सर्वरोगेषु योजयेत् ॥२०॥

(अभ्रः मारण)
अभ्रं टङ्कणसम्पिष्टं स्थाल्यां मृदयसोः पचेत् ।
म्रियते नात्र सन्देहो गुणाधिक्याय वौषधैः ॥२१॥
तण्डुलीयकबृहतीनागवल्लीतगरपुनर्नवाहिलमोचिकामण्डूकपर्णीतिक्तिकाखुपर्णिकामदनार्कार्द्रकपलाशसूतमातृकादिभिर्मर्दनपुटनैरपि मारणीयम् ॥२२॥

(अभ्रः मारण )
धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् ॥२३॥

(अभ्रः मारण)
धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् ।
तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा ॥२४॥
नागवल्लीरसैः सूर्यक्षीरैर्देयं पृथक्पृथक् ।
दिनं दिनं मर्दयित्वा क्वाथैर्वटजटोद्भवैः ॥२५॥
दत्त्वा पुटत्रयं पश्चात्त्रिः पुटेन्मुसलीरसैः ।
त्रिर्गोक्षुरकषायेण त्रिःपुटेद्वानरीरसैः ॥२६॥
मोचकन्दरसैः पाच्यं त्रिरात्रं कोकिलाक्षकैः ।
रसैः पुटेच्च लोध्रस्य क्षीरादेकपुटं ततः ॥२७॥
दध्ना घृतेन मधुना स्वच्छया सितया तथा ।
एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत् ॥२८॥
सर्वरोगहरं व्योम जायते योगवाहकम् ।
कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ॥२९॥
वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् ।

(अभ्रः मारण (?))
रम्भाद्भिरभ्रं लवणेन पिष्ट्वा चक्रीकृतं टङ्कणमध्यवर्ति ।
दग्धेन्धनेषु व्यजनानिलेन स्नुह्यर्कमूलाम्बुपुटं च सिद्ध्यै ॥३०॥

(अभ्रः भस्मनः)
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ।
घृते जीर्णे तदभ्रं तु सर्वकार्येषु योजयेत् ॥३१॥

(अभ्रः भस्मनः)
त्रिफलोत्थकषायस्य पलान्यादाय षोडश ।
गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ॥३२॥
एकीकृत्य लोहपात्रे पाचयेन्मृदुनाग्निना ।
द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत् ॥३३॥

अरुणस्य पुनरमृतीकरणेन गुणवृद्धिवर्णहानस्तः ॥३४॥
अथ प्रसङ्गाद्द्रुतयो लिख्यन्ते ॥३५॥

(अभ्रः द्रुति)
अगस्तिपुष्पनिर्यासैर्मर्दितः सूरणोदरे ।
गोष्ठभूस्थो घनो मासं जायते जलसंनिभः ॥३६॥

(अभ्रः द्रुति)
स्वरसेन वज्रवल्ल्याः पिष्टं सौवर्चलान्वितं गगनम् ।
पक्वं च शरावपुटे बहुवारं भवति रसरूपम् ॥३७॥

(अभ्रः द्रुति)
निजरसबहुपरिभावितसुरदालीचूर्णवापेन ।
द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि ॥३८॥

(अभ्रः सत्त्वः द्रुति)
निजरसशतपरिभावितकञ्चुकिकन्दोत्थपरिवापात् ।
द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि ॥३९॥

(द्रुतिः मेलापन)
कृष्णागुरुणा मिलितै रसोनसितरामठैरिमा द्रुतयः ।
सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशबीजरसैः ॥४०॥

मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् ।
जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत् ॥४१॥
पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।
कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये ॥४२॥

(अभ्र  सत्त्वः पातन)
गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा ।
ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम् ॥४३॥
एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डिकाः ।
कृता ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति नान्यथा ॥४४॥
पाषाणमृत्तिकादीनि सर्वलोहानि वा पृथक् ।
अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा ॥४५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:34.3570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

fair selling price

  • रास्त विक्री किंमत 
  • उचित बिक्री कीमत 
  • रास्त विक्री किंमत 
  • रास्त विक्रय मूल्य 
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site