अथातः प्रयोगीयं अध्यायं व्याचक्ष्महे ॥१॥
तत्रश्लोकचतुष्टयं प्रागधिगन्तव्यम् ॥२॥
साग्नीनां चरकमतं फलमूलाद्यौषधं यदविरुद्धम् ।
तद्यदि रसानुपीतं भवेत्तदा त्वरितं उल्लाघः ॥३॥
मात्रावृद्धिः कार्या तुल्यायामुपकृतौ क्रमाद्विदुषा ।
मात्राह्रासः कार्यो वैगुण्ये त्यागसमये च ॥४॥
वल्मीककूपतरुतलरथ्यादेवालयश्मशानेषु ।
जाता विधिनापि हृता ओषध्यः सिद्धिदा न स्युः ॥५॥
कचकचिति न दन्ताग्रे कुर्वन्ति समानि केतकीरजसा ।
योज्यानि हि प्रयोगे रसोपरसलोहचूर्णानि ॥६॥
सर्वप्रयोगयोग्यतया रसेन्द्रमारणाय शाम्भवीमुद्रामभिदध्मः ॥७॥

अधस्ताप उपर्यापो मध्ये पारदगन्धकौ ।
यदि स्यात्सुदृढा मुद्रा मन्दभाग्योऽपि सिध्यति ॥८॥
यदि कार्यं अयोयन्त्रं तदा तत्सार इष्यते ॥९॥
समे गन्धे तु रोगघ्नो द्विगुणे राजयक्ष्मनुत् ।
जीर्णे गुणत्रये गन्धे कामिनीदर्पनाशनः ॥१०॥
चतुर्गुणे तु तेजस्वी सर्वशास्त्रविशारदः ।
भवेत्पञ्चगुणे सिद्धः षड्गुणे मृत्युजिद्भवेत् ॥११॥
षड्गुणे रोगघ्न इतियदुक्तं तत्तु बहिर्धूममूर्च्छायां एवाधिगन्तव्यं तत्र गन्धस्य समग्रजारणाभावात्स्वर्णादिपिष्टिकायामपि रीतिरियम् ॥१२॥

वंशे वा माहिषे शृङ्गे स्थापयेत्साधितं रसम् ॥१३॥
अमृतं च विषं प्रोक्तं शिवेन च रसायनम् ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥१४॥

(गन्धामृत)
भस्मसूतं द्विधा गन्धं शतं कन्याम्बुमर्दितम् ।
रुद्ध्वा लघुपुटे पच्यादुद्धृत्य मधुसर्पिषा ॥१५॥
निष्कमात्रं जरामृत्युं हन्ति गन्धामृतो रसः ।
समूलं भृङ्गराजं तु छायाशुष्कं विमर्दयेत् ॥१६॥
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत् ।
पलैकं भक्षयेच्चानु वर्षान्मृत्युजरापहम् ॥१७॥

(हेमसुन्दररसः)
मृतसूतस्य पादांशं हेमभस्म प्रकल्पयेत् ।
क्षीराज्यमधुना मिश्रं माषैकं कान्तपात्रके ॥१८॥
लोहयेन्माषषट्कं तु जरामृत्युविनाशनम् ।
वाकुचीचूर्णकर्षैकं धात्रीफलरसप्लुतम् ।
अनुपानं लिहेन्नित्यं स्याद्रसो हेमसुन्दरः ॥१९॥

(चन्द्रोदयरसः)
पलं मृदु स्वर्णदलं रसेन्द्रात्पलाष्टकं षोडशगन्धकस्य ।
शोणैः सुकार्पासभवप्रसूनैः सर्वं विमर्द्याथ कुमारिकाद्भिः ॥२०॥
तत्काचकुम्भे निहितं सुगाढे मृत्कर्पटैस्तद्दिवसत्रयं च ।
पचेत्क्रमाग्नौ सिकताख्ययन्त्रे ततो रसः पल्लवरागरम्यः ॥२१॥
संगृह्य चैतस्य पलं पलं पलानि चत्वारि कर्पूररजस्तथैव ।
जातीफलं शोषणं इन्द्रपुष्पं कस्तूरिकाया इह शाण एकः ॥२२॥
चन्द्रोदयोऽयं कथितोऽस्य वल्लो भुक्तोऽहिवल्लो दलमध्यवर्ती ।
मदोन्मदानां प्रमदाशतानां गर्वाधिकत्वं श्लथयत्यकाण्डे ॥२३॥
शृतं घनीभूतं अतीवदुग्धं गुरूणि मांसानि समण्डकानि ।
माषान्नपिष्टानि भवन्ति पथ्यान्यानन्ददायीन्यपराणि चात्र ॥२४॥
रतिकाले रतान्ते च सेवितोऽयं रसेश्वरः ।
मानहानिं करोत्येष प्रमदानां सुनिश्चितम् ॥२५॥
कृत्रिमं स्थावरं चैव जङ्गमं चैव यद्विषम् ।
न विकाराय भवति साधकेन्द्रस्य वत्सरात् ॥२६॥
यथामृत्युञ्जयोऽभ्यासान्मृत्युं जयति देहिनाम् ।
तथायं साधकेन्द्रस्य जरामरणनाशनः ॥२७॥
वलीपलितनाशनस्तनुधृतां वयःस्तम्भनः ।
समस्तगदखण्डनः प्रचुररोगपञ्चाननः ।
गृहे च रसराडयं भवति यस्य चन्द्रोदयः ।
स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥२८॥

(मृत्युञ्जयरसः)
बलिः सूतो निम्बूरसविमृदितो भस्मसिकताह्वये यन्त्रे कृत्वा समरविकणाटङ्कणरजः ।
त्रिघस्रं लुङ्गाम्भोलवकदलितः क्षौद्रहविषा विलीढो माषैको दलयति समस्तं गदगणम् ॥२९॥
जरां वर्षैकेन क्षपयति च पुष्टिं वितनुते तनौ तेजस्कारं रमयति वधूनामपि शतम् ।
रसः श्रीमान्मृत्युञ्जय इति गिरीशेन गदितः प्रभावं को वान्यः कथयितुमपारं प्रभवति ॥३०॥

(गन्धदाह)
पिष्टिः कार्या गन्धकेनेन्दुमौलेरूर्ध्वं चाधो गन्धमादाय तुल्यम् ।
धार्या मध्ये पक्वमूषा तुषाग्नौ स्थाप्या चेत्थं मन्यते गन्धदाहः ॥३१॥

(आनन्दसूतरसः)
शुद्धं रसं समविषं प्रहरं विमर्द्य तद्गोलकं कनकचारुफले निधाय ।
दोलागतं पञ्चदिनं विषमुष्टितोये प्रक्षाल्य तत्पुनरपीह तथा द्विवारम् ॥३२॥
तत्सूतके गिरिशलोचनयुग्मगन्धं युक्त्यावजार्य कुरु भस्म समं च तस्य ।
वैक्रान्तभस्म जयपालनवांशकार्धं सर्वैर्विषं द्विगुणितं मृदितं च खल्वे ॥३३॥
घस्रत्रयं कनकभृङ्गरसेन गाढं आवेश्य भाजनतले विषधूपभाजि ।
भृङ्गद्रवेण शिथिलं लघुकाचकूप्यां आपूर्य रुद्धवदनां सिकताख्ययन्त्रे ॥३४॥
तां वासरार्थं उपदीप्य निसर्गशीतां दृष्ट्वा विचूर्ण्य गदशालिषु शालिमात्रम् ।
आनन्दसूतं अखिलामयकुम्भिसिंहं गद्याणकार्धसितया सह देहि पश्चात् ॥३५॥
रोगानुरूपमनुपानमपि प्रकाशं क्षोणीभुजां प्रचुरपूजनमाप्नुहि त्वम् ।
कीर्त्या दिशो धवलय स्फुरदिन्दुकान्त्या वैद्येश्वरेति विरुदं भज वैद्यराज ॥३६॥

(अर्कानलेश्वररसः)
माक्षीककनकौ गन्धं भ्रामयित्वा विचूर्णयेत् ।
रसं गन्धाद्द्विभागं च सिकतायन्त्रगं पचेत् ॥३७॥
दिनमेवं च तारं वा जरारोगहरं महत् ।

(रविचन्द्रेश्वररसः)
रसेन पिष्ट्वा स्वर्णं वा ताप्यं पश्चाद्विमिश्रयेत् ॥३८॥
ताप्यस्थाने मृतं तालं तारकर्मणि कस्यचित् ।
रससंख्यान्पुटान्दद्याद्गन्धैर्वा वीर्यवृद्धये ॥३९॥

(प्राणिकल्पद्रुमगुटी)
सूतं गन्धं कान्तपाषाणमिश्रं ब्राह्मैर्बीजैर्मर्दयेदेकघस्रम् ।
गोलं कृत्वा टङ्कणेन प्रवेष्ट्य पश्चान्मृत्स्नागोमयाभ्यां धमेत्तम् ॥४०॥
शुष्कं यन्त्रे सत्त्वपातप्रधाने किट्टः सूतो बद्धतामेति नूनम् ।
बद्धं पश्चात्सारकाचप्रयोगाद्धेम्ना तुल्यं सूतमावर्तयेत्तु ॥४१॥
वक्त्रे गोलः स्थापितो वत्सरार्थं रोगान्सर्वान्हन्ति सौख्यं करोति ।
यद्वा दुग्धे गोलकं पाचयित्वा दद्याद्दुग्धं पिप्पलीभिः क्षये तत् ॥४२॥
लौहे पात्रे पाचयित्वा तु देयं शुष्के पाण्डौ कामले पित्तरोगे ।
वाते गोलं व्योषवातारितैले पक्त्वा तैलं गन्धयुक्तं ददीत ॥४३॥
भार्ङ्गीमुण्डीकासमर्दाटरूषद्रावैर्गोलं पाचयेच्छ्लेष्मनुत्त्यै ।
कासे श्वासे तं च दद्यात्कषायं माध्वीकाक्तं पिप्पलीचूर्णयुक्तम् ॥४४॥
यस्मिन्रोगे यः कषायोऽस्ति चोक्तस्तस्मिन्गोलं पाचयित्वा कषाये ।
दद्यात्तत्तद्रोगनाशाय पथ्यं तत्तद्रोगे कीर्तितं यत्तदेव ॥४५॥
उक्तो गोलः प्राणिकल्पद्रुमोऽयं पूजां कृत्वा योजयेद्भक्तियोगात् ।

(रसशार्दूलरसः)
रसस्य द्विगुणं गन्धं शुद्धं संमर्दयेद्दिनम् ।
प्रतिलौहं सूततुल्यमष्टलौहं मृतं क्षिपेत् ॥४६॥
ब्राह्मी जयन्ती निर्गुण्डी मधुयष्टी पुनर्नवा ।
नीलिका गिरिकर्ण्यर्ककृष्णधत्तूरकं यवाः ॥४७॥
आटरूषः काकमाची द्रवैरासां विमर्दयेत् ।
गुञ्जात्रयं चतुष्कं वा सर्वरोगेषु योजयेत् ।
रोगोक्तमनुपानं वा कवोष्णं वा जलं पिबेत् ॥४८॥

(त्रिनेत्ररसः)
रसगन्धकताम्राणि सिन्धुवाररसौदनम् ।
मर्दयेदातपे पश्चाद्वालुकायन्त्रमध्यगम् ॥४९॥
रुद्ध्वा मूषागतं यामत्रयं तीव्राग्निना पचेत् ।
तद्गुञ्जा सर्वरोगेषु पर्णखण्डिकया सह ॥५०॥
दातव्या देहसिद्ध्यर्थं पुष्टिवीर्यबलाय च ।
रसोऽयं हेमताराभ्यां अपि सिध्यति कन्यया ॥५१॥

(अमृतार्णवरसः)
सूतभस्म चतुर्भागं लौहभस्म तथाष्टकम् ।
मेघभस्म च षड्भागं शुद्धगन्धस्य पञ्चकम् ॥५२॥
भावयेत्त्रिफलाक्वाथैस्तत्सर्वं भृङ्गजैर्द्रवैः ।
शिग्रुवह्णिकटुक्यद्भिः सप्तधा भावयेत्पृथक् ॥५३॥
सर्वतुल्या कणा योज्या गुडैर्मिश्रं पुरातनैः ।
निष्कमात्रं सदा खादेज्जरां मृत्युं निहन्त्यलम् ॥५४॥
ब्रह्मायुःस्याच्चतुर्मासै रसोऽयममृतार्णवः ।
तिलकौरण्टपत्राणि गुडेन भक्षयेदनु ॥५५॥

(रत्नेश्वररसः)
अर्धं पारदतुल्येन तारं ताम्रेण मेलयेत् ।
मारयेत्सिकतायन्त्रे शिलाहिङ्गुलगन्धकैः ॥५६॥
अयं रत्नेश्वरः सूतः सर्वत्रैव प्रयुज्यते ।
हेम्नोऽन्तर्योजितो ह्येषो हेमतां प्रतिपद्यते ॥५७॥
शेषोऽर्कश्चेद्गन्धकैर्वा कुनट्या वाहतद्विपैः ।
शोधयेत्कनकं सम्यगन्यैर्वा कालिकापहैः ।
वर्णह्रासे तु ताप्येन कारयेद्वर्णमुत्तमम् ॥५८॥

(दुर्नामारि)
प्रणम्य शङ्करं रुद्रं दण्डपाणिं महेश्वरम् ।
जीवितारोग्यमन्विच्छन्नारदोऽपृच्छदीश्वरम् ॥५९॥
सुखोपायेन हे नाथ शस्त्रक्षाराग्निभिर्विना ।
दुर्बलानां च भीरूणां चिकित्सां वक्तुमर्हसि ॥६०॥
तच्छिष्यवचनं श्रुत्वा लोकानां हितकाम्यया ।
अर्शसां नाशनं श्रेष्ठं भैषज्यं इदं ईरितम् ॥६१॥
पाण्डिवज्रादिलोहानां आदायान्यतमं शुभम् ।
कृत्वा निर्मलं आदौ तु कुनट्या माक्षिकेण च ॥६२॥
पत्तूरमूलकल्केन स्वरसेन दहेत्ततः ।
वह्नौ निक्षिप्य विधिवच्छालाङ्गारेण निर्धमेत् ॥६३॥
ज्वाला च तस्य रोद्धव्या त्रिफलाया रसेन च ।
ततो विज्ञाय गलितं शङ्कुनोर्ध्वं समुत्क्षिपेत् ॥६४॥
त्रिफलाया रसे पूते तदाकृष्य तु निर्वपेत् ।
न सम्यग्गलितं यत्तु तेनैव विधिना पुनः ॥६५॥
ध्मातं निर्वापयेत्तस्मिंल्लौहं तत्त्रिफलारसे ।
यल्लौहं न मृतं तत्र पाच्यं भूयोऽपि पूर्ववत् ॥६६॥
मारणान्न मृतं यच्च तत्त्यक्तव्यं अलौहवत् ।
ततः संशोष्य विधिवच्चूर्णयेल्लौहभाजने ॥६७॥
लोहखल्वे तथा पिंष्याद्दृषदि श्लक्ष्णचूर्णितम् ।
कृत्वा लोहमये पात्रे सार्द्रे वा लिप्तरन्धके ॥६८॥
रसैः पङ्कसमं कृत्वा पचेत्तद्गोमयाग्निना ।
पुटानि क्रमशो दद्यात्पृथगेषां विधानतः ॥६९॥
त्रिफलार्द्रकभृङ्गाणां केशराजस्य बुद्धिमान् ।
मानकन्दकभल्लातवह्नीनां सूरणस्य च ॥७०॥
हस्तिकर्णपलाशस्य कुलिशस्य तथैव च ।
पुटे पुटे चूर्णयित्वा लोहात्षोडशिकं पलम् ॥७१॥
तन्मानं त्रिफलायाश्च पलेनाधिकं आहरेत् ।
अष्टभागावशिष्टे तु रसे तस्याः पचेद्बुधः ॥७२॥
अष्टौ पलानि दत्त्वा तु सर्पिषो लोहभाजने ।
ताम्रे वा लोहदर्व्या तु चालयेद्विधिपूर्वकम् ॥७३॥
ततः पाकविधानज्ञः स्वच्छे चोर्ध्वे च सर्पिषि ।
मृदुमध्यादिभेदेन गृह्णीयात्पाकमन्यतः ॥७४॥
आरभेत विधानेन कृतकौतुकमङ्गलः ।
घृतभ्रामरसंयुक्तं लिहेदा रक्तिकं क्रमात् ॥७५॥
वर्धमानानुपानं च गव्यं क्षीरोत्तमं मतम् ।
गव्याभावेऽप्यजायाश्च स्निग्धवृष्यादिभोजनम् ॥७६॥
सद्यो वह्णिकरं चैव भस्मकं च नियच्छति ।
हन्ति वातं तथा पित्तं कुष्ठानि विषमज्वरम् ॥७७॥
गुल्माक्षिपाण्डुरोगांश्च तन्द्रालस्यमरोचकम् ।
परिणामभवं शूलं प्रमेहमपबाहुकम् ॥७८॥
श्वयथुं रुधिरस्रावं दुर्नामानं विशेषतः ।
बलकृद्बृंहणं चैव कान्तिदं स्वरवर्धनम् ॥७९॥
शरीरलाघवकरमारोग्यं पुष्टिवर्धनम् ।
आयुष्यं श्रीकरं चैव वयस्तेजस्करं तथा ॥८०॥
सश्रीकपुत्रजननं वलीपलितनाशनम् ।
दुर्नामारिरयं नाम्ना दृष्टो वारान्सहस्रशः ।
निर्मूलं दह्यते शीघ्रं यथा तूलं च वह्णिना ॥८१॥
सौकुमार्याल्पकायत्वे मद्यसेवां समाचरेत् ।
जीर्णमद्यानि युक्तानि भोजनैः सह पाययेत् ॥८२॥
लावतित्तिरिवर्तीरमयूरशशकादयः ।
चटकः कलविङ्कश्च वर्तको हरितालकः ॥८३॥
श्येनकश्च बृहल्लावो वनविष्किरकादयः ।
पारावतमृगादीनां मांसं जाङ्गलजं तथा ॥८४॥
मद्गुरो रोहितः श्रेष्ठः शकुलश्च विशेषतः ।
मत्स्यराजा इमे प्रोक्ता हितमत्स्येषु योजयेत् ॥८५॥
प्रशस्तं वार्ताकफलं पटोलं बृहतीफलम् ।
प्रलम्बाभीरुवेत्राग्रजातुकं तण्डुलीयकम् ॥८६॥
वास्तुकं धान्यशाकं च कर्णालुकपुनर्नवाम् ।
नारिकेलं च खर्जूरं दाडिमं लवलीफलम् ॥८७॥
शृङ्गाटकं च पक्वाम्रं द्राक्षा तालफलानि च ।
जातिकोषं लवङ्गं च पूगं ताम्बूलपत्रकम् ।
हितान्येतानि वसूनि लोहमेतत्समश्नताम् ॥८८॥
नाश्नीयाल्लकुचं कोलकर्कन्धुबदराणि च ।
जम्बीरं बीजपूरं च तिन्तिडीकरमर्दकम् ॥८९॥
आनूपानि च मांसानि क्रकरं पुण्ड्रकादिकम् ।
हंससारसदात्यूहचाषक्रौञ्चबलाकिकाः ॥९०॥
माषकन्दकरीराणि चणकं च कलिङ्गकम् ।
कूष्माण्डकं च कर्कोटीं केबुकं च विशेषतः ॥९१॥
कञ्चटं कारवेल्लं च कशेरुं कर्कटीं तथा ।
विदलानि च सर्वाणि ककारादींश्च वर्जयेत् ॥९२॥
शङ्करेण समाख्यातो यक्षराजानुकम्पया ।
जगतामुपकाराय दुर्नामारिरयं ध्रुवम् ॥९३॥
स्थानादपैति मेरुश्च पृथ्वी पर्येति वायुना ।
पतन्ति चन्द्रताराश्च मिथ्या चेदहमब्रुवम् ॥९४॥
ब्रह्मघ्नाश्च कृतघ्नाश्च क्रूराश्चासत्यवादिनः ।
वर्जनीया विदग्धेन भैषज्यगुरुनिन्दकाः ॥९५॥

मुनिरसपिष्टविडङ्गं मुनिरसलीढं चिरस्थितं घर्मे ।
द्रावयति लोहदोषान्वह्णिर्नवनीतपिण्डमिव ॥९६॥
कृमिरिपुचूर्णं लीढं सहितं स्वरसेन वङ्गसेनस्य ।
क्षपयत्यचिरान्नियतं लोहाजीर्णोद्भवं शूलम् ॥९७॥
जीर्णे लौहे त्वपतति चूर्णं भुञ्जीत सिद्धिसाराख्यम् ।
लौहव्यापन्नश्यति विवर्धते जाठरो वह्णिः ॥९८॥

(सिद्धसार)
पथ्यासैन्धवशुण्ठीमागधिकानां पृथक्समो भागः ।
त्रिवृताभागौ निम्बूभाव्यं स्यात्सिद्धिसाराख्यम् ॥९९॥
आरग्वधस्य मज्जाभी रेचनं किट्टशान्तये ।
भवेद्यदतिसारस्तु दुग्धं पीत्वा तु तं जयेत् ॥१००॥
रक्तिद्वादशकादूर्ध्वं वृद्धिरस्य भयप्रदा ॥१०१॥
काले मलप्रवृत्तिर्लाघवमुदरे विशुद्धिरुद्गारे ।
अङ्गेषु नावसादो मनःप्रसादोऽस्य परिपाके ॥१०२॥
नागार्जुनो मुनीन्द्रः शशास यल्लोहशास्त्रं अतिगहनम् ।
तस्यार्थस्य स्मृतये वयमेतद्विशदाक्षरैर्ब्रूमः ॥१०३॥
मेने मुनिः स्वतन्त्रे यः पाकं न पलपञ्चकादर्वाक् ।
सुबहुप्रयोगदोषादूर्ध्वं च पलत्रयोदशकात् ॥१०४॥
तत्रायसि पचनीये पञ्चपलादौ त्रयोदशपलकान्ते ।
लौहात्त्रिगुणा त्रिफला ग्राह्या षड्भिः पलैरधिका ॥१०५॥
मारणपुटनस्थालीपाकास्त्रिफलैकभागसंपाद्याः ।
त्रिफलाभागद्वितयं ग्रहणीयं लौहपाकार्थम् ॥१०६॥
सर्वत्रायः पुटनाद्यर्थैकांशे शरावसंख्यातम् ।
प्रतिपलमेव त्रिगुणं पाथः क्वाथार्थमादेयम् ॥१०७॥
सप्तपलादौ भागे पञ्चदशान्तेऽम्भसां शरावैश्च ।
त्र्याद्यैकादशकान्तैरधिकं तद्वारि कर्तव्यम् ॥१०८॥
तत्राष्टमो विभागः शेषः क्वाथस्य यत्नतः स्थाप्यः ।
तेन हि मारणपुटनस्थालीपाका भविष्यन्ति ॥१०९॥
पाकार्थे तु त्रिफलाभागद्वितये शरावसंख्यातम् ।
प्रतिपलमम्बु समं स्यादधिकं द्वाभ्यां शरावाभ्याम् ॥११०॥
तत्र चतुर्थो भागः शेषो निपुणैः प्रयत्नतो ग्राह्यः ।
अयसः पाकार्थत्वात्स च सर्वस्मात्प्रधानतमः ॥१११॥
पाकार्थमश्मसारे पञ्चपलादौ त्रयोदशपलान्ते ।
दुग्धशरावद्वितयं पादैरेकादिकैरधिकम् ॥११२॥
पञ्चपलादिर्मात्रा तदभावे तदनुसारतो ग्राह्यम् ।
चतुरादिकं एकान्तं शक्तावधिकं त्रयोदशकात् ॥११३॥

(इरोनः प्रक्षेपचूर्ण)
त्रिफलात्रिकटुकचित्रककान्तक्रामकविडङ्गचूर्णानि ।
जातीफलस्य जातीकोषैलाकङ्कोललवङ्गानाम् ।
सितकृष्णजीरकयोरपि चूर्णान्ययसा समानि स्युः ॥११४॥
त्रिफलात्रिकटुविडङ्गा नियता अन्ये यथाप्रकृति बोध्याः ।
कालायसदोषहृते जातीफलादेर्लवङ्गकान्तस्य ।
क्षेपः प्राप्त्यनुरूपः सर्वस्योनस्य चैकाद्यैः ॥११५॥
कान्तक्रामकमेकं निःशेषं दोषमपहरत्ययसः ॥११६॥
द्विगुणत्रिगुणचतुर्गुणमाज्यं ग्राह्यं यथाप्रकृति ॥११७॥
यदि भेषजभूयस्त्वं स्तोकत्वं वा तथापि चूर्णानाम् ।
अयसा साम्यं संख्या भूयोऽल्पत्वेन भूयोऽल्पा ॥११८॥
एवं धात्वनुसारात्तत्तत्कथितौषधस्य बाधेन ।
सर्वत्रैव विधेयस्तत्तत्कथितस्यौषधस्योहः ॥११९॥

(लौहमारणम्)
कान्तादिलौहमारणविधानसर्वस्वं उच्यते तावत् ।
यस्य कृते तल्लौहं पक्तव्यं तस्य शुभे दिवसे ॥१२०॥
समृदङ्गारकरालितनतभूभागे शिवं समभ्यर्च्य ।
वैदिकविधिना वह्णिं निधाय दत्त्वाहुतीस्तत्र ॥१२१॥
धर्मात्सिध्यति सर्वं श्रेयस्तद्धर्मसिद्धये किमपि ।
शक्त्यनुरूपं दद्याद्द्विजाय संतोषिणे गुणिने ॥१२२॥
संतोष्य कर्मकारं प्रसादपूगादिदानसत्पानैः ।
आदौ तदश्मसारं निर्मलमेकान्ततः कुर्यात् ॥१२३॥

(??)
तदनु कुठारच्छिन्नात्रिफलागिरिकर्णिकास्थिसंहारैः ।
करिकर्णच्छदमूलशतावरीकेशराजाख्यैः ॥१२४॥
शालिं च मूलकाशीमूलप्रावृड्जभृङ्गराजैश्च ।
लिप्त्वा दग्धव्यं तद्दृष्टक्रियलौहकारेण ॥१२५॥
चिरजलभावितनिर्मलशालाङ्गारेण परित आच्छाद्य ।
कुशलाध्मापितभस्त्रानवरतमुक्तेन पवनेन ॥१२६॥

(??)
वह्णेर्बाह्यज्वाला बोद्धव्या जातु नैव कुञ्चिकया ।
मृल्लवणसलिलभाजा किं तु स्वच्छाम्बुसंप्लुतया ॥१२७॥

द्रव्यान्तरसंयोगात्स्वां शक्तिं भेषजानि मुञ्चन्ति ।
मलधूलिमत्सर्वं सर्वत्र विवर्जयेत्तस्मात् ॥१२८॥

सन्दंशेन गृहीत्वान्तः प्रज्वलिताग्निमध्यमुपनीय ।
गलति यथायथमग्रे तथैव मृदु वर्धयेन्निपुणः ॥१२९॥

(निर्वापणः)
तलनिहितोर्ध्वमुखाङ्कुशलग्नं त्रिफलाजले विनिक्षिप्य ।
निर्वापयेदशेषं शेषं त्रिफलाम्बु रक्षेच्च ॥१३०॥

यल्लौहं न मृतं तत्पुनरपि पक्तव्यं उक्तमार्गेण ।
यन्न मृतं तथापि तत्त्यक्तव्यं अलौहमेव हि यत् ॥१३१॥

तदनु घनलौहपात्रे कालायसमुद्गरेण संचूर्ण्य ।
दत्त्वा बहुशः सलिलं प्रक्षाल्याङ्गारं उद्धृत्य ॥१३२॥
तदयः केवलं अग्नौ शुष्कीकृत्याथवातपे पश्चात् ।
लौहशिलायां पिंष्यादसितेऽश्मनि वा तदप्राप्तौ ॥१३३॥

(स्थालीपाक)
अथ कृत्वायो भाण्डे दत्त्वा त्रिफलाम्बु शेषमन्यद्वा ।
प्रथमं स्थालीपाकं दद्यादा तत्क्षयात्तदनु ॥१३४॥
गजकर्णपत्रमूलशतावरीभृङ्गकेशराजरसैः ।
प्राग्वत्स्थालीपाकं कुर्यात्प्रत्येकमेकं वा ॥१३५॥

(पुटपाक)
हस्तप्रमाणवदनं श्वभ्रं हस्तैकखाति सममध्यम् ।
कृत्वा कटाहसदृशं तत्र करीषं तुषं च काष्ठं च ॥१३६॥
अन्तर्घनतरं अर्धं सुषिरं परिपूर्य दहनमायोज्य ।
पश्चादयसश्चूर्णं श्लक्ष्णं पङ्कोपमं कुर्यात् ॥१३७॥
त्रिफलाम्बुभृङ्गकेशरशतावरीकन्दमाणसहजरसैः ।
भल्लातककरिकर्णच्छदमूलपुनर्नवास्वरसैः ॥१३८॥
क्षिप्त्वाथ लौहपात्रे मार्दे वा लौहमार्दपात्राभ्याम् ।
तुल्याभ्यां पृष्ठेनाच्छाद्यान्ते रन्ध्रं आलिप्य ॥१३९॥
तत्पुटपात्रं तत्र श्वभ्रज्वलने निधाय भूयोभिः ।
काष्ठकरीषतुषैस्तत्संछाद्याहर्निशं दहेत्प्राज्ञः ॥१४०॥
एवं नवभिरमीभिर्मेषजराजैः पचेत्तु पुटपाकम् ।
प्रत्येकमेकमेभिर्मिलितैर्वा त्रिचतुरान्वारान् ॥१४१॥

(पुटपाकः
प्रति पुटनं तत्पिंष्यात्स्थालीपाकं विधाय तथैव तत् ।
तादृशि दृषदि न पिंष्याद्विगलद्रजसा तु युज्यते यत्र ॥१४२॥
तदयश्चूर्णं पिष्टं घृष्टं घनसूक्ष्मवाससि श्लक्ष्णम् ।
यदि रजसा सदृशं स्यात्केतक्यास्तर्हि तद्भद्रम् ॥१४३॥
पुटने स्थालीपाकेऽधिकृतपुरुषे स्वभावरुगधिगमात् ।
कथितमपि हेयं औषधं उचितं उपादेयं अन्यदपि ॥१४४॥
अभ्यस्तकर्मविधिभिर्वालकुशाग्रीयबुद्धिभिरलक्ष्यम् ।
लौहस्य पाकमधुना नागार्जुनशिष्टमभिदध्मः ॥१४५॥

(लौहपाकः)
लोहारकूटताम्रकटाहे दृढमृन्मये प्रणम्य शिवम् ।
तदयः पचेदचपलः काष्ठेन्धनेन वह्णिना मृदुना ॥१४६॥
निक्षिप्य त्रिफलाजलं उदितं यत्तद्घृतं च दुग्धं च ।
संचाल्य लौहमय्या दर्व्या लग्नं समुत्पाट्य ॥१४७॥

(पाकः)
मृदुमध्यखरभावैः पाकस्त्रिविधोऽत्र वक्ष्यते पुंसाम् ।
पित्तसमीरणश्लेष्मप्रकृतीनां मध्यमस्तु समः ॥१४८॥

(पाकः)
अभ्यक्तदर्विलौहं सुखदुःखस्खलनयोगि मृदु मध्यम् ।
उज्झितदर्विखरं परिभाषन्ते केचिदाचार्याः ॥१४९॥
अन्ये विहीनदर्वीप्रलेपं आखूत्कराकृतिं ब्रुवते ।
मृदु मध्यं अर्धचूर्णं सिकतापुञ्जोपमं तु खरम् ॥१५०॥
त्रिविधोऽपि पाक ईदृक्सर्वेषां गुणकृदेव न तु विफलः ।
प्रकृतिविशेषे सूक्ष्मौ गुणदोषौ जनयतीत्यल्पम् ॥१५१॥

(प्रक्षेप)
विज्ञाय पाकमेव द्रागवतार्य क्षितौ क्षणान्कियतः ।
विश्राम्य तत्र लौहे त्रिफलादेः प्रक्षिपेच्चूर्णम् ॥१५२॥
यदि कर्पूरप्राप्तिर्भवति ततो विगलिते तदुष्णत्वे ।
चूर्णीकृतमनुरूपं क्षिपेन्न वा न यदि तल्लाभः ॥१५३॥

पक्वं तदश्मसारं सुचिरघृतस्थित्यभाविरूक्षत्वे ।
गोदोहनादिभाण्डे लौहभाण्डाभावे सति स्थाप्यम् ॥१५४॥
यदि तु परिप्लुतिहेतोर्घृतं ईक्षेताधिकं ततोऽन्यस्मिन् ।
भाण्डे निधाय रक्षेद्भाव्युपयोगो ह्यनेन महान् ॥१५५॥

अयसि विरूक्षीभूते स्नेहस्त्रिफलाघृतेन संपाद्यः ।
एतत्ततो गुणोत्तरमित्यमुना स्नेहनीयं तत् ॥१५६॥

अत्यन्तकफप्रकृतेर्भक्षणं अयसोऽमुनैव शंसन्ति ।
केवलं अपीदं अशितं जनत्ययसो गुणान्कियतः ॥१५७॥
अथवा वक्तव्यविधिसंस्कृतकृष्णाभ्रचूर्णं आदाय ।
लोहचतुर्थार्धसमद्वित्रिचतुःपञ्चगुणभागम् ॥१५८॥
प्रक्षिप्यायः प्राग्वत्पचेदुभाभ्यां भवेद्रजो यावत् ।
तावन्मानानुस्मृतेः स्यात्त्रिफलादिद्रव्यपरिमाणम् ॥१५९॥
इदं आप्यायकं इदं अतिपित्तनुदिदमेव कान्तिबलजननम् ।
स्तभ्नाति तृट्क्षुधौ परं अधिकाधिकमात्रया क्षिप्तम् ॥१६०॥

(अभ्रः शोधनः निश्चन्द्रिक)
कृष्णाभ्रं भेकवपुर्वज्राख्यं चैकपत्रकं कृत्वा ।
काष्ठमयोदूखलके चूर्णं मुशलेन कुर्वीत ॥१६१॥
भूयो दृषदि च पिष्टं वासः सूक्ष्मावकाशतलगलितम् ।
मण्डूकपर्णिकायाःप्रचुररसे स्थापयेत्त्रिदिनम् ॥१६२॥
उद्धृत्य तद्रसादथ पिंष्याद्धैमन्तिकधान्यभक्तस्य ।
अक्षोदात्यन्ताम्लस्वच्छजलेन प्रयत्नेन ॥१६३॥
मण्डूकपर्णिकायाः पूर्वरसेनैव मर्दनं कुर्यात् ।
स्थालीपाकं पुटनं चाद्यैरपि भृङ्गराजाद्यैः ॥१६४॥
अर्कादिपत्रमध्ये कृत्वा पिण्डं निधाय भस्त्राग्नौ ।
तावद्दहेन्न यावन्नीलोऽग्निर्दृश्यते सुचिरम् ॥१६५॥
निर्वापयेच्च दुग्धे दुग्धं प्रक्षाल्य वारिणा तदनु ।
पिष्ट्वा घृष्ट्वा गाल्य वस्त्रे चूर्णं निश्चन्द्रकं कुर्यात् ॥१६६॥

(सिद्धलौहसेवन)
नानाविधरुक्शान्त्यै पुष्ट्यै कान्त्यै शिवं समभ्यर्च्य ।
सुविशुद्धेऽहनि पुण्ये तदमृतमादाय लौहाख्यम् ॥१६७॥
दशकृष्णलपरिमाणं शक्तिवयोभेदमाकलय्य पुनः ।
इदमधिकं तदधिकतरं इयदेव न मातृमोदकवत् ॥१६८॥
सममसृणामलपात्रे लौहे लौहेन मर्दयेच्च पुनः ।
दत्त्वा मध्वनुरूपं तदनु घृतं योजयेदधिकम् ॥१६९॥
बन्धं गृह्णाति यथा मध्वपृथक्त्वेन पङ्कमविशिंषत् ।
इदमिह दृष्टोपकरणमेतददृष्टं तु मन्त्रेण ॥१७०॥
स्वाहान्तेन विमर्दो भवति फडन्तेन लौहबलरक्षा ।
सनमस्कारेण बलिर्भक्षणमयसो हूमन्तेण ॥१७१॥
ओं अमृतोद्भवाय स्वाहा ओं अमृते हूं फट् ।
ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये सुरगुरुविद्यामहाबलाय स्वाहा ।
ओं अमृते हूम् ।
जग्ध्वा तदमृतसारं नीरं वा क्षीरमेवानुपिबेत् ।
कान्तक्रामकममलं संचर्व्य रसं पिबेद्गिलेन्न तु तत् ॥१७२॥
आचम्य च ताम्बूलं लाभे घनसारसहितमुपयोज्यम् ॥१७३॥
नात्युपविष्टो नाप्यतिभाषी नातिस्थितस्तिष्ठेत् ॥१७४॥
अत्यन्तवातशीतातपयानस्नानवेगरोधादीन् ।
जह्याच्च दिवानिद्रासहितं चाकालभुक्तं च ॥१७५॥
वातकृतः पित्तकृतः सर्वान्कट्वम्लतिक्तकषायान् ।
तत्क्षणविनाशहेतून्मैथुनकोपश्रमान्दूरे ॥१७६॥
अशितं तदयः पश्चात्पततु न वा पाटवं छडु प्रथताम् ।
आर्तिर्भवतु नवान्त्रे कूजति भोक्तव्यमव्याजम् ॥१७७॥
प्रथमं पीत्वा दुग्धं शाल्यन्नं विशदसिद्धं अक्लिन्नम् ।
घृतसंप्लुतं अश्नीयान्मांसैर्वैहङ्गमैः प्रायः ॥१७८॥
उत्तममूषरभूचरविष्किरमांसं तथाजं ऐणादि ।
अन्यदपि जलचराणां पृथुरोमापेक्षया ज्यायः ॥१७९॥
मांसालाभे मत्स्या अदोषलाः स्थूलसद्गुणा ग्राह्याः ।
मद्गुररोहितशकुला दग्धाः पललान्मनाङ्न्यूनाः ॥१८०॥
शृङ्गाटकफलकशेरुकदलीफलतालनारिकेलादि ।
अन्यदपि यच्च वृष्यं मधुरं पनसादिकं ज्यायः ॥१८१॥
केबुकतालकरीरान्वार्ताकुपटोलफलदलसमेतान् ।
मुद्गमसूरेक्षुरसान्शंसन्ति निरामिषेष्वेतान् ॥१८२॥
शाकं प्रहेयमखिलं स्तोकं रुचये तु वास्तुकं दद्यात् ।
विहितनिषिद्धादन्यन्मध्यमकोटिस्थितं विद्यात् ॥१८३॥
तप्तदुग्धानुपानं प्रायः सारयति बद्धकोष्ठस्य ।
अनुपीतमम्बु यद्वा कोमलशस्यस्य नारिकेलस्य ॥१८४॥
यस्य न तथापि सरति सयवक्षारं जलं पिबेत्कोष्णम् ।
कोष्णं त्रिफलाक्वाथं क्षारसनाथं ततोऽप्यधिकम् ॥१८५॥
त्रीणि दिनानि समं स्यादह्नि चतुर्थे तु वर्धयेत्क्रमशः ।
यावत्तदष्टमाषं न वर्धयेत्पुनरितोऽप्यधिकम् ॥१८६॥
आदौ रक्तिद्वितयं द्वितीयवृद्धौ तु रक्तिकात्रितयम् ।
रक्तीपञ्चकपञ्चकं अत ऊर्ध्वं वर्धयेन्नियतम् ॥१८७॥
वात्सरिककल्पपक्षे दिनानि यावन्ति वर्धितं प्रथमम् ।
तावन्ति वर्षशेषे प्रतिलोमं ह्रासयेत्तदयः ॥१८८॥
तेष्वष्टमाषकेषु प्रातर्माषत्रयं समश्नीयात् ।
सायं च तावदह्णो मध्ये माषद्वयं शेषम् ॥१८९॥
एवं तदमृतमश्नन्कान्तिं लभते चिरस्थिरं देहम् ।
सप्ताहत्रयमात्रात्सर्वरुजो हन्ति किं बहुना ॥१९०॥
आर्याभिरिह नवत्या सप्तविधिभिर्यथावदाख्यातम् ।
अमतिविपर्ययसंशयशून्यं अनुष्ठानं उन्नीतम् ॥१९१॥
मुनिरचितशास्त्रपारं गत्वा सारं ततः समुद्धृत्य ।
निबबन्ध बान्धवानामुपकृतये कोऽपि षट्कर्मा ॥१९२॥

(ताम्रयोग)
कन्यातोये ताम्रपत्रं सुतप्तं कृत्वा वारान्विंशतिं प्रक्षिपेत्तत् ।
शुद्धं गन्धं तद्द्विभागं विमर्द्य निम्बूतोयैस्ताम्रपत्राणि लिप्त्वा ॥१९३॥
भाण्डे कृत्वा रोधयित्वा तु भाण्डं शालाग्नौ तं निक्षिपेत्पञ्चरात्रम् ।
शीतं जातं भावयेदुक्ततोयैर्यद्वा नीरैस्त्रैफलैरेकघस्रम् ॥१९४॥
मध्वाज्याभ्यां पेषयित्वा पुटेत्तच्छुद्धं सिद्धं जायते देहसिद्ध्यै ।
गुञ्जामात्रं शाल्मलीनीरयुक्तं मध्वाज्याभ्यां सेवयेद्वत्सरार्धम् ॥१९५॥
दुग्धं खण्डं वानुपानं विदध्यात्साज्यं भोज्यं गौड्यं अम्लेन युक्तम् ।
वीर्यं पुष्टिं दीपनं देहदार्ढ्यं दिव्यां दृष्टिं दीर्घमायुः करोति ॥१९६॥

(ताम्रयोग (२))
रसतस्ताम्रं द्विगुणं ताम्रात्कृष्णाभ्रकं तथा द्विगुणम् ।
पृथगेवैषां शुद्धिस्ताम्रे शुद्धिस्ततो द्विविधा ॥१९७॥
पत्त्रीकृतस्य गन्धकयोगाद्वा मारणं तथा लवणैः ।
आक्ते ध्मापितताम्रे निर्गुण्डीकल्ककाञ्जिके मग्ने ॥१९८॥
यद्भवति गैरिकाभं तत्पिष्टं अर्धगन्धकं तदनु ।
पुटपाकेन विशुद्धं शुद्धं स्यादभ्रकं तु पुनः ॥१९९॥
हिलमोचिमूलपिण्डे क्षिप्तं तदनु मार्दसम्पुटे लिप्ते ।
तीक्ष्णं दग्धं पिष्टं अम्लाम्भसा साधु चन्द्रिकाविरहितम् ॥२००॥
रेचितताम्रेण रसः खल्वशिलायां घृष्टः पिण्डिका कार्या ।
उत्स्वेद्य गृहसलिलेन निर्गुण्डीकल्केऽसकृच्छुद्धौ ॥२०१॥
एतत्सिद्धं त्रितयं चूर्णितताम्रार्धिकैः पृथग्युक्तम् ।
पिप्पलीविडङ्गमरिचैः श्लक्ष्णं द्वित्रिमाषकं भक्ष्यम् ॥२०२॥
शूलाम्लपित्तश्वयथुग्रहणीयक्ष्मादिकुक्षिरोगेषु ।
रसायनं महदेतत्परिहारो नियमतो नात्र ॥२०३॥

(लक्ष्मीविलासरसः)
पलं कृष्णाभ्रचूर्णस्य तदर्धौ रसगन्धकौ ।
कर्पूरस्य तदर्द्धं तु जातीकोषफले तथा ॥२०४॥
वृद्धदारकबीजं च बीजमुन्मत्तकस्य च ।
त्रैलोक्यविजयाबीजं विदारीकन्दं एव च ॥२०५॥
नारायणी तथा नागबला चातिबला तथा ।
बीजं गोक्षुरकस्यापि हैज्जलं बीजमेव च ॥२०६॥
एतेषां कार्षिकं चूर्णं गृहीत्वा वारिणा पुनः ।
निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ॥२०७॥
निहन्ति सन्निपातोत्थान्गदान्घोरान्सुदारुणान् ।
वातोत्थान्पैत्तिकांश्चापि नास्त्यत्र नियमः क्वचित् ॥२०८॥
कुष्ठमष्टादशविधं प्रमेहान्विंशतिं तथा ।
नाडीव्रणं व्रणं घोरं गुदामयभगन्दरम् ॥२०९॥
श्लीपदं कफवातोत्थं चिरजं कुलसम्भवम् ।
गलशोथमन्त्रवृद्धिमतिसारं सुदारुणम् ॥२१०॥
कासपीनसयक्ष्मार्शः स्थौल्यं दौर्बल्यमेव च ।
आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ॥२११॥
उदरं कर्णनासाक्षिमुखवैजात्यमेव च ।
सर्वशूलं शिरःशूलं स्त्रीणां गदनिषूदनम् ॥२१२॥
वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ।
अनुपानमिदं प्रोक्तं मांसं पिष्टं पयो दधि ॥२१३॥
वारितक्रसुरासीधुसेवनात्कामरूपधृक् ।
वृद्धोऽपि तरुणस्पर्धी न च शुक्रस्य संक्षयः ॥२१४॥
न च लिङ्गस्य शैथिल्यं न केशा यान्ति पक्वताम् ।
नित्यं शतस्त्रियो गच्छेन्मत्तवारणविक्रमः ॥२१५॥
द्विलक्षयोजनी दृष्टिर्जायते पौष्टिकः परः ।
प्रोक्तः प्रयोगराजोऽयं नारदेन महात्मना ॥२१६॥
रसो लक्ष्मीविलासस्तु वासुदेवो जगद्गुरौ ।
अभ्यासाद्यस्य भगवान्लक्षनारीषु वल्लभः ॥२१७॥

हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदुमृत्स्नाच्छं यन्मलं तच्छिलाजतु ॥२१८॥

(शिलाजतुः)
अनम्लं चाकषायं च कटुपाकि शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः ।
हेम्नोऽथ रजतात्ताम्राद्वरात्कृष्णायसादपि ॥२१९॥

(शिलाजतुः)
मधुरश्च सतिक्तश्च जपापुष्पनिभश्च यः ।
कटुर्विपाके शीतश्च स सुवर्णस्य निस्रवः ॥२२०॥

(शिलाजतुः)
रूप्यस्य कटुकः श्वेतः शीतः स्वादुर्विपच्यते ।

(शिलाजतुः)
ताम्रस्य बर्हिकण्ठाभस्तिक्तोष्णः पच्यते कटुः ॥२२१॥

(शिलाजतुः)
यस्तु गुग्गुलुकाभासस्तिक्तको लवणान्वितः ।
कटुर्विपाके शीतश्च सर्वश्रेष्ठः स चायसः ॥२२२॥
गोमूत्रगन्धयः सर्वे सर्वकर्मसु यौगिकाः ।
रसायनप्रयोगेषु पश्चिमस्तु विशिष्यते ॥२२३॥
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु ।
विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ॥२२४॥

(शिलाजतुः परीक्षा)
लौहकिट्टायते वह्नौ विधूमं दह्यतेऽम्भसि ।
तृणात्यग्रे कृतं श्रेष्ठमधो गलति तन्तुवत् ॥२२५॥

(शिलाजतुः शोधन)
मलिनं यद्भवेत्तच्च क्षालयेत्केवलाम्भसा ।
लौहपात्रेषु विधिना ऊर्ध्वीभूतं च संहरेत् ॥२२६॥
वातपित्तकफघ्नैस्तु निर्यूहैस्तत्सुभावितम् ।
वीर्योत्कर्षं परं याति सर्वैरेकैकशोऽपि वा ॥२२७॥
प्रक्षिप्योद्धृतमावानं पुनस्तत्प्रक्षिपेद्रसे ।
कोष्णे सप्ताहमेतेन विधिना तस्य भावनाम् ॥२२८॥

(शिलाजतुः)
तुल्यं गिरिजेन जले चतुर्गुणे भावनौषधं क्वाथ्यम् ।
ततः क्वाथे च पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ।
तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः ॥२२९॥

(शिलाजतुः)
पूर्वोक्तेन विधानेन लौहैश्चूर्णीकृतैः सह ।
तत्पीतं पयसा दद्याद्दीर्घमायुः सुखान्वितम् ॥२३०॥
जराव्याधिप्रशमनं देहदार्ढ्यकरं परम् ।
मेधास्मृतिकरं धन्यं क्षीराशी तत्प्रयोजयेत् ॥२३१॥
प्रयोगः सप्तसप्ताहास्त्रयश्चैकश्च सप्तकः ।
निर्दिष्टस्त्रिविधस्तस्य परो मध्योऽवरस्तथा ॥२३२॥

(शिलाजतुः)
मात्रा पलं त्वर्द्धपलं स्यात्कर्षं तु कनीयसी ॥२३३॥

(शिलाजतुः)
शिलाजतुप्रयोगेषु विदाहीनि गुरूणि च ।
वर्जयेत्सर्वकालं च कुलत्थान्परिवर्जयेत् ॥२३४॥
पयांसि शुक्तानि रसाः सयूषास्तोयं समूत्रं विविधाः कषायाः ।
आलोडनार्थं गिरिजस्य शस्तास्ते ते प्रयोज्याः प्रसमीक्ष्य कार्यम् ॥२३५॥

(कामेश्वरमोदक)
सम्यङ्मारितमभ्रकं कटुफलं कुष्ठाश्वगन्धामृता मेथी मोचरसो विदारिमुशली गोक्षूरकं चेक्षुरम् ।
रम्भाकन्दशतावरी ह्यजमोदा माषास्तिला धान्यकं यष्टी नागबला बला मधुरिका जातीफलं सैन्धवम् ॥२३६॥
भार्ङ्गीकर्कटशृङ्गिका त्रिकटुकं जीरद्वयं चित्रकं चातुर्जातपुनर्नवे गजकणा द्राक्षा शठी वासकम् ।
शाल्मल्यङ्घ्रिफलत्रिकं कपिभवं बीजं समं चूर्णयेत्चूर्णांशा विजया सिता द्विगुणिता मध्वाज्यमिश्रं तु तत् ॥२३७॥
कर्षार्द्धा गुडिकाथ कर्षमथवा सेव्या सतां सर्वदा पेया क्षीरसितानुवीर्यकरणे स्तम्भेऽप्ययं कामिनाम् ।
वामावश्यकरः सुखातिसुखदः प्रौढाङ्गनाद्रावकः क्षीणे पुष्टिकरः क्षयक्षयकरो नानामयध्वंसकः ॥२३८॥
कासश्वासमहातिसारशमनो मन्दाग्निसन्दीपनः दुर्नामग्रहणीप्रमेहनिवहश्लेष्मास्रपित्तप्रणुत् ।
नित्यानन्दकरो विशेषकवितावाचां विलासोद्भवं धत्ते सर्वगुणं महास्थिरवयो ध्यानावधानेऽप्यलम् ॥२३९॥
अभ्यासेन निहन्ति मृत्युपलितं कामेश्वरो वत्सरात्सर्वेषां हितकारिणा निगदितः श्रीनित्यनाथेन सः ।
वृद्धानां अपि कामवर्धनकरः प्रौढाङ्गनासङ्गमे सिद्धोऽयं मम दृष्टिप्रत्ययकरो भूपैः सदा सेव्यताम् ॥२४०॥

(चूर्णरत्न)
वृष्यगणचूर्णतुल्यं तत्पुटपक्वं घनं सिता द्विगुणम् ।
वृष्यात्परमतिवृष्यं रसायनं चूर्णरत्नमिदम् ॥२४१॥

(शृङ्गाराभ्ररसः)
शुद्धं कृष्णाभ्रचूर्णं द्विपलपरिमितं शाणमानं यदन्यत् ।
कर्पूरं जातिकोषं सजलमिभकणा तेजपत्रं लवङ्गम् ॥२४२॥
मांसी तालीशचोचे गजकुसुमगदं धातकी चेति तुल्यम् ।
पथ्या धात्री विभीतं त्रिकटुरथ पृथक्त्वर्द्धशाणं द्विशाणम् ॥२४३॥
एलाजातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं कोलार्द्धं पारदस्य प्रतिपदविहितं पिष्टमेकत्र मिश्रम् ।
पानीयेनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश्चतस्रस्तदनु च हि कियच्छृङ्गवेरं सपर्णम् ॥२४४॥
पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान्विकारान्कोष्ठे दुष्टाग्निजातान्ज्वरमुदररुजो राजयक्ष्मं क्षयं च ।
कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान्छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम् ॥२४५॥
पाण्डुत्वं रक्तपित्तं गरलभवगदान्पीनसं प्लीहरोगं हन्यादामानिलोत्थान्कफपवनकृतान्पित्तरोगानशेषान् ।
बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः पथ्यं मांसैश्च यूषैर्घृतपरिलुलितैर्गव्यदुग्धैश्च भूयः ॥२४६॥
भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेण कामी युवतिजनशतां भोगयोगादतुष्टः ।
वर्ज्यं शाकाम्लमादौ दिनकतिपयचित्स्वेच्छया भोज्यमन्यद्दीर्घायुः काममूर्तिर्गतवलिपलितो मानवोऽस्य प्रसादात् ॥२४७॥

(जयावटी)
विषं त्रिकटुकं मुस्तं हरिद्रा निम्बपत्रकम् ।
विडङ्गमष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी कार्या स्याज्जया योगवाहिका ॥२४८॥

(त्रिनेत्ररसः)
आदौ गन्धहतं शुल्वं पश्चात्तुल्याहिपारदम् ।
त्रिनेत्रो हविषा पिष्टः शीतवीर्योऽर्द्धगन्धकः ॥२४९॥
उष्णश्चेत्तुल्यगन्धेन कुर्यात्संमर्द्य पर्पटीम् ।
देहसिद्धिकरो ह्येष सर्वरोगनिकृन्तनः ॥२५०॥

(सिद्धयोगेश्वररसः)
शुद्धं सूतं द्विधा गन्धं खल्वे घृष्ट्वा तु कज्जलीम् ।
तयोः समं कान्तलौहमभावे तस्य तीक्ष्णकम् ॥२५१॥
मेलितं देवदेवेशि मर्दितं कन्यकाद्रवैः ।
यामद्वयं ततः पश्चात्तद्गोलं ताम्रसम्पुटे ॥२५२॥
आच्छाद्यैरण्डपत्रैस्तु धान्यराशौ निधापयेत् ।
त्रिदिनान्ते समुद्धृत्य पिष्टं वारितरं भवेत् ॥२५३॥
कुमारी भृङ्गकोरण्टौ काकमाची पुनर्नवा ।
नीली मुण्डी च निर्गुण्डी सहदेवी शतावरी ॥२५४॥
अम्लपर्णी गोक्षुरकः कच्छूमूलं वटाङ्कुराः ।
एतेषां भावयेद्द्रावैः सप्तवारान्पृथक्पृथक् ॥२५५॥
त्र्यूषणत्रिफलासोमराजीनां च कषायकैः ।
शुष्केऽस्मिंस्तोलितं चूर्णं सममेकादशाभिधम् ॥२५६॥
वराव्योषाग्निविश्वैला जातीफललवङ्गकम् ।
संयोज्य मधुनालोड्य विमर्द्येदं भजेत्सदा ॥२५७॥
रात्रौ पिबेद्गवां क्षीरं कृष्णानां च विशेषतः ।
संवत्सराज्जरामृत्युरोगजालं निवारयेत् ॥२५८॥
वीर्यवृद्धिकरं श्रेष्ठं रामाशतसुखप्रदम् ।
तावन्न च्यवते वीर्यं यावदम्लं न सेवते ॥२५९॥
दीपनं कान्तिदं पुष्टितुष्टिकृत्सेविनां सदा ।
सुगुप्तः कथितः सूतः सिद्धयोगेश्वराभिधः ॥२६०॥

(पलितघ्नचूर्णम्)
त्रिफला लोहजं चूर्णं रक्तचित्रकजा जटा ।
च्युतक्षुद्राम्रकं बीजं पालाशं क्षुद्रदुग्धिका ॥२६१॥
एतदष्टकमादाय पृथक्पञ्चपलोन्मितम् ।
मिश्रयित्वा पलाशस्य सर्वाङ्गरसभावितम् ॥२६२॥
महाकालजबीजानां भागत्रयमथाहरेत् ।
भागं कृष्णतिलस्यैकं मिश्रयित्वा निपीडयेत् ॥२६३॥
तेन तैलेन तच्चूर्णं पिण्डीकार्यं विमर्दनात् ।
स्निग्धे भाण्डे तदाधाय शरावेण निरोधयेत् ॥२६४॥
लिप्त्वा तदाशु धान्ये च पललौघे निधापयेत् ।
मासमात्रात्समाहृत्य पूजयित्वा शिवं शिवम् ॥२६५॥
तोलैकं भक्षयेत्प्रातस्तोलैकं भोजनोपरि ।
एवं मासत्रयाभ्यासात्पलितं हन्त्यसंशयम् ।
वर्षैकेन जरां हत्वा मृत्युं जयति मानवः ॥२६६॥

(कामिनीमदनिधूननरसः)
कज्जलीकृतसुगन्धकशम्भोस्तुल्यभागकनकस्य बीजम् ।
मर्दयेत्कनकतैलयुतं स्यात्कामिनीमदविधूनन एषः ॥२६७॥
अस्य वल्लयुगलं ससितं चेत्सेवितं हरति मेहगणौघम् ।
वीर्यदार्ढ्यकरणं कमनीयं द्रावणं निधुवने वनितानाम् ॥२६८॥

(चतुर्मुखरसः)
रसगन्धकलौहाभ्रं समं सूताङ्घ्रि हेम च ।
सर्वं खल्वतले क्षिप्त्वा कन्यास्वरसमर्दितम् ॥२६९॥
त्रिफलातुलसीब्राह्मीरसैश्चानु विमर्दयेत् ।
एरण्डपत्रैरावेष्ट्य धान्यराशौ दिनत्रयम् ॥२७०॥
संस्थाप्य च तदुद्धृत्य त्रिफलामधुसंयुतम् ।
एतद्रसायनवरं सर्वरोगेषु योजयेत् ॥२७१॥
तद्यथाग्निबलं खादेद्वलीपलितनाशनम् ।
पौष्टिकं बल्यमायुष्यं पुत्रप्रसवकारकम् ॥२७२॥
क्षयमेकादशविधं कासं पञ्चविधं तथा ।
कुष्ठमष्टादशविधं पाण्डुरोगान्प्रमेहकान् ॥२७३॥
शूलं श्वासं च हिक्कां च मन्दाग्निं चाम्लपित्तकम् ।
व्रणान्सर्वानामवातं विसर्पं विद्रधिं तथा ॥२७४॥
अपस्मारं महोन्मादं सर्वार्शांसि त्वगामयान् ।
क्रमेण शीलितं हन्ति वृक्षमिन्द्राशनिर्यथा ।
चतुर्मुखेन देवेन कृष्णात्रेयाय सूचितम् ॥२७५॥

(गन्धलौह)
गन्धं लौहं भस्म मध्वाज्ययुक्तं सेव्यं वर्षं वारिणा त्रैफलेन ।
शुक्ले केशे कालिमा दिव्यदृष्टिः पुष्टिवीर्यं जायते दीर्घमायुः ॥२७६॥

(सिद्धलक्ष्मीश्वररसः)
अष्टांशहेम्नि हरजे शिखिमूषिकायां संजार्य षड्गुणबलिं क्रमशोऽधिकं च ।
ऊर्ध्वं पयोऽग्निं अधरे विनिधाय धीराः सिद्धीः समग्रमतुलाः स्वकरे कुरुध्वम् ॥२७७॥

(वह्निसिद्धरसः)
लौहं गन्धं टङ्कणं भ्रामयित्वा सार्धस्तस्मिन्सूतकोऽन्यश्च गन्धः ।
कन्याम्भोभिर्मर्दितः काचकूप्यां क्षिप्तो वह्णौ सिद्धये वह्णिसिद्धः ॥२७८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP