TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अध्यायः १
हे भस्माङ्गविरक्तिरूपगुणदं तं प्रेरणादं शिवं गङ्गाभूषितशेखरं स्मरहरं शक्तिस्वरूपं प्रभो ।
त्वामीशं करुणार्णवं शरणदं विद्यानिधिं निर्गुणं भूतेशं गिरिजापतिं शशिधरं माङ्गल्यदेवं नमः ।
नमामि देवं सुरवृन्दपूजितं गणाधिपं विघ्नविनाशकारकम् ।
स्मरन्ति ये नित्यं उदारचेतसः कष्टानि ते नानुभवन्ति सत्यम् ।
सिद्धिनन्दनमिश्रेण शुद्धां च सारगर्भिताम् ।
रसेन्द्रचिन्तामणेश्च टीकां कुर्वे शिवाज्ञया ।
इदानीं कालनाथशिष्यः श्रीढुण्ढुकनाथाह्वयो रसेन्द्रचिन्तामणिग्रन्थं आरभमाणस्तन्मूलदेवते श्रीमदम्बिकामहेश्वरौ सकलजगदुत्पत्तिस्थितिप्रलयनिदानं विशेषसिद्धान्तगर्भवाचा वरीवस्यति ॥१॥
अर्थप्रकाशकासारविमर्शाम्बुजिनीमयम् ।
सच्चिदानन्दविभवं शिवयोर्वपुराश्रये ॥२॥
लघीयः परिमाणतया निखिलरसज्ञानदायित्वाच्चिन्तामणिरिव चिन्तामणिः ॥३॥
अश्रौषं बहुविदुषां मुखादपश्यं शास्त्रेषु स्थितं अकृतं न तल्लिखामि ।
यत्कर्म व्यरचयमग्रतो गुरूणां प्रौढानां तदिह वदामि वीतशङ्कः ॥४॥
अध्यापयन्ति यद्दर्शयितुं क्षमन्ते सूतेन्द्रकर्म गुरवो गुरवस्त एव ।
शिष्यास्त एव रचयन्ति गुरोःपुरो ये शेषाः पुनस्तदुभयाभिनयं भजन्ते ॥५॥
संस्काराः परतन्त्रेषु ये गूढाः सिद्धिसूचिताः ।
तानेव प्रकटीकर्तुं उद्यमं किल कुर्महे ॥६॥
ग्रन्थादस्मादाहरन्ति प्रयोगान्स्वीयं वास्मिन्नाम ये निक्षिपन्ति ।
गोत्राण्येषां अस्मदीयश्रमोष्मा भस्मीकुर्वन्नायुगं बोभवीतु ॥७॥
संस्काराः शिवजनुषो बहुप्रकारास्तुल्या ये लघुबहुलप्रयासंसाध्याः ।
यद्येकं सुकरं उदाहरामि तेषां व्याहारैः किमिहफलं ततः परेषाम् ॥८॥
इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात्तदभावश्चिकीर्षितव्यो भवति सुखमपि निरुपाधिप्रेमास्पदतया गवेषणीयं तदेतत्पुरुषार्थद्वयम् ।
अभावस्यान्यत्वात् ॥९॥
किंच स्रक्चन्दनवनितादिविषयाणां सत्यपि तत्कारणत्वे नान्तरीयकदुःखसम्भेदादनर्थपरम्परापरिचितत्वान्मूर्खाणां कोशाण्डकवदाभासमानत्वादनैकान्तिकत्वाद्विरोधिनां युगपददृश्यमानत्वादत्यन्तताविरहितत्वाच्च परिहरणीयत्वम् ॥१०॥
एकान्तात्यन्ततश्च पुनस्ते ह्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव सम्भवन्ति ।
ज्ञानयोगः पवनयोगो रसयोगश्चेति ॥११॥
ननु कथमेषां तुल्यतेत्यपेक्षायां ब्रूमः मोक्षोपाये बृहद्वासिष्ठादौ भुशुण्डोपाख्याने वसिष्ठवाक्यम् ।
असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः ।
द्वौ प्रकारौ ततो देवो जगाद परमः शिवः ।
प्राणानां वा निरोधेन वासनानोदनेन वा ।
नो चेत्संविदं उच्छाणां करोषि तदयोगवान् ।
द्वावेव हि समौ राम ज्ञानयोगाविमौ स्मृतौ ॥१२॥
तत्राद्ययोः केवलं पक्वकषायाणामपि कथञ्चन साध्यत्वाच्चरमे तु पुनर्भोगलोलुपानां अप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति ॥१३॥
किंच अस्य भगवन्निर्यासतया सेवकानां स्वसम्भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तः पृषताः प्रसङ्गाल्लिख्यन्ते ॥१४॥
अचिराज्जायते देवि शरीरमजरामरम् ।
मनसश्च समाधानं रसयोगादवाप्यते ॥१५॥
सत्त्वं च लभते देवि विज्ञानं ज्ञानपूर्वकम् ।
सत्यं मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥१६॥
यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् ।
तावत्तस्य कुतः शुद्धिर्जायते मृतसूतके ॥१७॥
यावन्न हरबीजं तु भक्षयेत्पारदं रसम् ।
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥१८॥
स्वदेहे खेचरत्वं वै शिवत्वं येन लभ्यते ।
तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥१९॥
त्वं माता सर्वभूतानां पिता चाहं सनातनः ।
द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥२०॥
दर्शनात्स्पर्शनात्तस्य भक्षणात्मरणात्प्रिये ।
पूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् ॥२१॥
केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् ।
तानि दृष्ट्वा च यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥२२॥
चन्दनागुरुकर्पूरकुङ्कुमान्तर्गतो रसः ।
मूर्छितः शिवपूजा सा शिवसांनिध्यसिद्धये ॥२३॥
भक्षणात्परमेशानि हन्ति तापत्रयं रसः ।
दुर्लभं ब्रह्मविष्ण्वाद्यैः प्राप्यते परमं पदम् ॥२४॥
हृत्पद्मकर्णिकान्तःस्थं रसेन्द्रं परमेश्वरि ।
स्मरन्विमुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥२५॥
स्वयम्भूलिङ्गसाहस्रैर्यत्फलं सम्यगर्चनात् ।
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥२६॥
रोगिभ्यो यो रसं दत्ते शुद्धिपाकसमन्वितम् ।
तुलादानाश्वमेधानां फलं प्राप्नोति शाश्वतम् ॥२७॥
रसविद्या परा विद्या त्रैलोक्येऽपि च दुर्लभा ।
भुक्तिमुक्तिकरी यस्मात्तस्माज्ज्ञेया गुणान्विता ॥२८॥
ब्रह्मज्ञानेन सोऽयुक्तो यः पापी रसनिन्दकः ।
नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥२९॥
आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः ।
यावज्जन्मसहस्राणि स भवेत्पापपीडितः ॥३०॥
हेमजीर्णो भस्मसूतो रुद्रत्वं भक्षितो दिशेत् ।
विष्णुत्वं तारजीर्णस्तु ब्रह्मत्वं भास्करेण तु ॥३१॥
तीक्ष्णजीर्णो धनेशत्वं सूर्यत्वं चापि तालके ।
राजरे तु शशाङ्कत्वममरत्वं च रोहणे ॥३२॥
सामान्येन तु तीक्ष्णेन नरः शक्रत्वमाप्नुयात् ॥३३॥
दोषहीनो रसो ब्रह्मा मूर्छितस्तु जनार्दनः ।
मारितो रुद्ररूपी स्याद्बद्धः साक्षात्सदाशिवः ॥३४॥
ईदृशस्य गुणानां पर्यवसानमम्बुजसम्भवोऽपि महाकल्पैरपि वचोभिर्नासादयितुमलमित्यलं बहुना ॥३५॥
यद्यन्मयाक्रियत कारयितुं च शक्यं सूतेन्द्रकर्म तदिह प्रथयांबभूवे ।
अध्यापयन्ति य इदं नतु कारयन्ति कुर्वन्ति नेदमधियन्त्युभये मृषार्थाः ॥३६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:30.0670000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

nematocide

  • सूत्रकृमिनाशक 
RANDOM WORD

Did you know?

I'm not able to locate this Mahakurma PuraNa vAkhya
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site