अथ मूर्च्छनाध्यायं व्याचक्ष्महे ॥१॥

अव्यभिचरितव्याधिघातकत्वं मूर्च्छना ॥२॥
तत्तत्तन्त्रनिगदितदेवतापरिचरणस्मरणानन्तरं तत्तच्छोधनप्रक्रियाभिर्बह्वीभिः परिशुद्धानां रसेन्द्राणां तृणारणिमणिजन्यवह्णिन्यायेन तारतम्यं अवलोकमानैः सूक्ष्ममतिभिः पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य चेति रसार्णववचनाद्व्यावहारिकतोलकद्वयपरिमाणेनापि परिशुद्धो रसो मूर्छयितव्यः ॥३॥
मूर्च्छनाप्रकारस्तु बहुविधः ॥४॥

रसगुणबलिजारणं विनायं न खलु रुजाहरणक्षमो रसेन्द्रः ।
न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रसिद्धिः ॥५॥
(वालुकायन्त्र)
तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते ॥६॥
यथा निरवधिनिष्पीडितमृदम्बरादिपरिलिप्तां अतिकठिनकाचघटीं अग्रे वक्ष्यमाणप्रकारां रसगर्भिणीं अधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायां अनुरूपस्थालिकायां आरोप्य परितस्तां द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिरा गलं आपूर्य वर्धमानकं आपूरणीयं क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पाचनीयं इत्येकं यन्त्रम् ॥७॥

(वालुकायन्त्र)
हस्तैकमात्रप्रमाणवसुधान्तर्निखातां प्राग्वत्काचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषीभाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्यन्यद्यन्त्रम् ॥८॥

(जारणः)
असमशकलद्वयात्मकलोहसम्पुटकेन सिकतायन्त्रमध्ये भूधरे वेति त्रिलोचनः ॥९॥

(जारण)
कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः इत्यन्ये ॥१०॥

(जारणः)
अत्र पक्षे रागस्तथा न स्यात्तेनादौ पञ्चगुणान्जारयित्वा शेषैकः कूपिकादौ जारणीयस्तदा रागः साधुः स्यात् ॥११॥
अत्र कज्जलिं अन्तरेण केवलगन्धकमपि सात्म्येन जारयन्ति ॥१२॥

(जारणः सिन्दूर)
कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं विज्ञाय ज्वलनक्रमेण सिकतायन्त्रे शनैः पाचयेत् ।
वारंवारमनेन वह्णिविधिना गन्धक्षयं साधयेत्सिन्दूरद्युतितोऽनुभूय भणितः कर्मक्रमोऽयं मया ॥१३॥

(रससिन्दूरः)
आरोटकं अन्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि रससिन्दूरः संपाद्यः ॥१४॥

(पिष्टी कज्जली (?))
त्रिगुणं इह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् ।
रसगुणबलिभिर्विधाय पिष्टिं रचय निरन्तरम्बुभिः कुमार्याः ॥१५॥
आ षड्गुणं अधरोत्तरसमादिबलिजारणेन योज्येयम् ।
योगे पिष्टिः पाच्या कज्जलिकार्थं जारणार्थं च ॥१६॥
प्रकारोऽयं अधोयन्त्रेणैव सिध्यति न पुनरूर्ध्वयन्त्रेण ॥१७॥

काचमृत्तिकयोः कूपी हेम्नोऽयस्तारयोः क्वचित् ।

कीलालायःकृतो लेपः खटिकालवणाधिकः ॥१८॥
अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वाद्यपि जारयन्ति ।
यथेच्छमच्छैः सुमनोविचारैर्विचक्षणाः पल्लवयन्तु भूयः ॥१९॥

अन्तर्धूमविपाचितशतगुणगन्धेन रञ्जितः सूतः ।
स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च ॥२०॥

सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटितेऽल्पभाण्डे ।
तैलाविशेषेऽत्र रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः ॥२१॥
आ षड्गुणं गन्धकं अल्पं अल्पं क्षिपेदसौ जीर्णबलिर्बली स्यात् ।
रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन ॥२२॥
नागादिशुल्वादिभिरत्र पिष्टिं वादेषु योगेषु च निक्षिपन्ति ॥२३॥

स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि गुग्गुलुः ।
सैन्धवं द्विगुणं मर्द्यं निगडोऽयं महोत्तमः ॥२४॥

मारकाम्बुसितसैन्धवमिश्रः कूपिकोदरगतः सिकतायाम् ।
पाचितो यदि मुहुर्मुहुरित्थं बन्धमृच्छति तदैष रसेन्द्रः ॥२५॥
स्थाल्यां दृढघटितायां अर्धं परिपूर्य तूर्यलवणांशैः ।
रक्तेष्टिकारजोभिस्तदुपरि सूतस्य तुर्यांशम् ॥२६॥
सितसैन्धवं निधाय स्फटिकारीं तत्समां च तस्योर्ध्वे ।
स्फटिकारिधवलसैन्धवशुद्धरसैः कन्यकाम्बुपरिघृष्टैः ॥२७॥
कृत्वा पर्पटमुचितं तदुपर्याधाय तद्वदेव पुनः ।
स्फटिकारिसैन्धवरसौ दद्यादितः स्खलतो रसस्य ॥२८॥
लाभाय तदुपरि खर्परखण्डकान्धृत्वापरया दृढस्थाल्या ।
आच्छाद्य मुद्रयित्वा दिवसत्रितयं पचेद्विधिना ॥२९॥
अत्रानुक्तमपि भल्लातकं ददति वृद्धाः पारदतुल्यम् ॥३०॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP