TransLiteral Foundation

अध्यायः ६
अथातः सर्वलोहाध्यायं व्याचक्ष्महे ॥१॥
रसीभवन्ति लोहानि मृतानि सुरवन्दिते ।
विनिघ्नन्ति जराव्याधीन्रसयुक्तानि किं पुनः ॥२॥

स्वर्णतारारताम्रायःपत्राण्यग्नौ प्रतापयेत् ।
निषिञ्चेत्तप्ततैलानि तैले तक्रे गवां जले ॥३॥
काञ्जिके च कुलत्थानां कषाये सप्तधा पृथक् ।
एवं स्वर्णादिलोहानां विशुद्धिः सम्प्रजायते ॥४॥

तप्तानि सर्वलोहानि कदलीमूलवारिणि ।
सप्तधाभिनिषिक्तानि शुद्धिं आयान्त्यनुत्तमाम् ॥५॥

नागवङ्गौ प्रतप्तौ च गालितौ तौ निषेचयेत् ।
सप्तधैव विशुद्धिः स्याद्रविदुग्धे च सप्तधा ॥६॥

वर्णवृत्तिकया लिप्त्वा सप्तधा ध्मापितं वसु ।
विशुध्यति वरं किंचिद्वर्षवृद्धिश्च जायते ॥७॥

वल्मीकमृत्तिका धूमं गैरिकं चेष्टका पटुः ।
इत्येता मृत्तिकाः पञ्च जम्बीरैरारनालकैः ॥८॥
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति ।

नागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति ।
रजतं दोषनिर्मुक्तं किं वा क्षाराम्लपाचितम् ॥९॥

स्नुह्यर्कक्षीरलवणकाञ्जिकैस्ताम्रपत्रकम् ।
लिप्त्वा प्रताप्य निर्गुण्डीरसे सिञ्चेत्पुनः पुनः ।
वारान्द्वादश तच्छुध्येल्लेपात्तापाच्च सेचनात् ॥१०॥

गोमूत्रेण पचेद्यामं ताम्रपत्रं दृढाग्निना ।
साम्लक्षारेण संशुद्धिं ताम्रमाप्नोति सर्वथा ॥११॥

राजरीतिं तथा घोषं ताम्रवच्छोधयेद्भिषक् ।
ताम्रवन्मारयेच्चापि ताम्रवच्च तयोर्गुणाः ॥१२॥

(ब्रोन्ज़े, ब्रस्स्, लेअद्, तिनःः शोधन)
घोषारनागवङ्गानि निषेकैर्मुनितुल्यकैः ।
निर्गुण्डीरसमध्ये तु शुध्यन्ते नात्र संशयः ॥१३॥

त्रिफलाष्टगुणे तोये त्रिफलाषोडशं पलम् ।
तत्क्वाथे पादशेषे तु लोहस्य पलपञ्चकम् ॥१४॥
कृत्वा पत्राणि तप्तानि सप्तवारान्निषेचयेत् ।
एवं प्रलीयते दोषो गिरिजो लोहसम्भवः ॥१५॥

तत्तद्व्याध्युपयुक्तानां औषधानां जलेऽयसः ।
प्रक्षेपं प्राह तत्त्वज्ञः सिद्धो नागार्जुनस्ततः ॥१६॥

सर्वाभावे निषेक्तव्यं क्षीरतैलाज्यगोजले ।
शुद्धस्य शोधनं ह्येतद्गुणाधिक्याय संमतम् ॥१७॥

खसत्त्वं लौहवच्छोध्यं ताम्रवत्ताप्यसत्त्वकम् ।
रसकालशिलातुत्थसत्त्वं क्षाराम्लपाचनैः ।
दिनैकेनैव शुध्यन्ति भूनागाद्यास्तथाविधैः ॥१८॥
सिद्धलक्ष्मीश्वरप्रोक्तप्रक्रियाकुशलो भिषक् ।
लोहानां सरसं भस्म सर्वोत्कृष्टं प्रकल्पयेत् ॥१९॥

शिलागन्धार्कदुग्धाक्ताः स्वर्णाद्याः सप्तधातवः ।
म्रियन्ते द्वादशपुटैः सत्यं गुरुवचो यथा ॥२०॥

रसमिश्राश्चतुर्यामं स्वर्णाद्याः सप्तधातवः ।
म्रियन्ते सिकतायन्त्रे गन्धकैरमृताधिकाः ॥२१॥
गन्धैरेकद्वित्रिवारान्पच्यन्ते फलदर्शनात् ।
षड्गुणादिश्च गन्धोऽत्र गुणाधिक्याय जार्यते ॥२२॥

समसूतेन वै पिष्टिं कृत्वाग्नौ नाशयेद्रसम् ।
स्वर्णं तत्समताप्येन पुटितं भस्म जायते ॥२३॥

हेमपत्राणि सूक्ष्माणि जम्भाम्भो नागभस्मतः ।
लेपतः पुटयोगेन त्रिवारं भस्मतां नयेत् ।
पुनः पुटे त्रिवारं तन्म्लेच्छतो नागहानये ॥२४॥

शुद्धसूतसमं स्वर्णं खल्वे कृत्वा तु गोलकम् ।
ऊर्ध्वाधो गन्धकं दत्त्वा सर्वतुल्यं निरुध्य च ॥२५॥
त्रिंशद्वनोपलैर्देयाः पुटाश्चैवं चतुर्दश ।
निरुत्थं जायते भस्म गन्धो देयः पुनः पुनः ॥२६॥

स्वर्णं आवृत्य तोलैकं माषैकं शुद्धगन्धकम् ।
क्षिप्त्वा चाम्लेन संचूर्ण्य तत्तुल्यौ गन्धमाक्षिकौ ॥२७॥
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत् ।
गन्धः पुनः पुनर्देयो म्रियते दशभिः पुटैः ॥२८॥

विधाय पिष्टिं सूतेन रजतस्याथ मेलयेत् ।
तालं गन्धं समं पश्चान्मर्दयेन्निम्बुकद्रवैः ।
द्वित्रिपुटैर्भवेद्भस्म योज्यमेवं रसादिषु ॥२९॥
सूतेन समेनेत्यर्थः ।
अत्र सूतरक्षार्थं गन्धः पुनरधिको देयः ॥३०॥

गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ।
कण्टवेध्यं ताम्रपत्रं अन्धयित्वा पुटे पचेत् ॥३१॥
उद्धृत्य चूर्णयेत्तस्मिन्पादांशं गन्धकं क्षिपेत् ।
पाच्यं जम्भाम्भसा पिष्टं समो गन्धश्चतुःपुटे ॥३२॥
मातुलुङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत् ।
सितशर्कराप्येवं पुटदाने मृतिर्भवेत् ॥३३॥

ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् ।
मर्दयेद्यामयुग्मं तु यावत्कज्जलिका भवेत् ॥३४॥
तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् ।
संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥३५॥
निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् ।
सन्धिरोधं द्वयोः कुर्यादम्बुभस्म विलेपनम् ॥३६॥
हण्डिकां पटुनापूर्य भस्मना वा गलावधि ।
पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद्दृढम् ।
चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ॥३७॥
न रसेन विना लौहं न रसं चाभ्रकं विना ।
एकत्वेन शरीरस्य बन्धो भवति देहिनः ॥३८॥
चपलेन विना लौहं यः करोति पुमानिह ।
उदरे तस्य किट्टानि जायन्ते नात्र संशयः ॥३९॥
वस्तुतस्तु प्राशस्त्याय रसयोगो रसाभ्रयोगश्च ।
अनयोर्मात्रा युक्त्यनुसारिणी ततो म्रियत इति शेषः ॥४०॥

अम्लपिष्टं मृतं ताम्रं शरणस्थं लिपेन्मृदा ।
पचेत्पञ्चामृतैर्वापि त्रिधावान्त्यादिशान्तये ॥४१॥
सूरणपक्षे बृहत्पुटप्रदानम् ।

जम्भाम्भसा सैन्धवसंयुतेन सगन्धकं स्थापय शुल्वपत्रम् ।
पङ्कायमानं पुटयेत्सुयुक्त्या वान्त्यादिकं यावदुपैति शान्तिम् ॥४२॥

मृतोत्थशुद्धं संतप्तं ताम्रचक्रं बलिस्थितम् ।
मृतं स्यात्तत्र सूतेन्द्रं दद्याद्दोषानुसारतः ॥४३॥

रसगन्धकयोः कृत्वा कञ्जलीं अर्धमानयोः ।
वारा लिम्पेत्कण्टवेध्यं म्रियते ताम्रमातपे ॥४४॥

आर्कं भस्म स्थालिकायां निधाय ज्वालां दत्त्वा नाशयेत्तत्र गन्धम् ।
आवर्त्यैतन्मारयेत्सप्तवारानित्थं शुल्बं जायते हेमतुल्यम् ॥४५॥

शशिहाटकहेलिदलं रसबलितमेकमर्दितं बलिना ।
इष्टरसपिष्टमतः कृतपर्पटं अर्पयेत्तदनु ॥४६॥

(माक्षिकःः सत्त्वःः मारण)
माक्षीकरसकादीनां सत्त्वं हन्याच्च ताम्रवत् ॥४७॥

वङ्गं खर्परके कृत्वा चुल्ल्यां संस्थापयेत्सुधीः ।
द्रवीभूते पुनस्तस्मिन्चूर्णान्येतानि दापयेत् ॥४८॥
प्रथमे रजनीचूर्णं द्वितीये च यवानिकाम् ।
तृतीये जीवकं चैव ततश्चिञ्चात्वगुद्भवम् ॥४९॥
अश्वत्थवल्कलोत्थं च चूर्णं तत्र विनिक्षिपेत् ।
एवं विधानतो वङ्गो म्रियते नात्र संशयः ॥५०॥

नागं खर्परके निधाय कुनटीचूर्णं ददीत द्रुते निम्बूत्थद्रवगन्धकेन पुटितं भस्मीभवत्याशु तत् ।
एवं तालकवापतस्तु कुटिलं चूर्णीकृतं तत्पुटेद्गन्धाम्लेन समस्तदोषरहितं योगेषु योज्यं भवेत् ॥५१॥

भूभुजङ्गमगस्तिं च पिष्ट्वा पात्रं प्रलेपयेत् ।
तत्र सविद्रुते नागे वासापामार्गसम्भवम् ॥५२॥
क्षारं विमिश्रयेत्तत्र चतुर्थांशं गुरूक्तितः ।
प्रहरं पाचयेच्चुल्ल्यां वासादर्व्या विघट्टयन् ॥५३॥
तत उद्धृत्य तच्चूर्णं वासानीरैर्विमर्दयेत् ।
पुटेत्पुनः समुद्धृत्य तद्द्रवेण विमर्दयेत् ।
एवं सप्तपुटैर्नागः सिन्दूरो जायते ध्रुवम् ॥५४॥

लौहं पत्रसतीवतप्तं असकृत्क्वाथे क्षिपेत्त्रैफले चूर्णीभूतं अतः पुनस्त्रिफलजे क्वाथे पचेद्गोजले ।
मत्स्याक्षीत्रिफला एतेन पुटयेद्यावन्निरुत्थं भवेत्पश्चादाज्यमधुप्लुतं सुपुटितं सिद्धं भवेदायसम् ॥५५॥
अत्र मत्स्याक्षी मछेछी ।
प्रकृतत्रिचतुःपुटे मनःशिलां किंचिद्दद्यात् ॥५६॥

परिप्लुतं दाडिमपत्रवारा लौहं रजः स्वल्पकटोरिकायाम् ।
म्रियेत वस्त्रावृतमर्कभासा योज्यं पुटैः स्यात्त्रिफलादिकानाम् ॥५७॥
पुटबाहुल्यं गुणाधिक्याय शतादिपुटपक्षे मुद्गनिभं कृत्वा पुटान्दद्याद्वस्त्रपूतं च न कुर्यात् ।
त्रिफलादिरमृतसारलौहे वक्ष्यते ॥५८॥

सूतकाद्द्विगुणं गन्धं दत्त्वा कृत्वा च कज्जलीम् ।
द्वयोः समं लोहचूर्णं मर्दयेत्कन्यकाद्रवैः ॥५९॥
यामयुग्मं ततः पिण्डं कृत्वा ताम्रस्य पात्रके ।
घर्मे धृत्वोरुवूकस्य पत्रैराच्छादयेद्बुधः ॥६०॥
यामार्धेनोष्णता भूयाद्धान्यराशौ न्यसेत्ततः ।
दत्त्वोपरि शरावं तु त्रिदिनान्ते समुद्धरेत् ॥६१॥
पिष्ट्वा च गालयेद्वस्त्रादेवं वारितरं भवेत् ।
एवं सर्वाणि लोहानि स्वर्णादीन्यपि मारयेत् ॥६२॥

सर्वमेतन्मृतं लौहं ध्मातव्यं मित्रपञ्चकैः ।
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हि तत् ॥६३॥

(मित्रपञ्चक)
मधुसर्पिस्तथा गुञ्जा टङ्कणं गुग्गुलुस्तथा ।
मित्रपञ्चकमेतत्तु गणितं धातुमेलने ॥६४॥

मध्वाज्यं मृतलौहं च सरूप्यं सम्पुटे क्षिपेत् ।
रुद्ध्वा ध्माते च संग्राह्यं रूप्यं वै पूर्वमानकम् ।
तदा लौहं मृतं विद्यादन्यथा मारयेत्पुनः ॥६५॥

गन्धकेनोत्थितं लौहं तुल्यं खल्वे विमर्दयेत् ।
दिनैकं कन्यकाद्रावैः रुद्ध्वा गजपुटे पचेत् ।
इत्येवं सर्वलौहानां कर्तव्येयं निरुत्थितिः ॥६६॥
यववृद्ध्या प्रयोक्तव्यं हेम गुञ्जाष्टकं रविः ।
तारं तद्द्विगुणं लौहमन्यत्तु त्रिगुणाधिकम् ॥६७॥

शतोर्ध्वं उत्तमं किट्टं मध्यं चाशीतिवार्षिकम् ।
अधमं षष्टिवर्षीयं ततो हीनविषोपमम् ॥६८॥

अक्षाङ्गारैर्धमेत्किट्टं लोहजं तद्गवां जलैः ।
सेचयेत्तप्ततप्तं च सप्तवारं पुनः पुनः ॥६९॥
चूर्णयित्वा ततः क्वाथैर्द्विगुणैस्त्रिफलोद्भवैः ।
आलोड्य भर्जयेद्वह्नौ मण्डूरं जायते वरम् ॥७०॥

(स्वर्ण, रूप्य)
आयुर्लक्ष्मीप्रभाधीस्मृतिकरमखिलव्याधिविध्वंसि पुण्यम् ।
भूतावेशप्रशान्तिस्मरभवसुखदं सौख्यपुष्टिप्रकाशि ।
गाङ्गेयं चाथ रूप्यं गदहं अजराकारि मेहापहारि ।
क्षीणानां पुष्टिकारि स्फुटं अतिकरणं कारणं वीर्यवृद्धेः ॥७१॥

मधुरं कटुकं पाके सुवर्णं वीर्यशीतलम् ।
सर्वदोषप्रशमनं विषघ्नं गरनाशनम् ॥७२॥
अलक्ष्मीकलिपापानां प्रयोगस्तस्य नाशनः ।
आयुर्मेधास्मृतिकरः पुष्टिकान्तिविवर्धनः ॥७३॥
सर्वौषधिप्रयोगैर्ये व्याधयो न विनिर्जिताः ।
कर्मभिः पञ्चभिश्चापि सुवर्णं तेषु योजयेत् ॥७४॥
शिलाजतुप्रयोगैश्च ताप्यसूतकयोस्तथा ।
अन्यै रसायनैश्चापि प्रयोगो हेम्न उत्तमः ॥७५॥
ताप्यसूतकयोरित्यत्र सामान्यसंस्कृतसूतको ज्ञेयः ।
विशेषसंस्कृतसूतकस्य तु व्योमगामित्वादिप्रदत्वात् ॥७६॥
मध्वामलकचूर्णं तु सुवर्णं चेति तत्त्रयम् ।
प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् ॥७७॥
मेधाकामस्तु वचया श्रीकामः पद्मकेशरैः ।
शङ्खपुष्प्या वयोऽर्थी च विदार्या च प्रजार्थकः ॥७८॥

गुल्मपाण्डुपरिणामशूलहृल्लेखनं कृमिहरं विशोधनम् ।
प्लीहकुष्ठजठरामशूलजिच्छ्लेष्मवातहरणं रविनाम ॥७९॥

(पित्तल, कांस्य)
रीतिका श्लेष्मपित्तघ्नी कांस्यमुष्णं च लेखनम् ॥८०॥

वङ्गो दाहहरः पाण्डुजन्तुमेहविनाशनः ॥८१॥

दशनागबलं धत्ते वीर्यायुःकान्तिवर्धनः ।
रोगान्हन्ति मृतो नागः सेव्यो रङ्गोऽपि तद्गुणः ॥८२॥
तृष्णामशोथशूलार्शःकुष्ठपाण्डुत्वमेहजित् ।
वयस्यो गुरुचक्षुष्यः सरो मेदोऽनिलापहः ।
तारस्य रञ्जको नागो वातपित्तकफापहः ॥८३॥

आयुःप्रदाता बलवीर्यकर्ता रोगापहर्ता कदनस्य कर्ता ।
अयःसमानं नहि किंचिदस्ति रसायनं श्रेष्ठतमं नराणाम् ॥८४॥

सामान्याद्द्विगुणं क्रौञ्चं कलिङ्गोऽष्टगुणस्ततः ।
कलेर्दशगुणं भद्रं भद्राद्वज्रं सहस्रधा ॥८५॥
वज्राच्छतगुणं पाण्डिर्निरङ्गं दशभिर्गुणैः ।
तस्मात्सहस्रगुणितं अयः कान्तं महाबलम् ॥८६॥
यल्लोहं यद्गुणं प्रोक्तं तत्किट्टं चापि तद्गुणम् ॥८७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:36.3800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

personal recognisance

  • पु. Law जातमुचलका 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site