अथ विषोपरससाधनाध्यायं व्याचक्ष्महे ॥१॥
विषं हि नाम निखिलरसायनानां ऊर्जस्वलं अखिलव्याधिविध्वंसविधायकतां आसादयति ॥२॥
तत्खल्वष्टादशप्रकारं भवति ।
यत्र सक्तुकमुस्तककौर्मदार्वीकसार्षपसैकतवत्सनाभश्वेतशृङ्गिभेदानि प्रयोगार्थं आहरणीयानि भवन्ति ॥३॥

(सक्तुक)
चित्रमुत्पलकन्दाभं सुपिष्टं सक्तुवद्भवेत् ।
सक्तुकं तद्विजानीयाद्दीर्घवेगं महोल्बणम् ॥४॥

(मुस्तक)
ह्रस्ववेगं च रोगघ्नं मुस्तकं मुस्तकाकृति ।

(कौर्म, दार्वीक)
कूर्माकृति भवेत्कौर्मं दार्वीकोऽहिफणाकृति ॥५॥

(सार्षप)
ज्वरहृत्सार्षपं रोमसर्षपामकणाचितम् ।
स्थूलसूक्ष्मैः कणैर्युक्तः श्वेतपीतैर्विरोमकः ॥६॥

(सैकत)
ज्वरादिसर्वरोगघ्नः कन्दः सैकतमुच्यते ॥७॥

(वत्सनाभ)
यः कन्दो गोस्तनाकारो न दीर्घः पञ्चमाङ्गुलात् ।
न स्थूलो गोस्तनादूर्ध्वं द्विविधो वत्सनाभकः ॥८॥
आशुकारी लघुस्त्यागी शुक्लकृष्णोऽन्यथा भवेत् ।
प्रयोज्यो रोगहरणे जारणायां रसायने ॥९॥

(श्वेतशृङ्गी)
गोशृङ्गवद्द्विधा शृङ्गी श्वेतः स्याद्बहिरन्तरे ॥१०॥
एतानि सक्तुकाद्यानि वातादौ रक्तमेलनेनोन्मादसन्निपातादौ च प्रयोज्यानि ॥११॥
कालकूटमेषशृङ्गीदर्दुरहालाहलकर्कोटग्रन्थिहारिद्ररक्तशृङ्गीकेशरयमदंष्ट्राप्रभेदेन दशविषाणि परिवर्जनीयानि ॥१२॥

(कालकूट)
वृत्तकन्दो भवेत्कृष्णो जम्बीरफलवच्च यः ।
तं कालकूटं जानीयात्घ्राणमात्रान्मृतिप्रदम् ॥१३॥

(मेषशृङ्गी)
मेषशृङ्गाकृतिः कन्दो मेषशृङ्गीति कीर्त्यते ।

(दर्दुर)
दर्दुराकृतिकः कन्दो दर्दुरः कथितस्तु सः ॥१४॥

(हलाहल)
अन्तर्नीलं बहिः श्वेतं विजानीयाद्धलाहलम् ।

(कर्कोट)
कर्कोटाभं तु कर्कोटं खरं बाह्येऽन्तरे मृदु ॥१५॥

(हारिद्र)
हरिद्राग्रन्थिवद्ग्रन्थिः कृष्णवर्णोऽतिभीषणः ।
मूलाग्रयोः सुवृत्तः स्यादायतः पीतगर्भकः ।
कञ्चुकाढ्यः स्निग्धपर्वा हारिद्रः स्याच्च कन्दकः ॥१६॥

(रक्तशृङ्गी)
गोशृङ्गाग्रेऽथ संक्षिप्ते नाशयासृक्प्रवर्तते ।
कन्दो लघुर्गोस्तनवद्रक्तशृङ्गीति तद्विषम् ॥१७॥

(केसर)
शुक्लाभं यत्केशरं स्याद्गर्भे तत्केशरं विदुः ।

(यमदंष्ट्रा)
श्वदंष्ट्रारूपसंस्थाना यमदंष्ट्रेति सोच्यते ॥१८॥
रसवादे धातुवादे विषवादे क्वचित्क्वचित् ।
दशैतानि प्रयुज्यन्ते न भैषज्ये रसायने ॥१९॥
उद्धरेत्फलपाके तु नवं स्निग्धं घनं गुरु ।
अव्याहतं विषहरैर्वातादिभिरशोषितम् ॥२०॥
(पोइसोनःः शोधन)
विषभागान्चणकवत्स्थूलान्कृत्वा तु भाजने ।
तत्र गोमूत्रकं क्षिप्त्वा प्रत्यहं नित्यनूतनम् ॥२१॥
शोषयेत्त्रिदिनादूर्ध्वं धृत्वा तीव्रातपे ततः ।
प्रयोगेषु प्रयुञ्जीत भागमानेन तद्विषम् ॥२२॥

रक्तसर्षपतैलेन लिप्ते वाससि धारयेत् ।
विषं शुद्धं प्रयत्नेन नान्यत्र गुणहानितः ॥२३॥

समटङ्कणसम्पिष्टं तद्विषं मृतमुच्यते ।
योजयेत्सर्वरोगेषु न विकारं करोति तत् ॥२४॥

श्वेतो रक्तश्च पीतश्च कृष्णश्चेति चतुर्विधः ।
ब्राह्मणः क्षत्रियो वैश्यः क्रमाज्ज्ञेयश्च शूद्रकः ॥२५॥
सर्वरोगहरो विप्रः क्षत्रियो रसवादकृत् ।
वैश्योऽपि रोगहर्ता स्याच्छूद्रः सर्वत्र निन्दितः ॥२६॥
ब्राह्मणो दीयते रोगे क्षत्रियो विषभक्षणे ।
वैश्यो व्याधिषु सर्वेषु सर्पदंष्ट्रे च शूद्रकः ॥२७॥
शरद्ग्रीष्मवसन्तेषु वर्षासु न तु दापयेत् ।
चतुर्मासे हरेद्रोगान्कुष्ठलूतादिकानपि ॥२८॥

यवाष्टकं भवेद्यावदभ्यस्तं तिलमात्रया ।
सर्वरोगोपशमनं दृष्टिपुष्टिकरं भवेत् ॥२९॥
प्रथमे सार्षपी मात्रा द्वितीये सर्षपद्वयम् ।
तृतीये च चतुर्थे च पञ्चमे दिवसे तथा ॥३०॥
षष्ठे च सप्तमे चैव क्रमवृद्ध्या विवर्धयेत् ।
सप्तसर्षपमात्रेण प्रथमं सप्तकं नयेत् ॥३१॥

क्रमहान्या तथा देयं द्वितीये सप्तके विषम् ।
यवमात्रं विषं देयं तृतीये सप्तके क्रमात् ॥३२॥
वृद्धहान्या च दातव्यं चतुर्थे सप्तके तथा ।
यवमात्रं ग्रसेत्स्वस्थो गुञ्जामात्रं तु कुष्ठवान् ॥३३॥
अशीतिर्यस्य वर्षाणि वसुवर्षाणि यस्य वा ।
विषं तस्मै न दातव्यं दत्तं वै दोषकारकम् ॥३४॥
दातव्यं सर्वरोगेषु घृताशिनि हिताशिनि ।
क्षीराशिनि प्रयोक्तव्यं रसायनरते नरे ॥३५॥
ब्रह्मचर्यप्रधानं हि विषकल्पे समाचरेत् ।
पथ्यैः सुस्थमना भूत्वा तदा सिद्धिर्न संशयः ॥३६॥

मात्राधिकं यदा मर्त्यः प्रमादाद्भक्षयेद्विषम् ।
अष्टौ वेगास्तदा चैव जायन्ते तस्य देहिनः ॥३७॥
संतापः प्रथमे वेगे द्वितीये वेपथुर्भवेत् ।
वेगे तृतीये दाहः स्याच्चतुर्थे पतनं भुवि ॥३८॥
फेनं तु पञ्चमे वेगे षष्ठे विकलता भवेत् ।
जडता सप्तमे वेगे मरणं चाष्टमे भवेत् ॥३९॥

विषवेगानिति ज्ञात्वा मन्त्रतन्त्रैर्विनाशयेत् ॥४०॥
अतिमात्रं यदा भुक्तं वमनं कारयेत्तदा ॥४१॥
तावद्दद्यादजादुग्धं यावद्वान्तिर्न जायते ।
अजादुग्धं यदा कोष्ठे स्थिरीभवति देहिनः ।
विषवेगं तदोत्तीर्णं जानीयात्कुशलो भिषक् ॥४२॥
विषं हन्याद्रसः पीतो रजनीमेघनादयोः ।
सर्पाक्षी टङ्कणं वापि घृतेन विषहृत्परम् ॥४३॥
पुत्रजीवकमज्जा वा पीतो निम्बुकवारिणा ।
विषवेगं निहन्त्येव वृष्टिर्दावानलं यथा ॥४४॥
न क्रोधिते न पित्तार्ते न क्लीबे राजयक्ष्मणि ।
क्षुत्तृष्णाश्रमघर्माध्वसेविनि क्षयरोगिणि ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे ॥४५॥
न दातव्यं न भोक्तव्यं विषं वादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम् ॥४६॥

कालकूटो वत्सनाभः शृङ्गिकश्च प्रदीपनः ।
हालाहलो ब्रह्मपुत्रो हारिद्रः सक्तुकस्तथा ।
सौराष्ट्रिकः इति प्रोक्ता विषभेदा अमी नव ॥४७॥

(उपविष)
अर्कसेहुण्डधुस्तूरलाङ्गलीकरवीरकाः ।
गुञ्जाहिफेनावित्येताः सप्तोपविषजातयः ॥४८॥

एतैर्विमर्दितः सूतश्छिन्नपक्षः प्रजायते ।
मुखं च जायते तस्य धातूंश्च ग्रसतेतराम् ॥४९॥

श्वेतरक्तपीतकृष्णा द्विजाद्या वज्रजातयः ।
स्त्रीपुंनपुंसकात्मानो लक्षणेन तु लक्षयेत् ॥५०॥

(वज्रः पुंवज्र)
वृत्ताः फलकसम्पूर्णास्तेजोवन्तो बृहत्तराः ।
पुरुषास्ते समाख्याता रेखाबिन्दुविवर्जिताः ॥५१॥

(वज्रःः स्त्रीवज्र)
रेखाबिन्दुसमायुक्ताः षट्कोणास्ते स्त्रियो मताः ॥५२॥

(वज्रः नपुंसक)
त्रिकोणाः पत्तला दीर्घा विज्ञेयास्ते नपुंसकाः ॥५३॥

(वज्रः)
सर्वेषां पुरुषाः श्रेष्ठा वेधका रसबन्धकाः ।
स्त्रीवज्रं देहसिद्ध्यर्थं क्रामणे स्यान्नपुंसकम् ॥५४॥
विप्रो रसायने प्रोक्तः क्षत्रियो रोगनाशने ।
वादे वैश्यं विजानीयाद्वयःस्तम्भे तुरीयकम् ॥५५॥
स्त्री तु स्त्रीणां प्रदातव्या क्लीबे क्लीबं तथैव च ।
सर्वेषां सर्वदा योज्याः पुरुषा बलवत्तराः ॥५६॥

(वज्रः शोधन)
व्याघ्रीकन्दोदरे क्षिप्त्वा सप्तधा पुटितः पविः ।
हयमूत्रस्य निर्वापाच्छुद्धः प्रतिपुटं भवेत् ॥५७॥

(वज्रः मारणम्)
त्रिवर्षनागवल्ल्याश्च कार्पास्या वाथ मूलिकाम् ।
पिष्ट्वा तन्मध्यगं वज्रं कृत्वा मूषां निरोधयेत् ।
मुनिसंख्यैर्गजपुटैर्म्रियते ह्यविचारितम् ॥५८॥

(वज्रः मारण)
मण्डूकं कांस्यजे पात्रे निगृह्य स्थापयेत्सुधीः ।
स भीतो मूत्रयेत्तत्र तन्मूत्रे वज्रमावपेत् ।
तप्तं तप्तं च बहुधा वज्रस्यैवं मृतिर्भवेत् ॥५९॥

(वज्रः मारण)
हिङ्गुसैन्धवसंयुक्ते क्वाथे कौलत्थके क्षिपेत् ।
तप्तं तप्तं पुनर्वज्रं भवेद्भस्म त्रिसप्तधा ॥६०॥

(वज्रः भस्मनः)
रसे यत्र भवेद्वज्रं रसः सोऽमृतमुच्यते ।
भस्मीभावगतं युक्त्या वज्रवत्कुरुते तनुम् ॥६१॥

(वैक्रान्तः शोधन)
वैक्रान्तं वज्रवच्छोध्यं नीलं श्वेतं च लोहितम् ।

(वैक्रान्तः)
वज्रलक्षणसंयुक्तं दाहघातासहिष्णु तत् ॥६२॥

(वैक्रान्तः मारण)
हयमूत्रेण तत्सिञ्चेत्तप्तं तप्तं त्रिसप्तधा ।
पञ्चाङ्गोत्तरवारुण्या लिप्तं मूषागतं पुटैः ॥६३॥
कुञ्जराख्यैर्मृतिं याति वैक्रान्तं सप्तभिस्तथा ।

(वैक्रान्तः)
भस्मीभूतं तु वैक्रान्तं वज्रस्थाने नियोजयेत् ॥६४॥

(नवरत्नानि)
पुंवज्रं गरुडोद्गारं माणिक्यं वासवोपलम् ।
वैदूर्यपुष्पे गोमेदं मौक्तिकं च प्रवालकम् ।
एतानि नवरत्नानि सदृशानि सुधारसैः ॥६५॥

स्वेदयेद्दोलिकायन्त्रे जयन्त्या स्वरसेन च ।
मणिमुक्ताप्रवालानां यामैके शोधनं भवेत् ॥६६॥

शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा ॥६७॥
पुष्यरागं च संधानैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥६८॥
रोचनाभिश्च गोमेदं वैदूर्यं त्रिफलाजलैः ।

मुक्तादिष्वविशुद्धेषु न दोषः स्याच्च शास्त्रतः ।
तथापि गुणवृद्धिः स्याच्छोधनेन विशेषतः ॥६९॥

(धातु, उपरसः शोधन)
अम्लक्षारविपाचितं तु सकलं लौहं विशुद्धं भवेन्माक्षीकोऽपि शिलापि तुत्थगगनं तालं च सम्यक्तथा ।
मुक्ताविद्रुमशुक्तिकाथ चपलाः शङ्खा वराटाः शुभा जायन्तेऽमृतसन्निभाः पयसि च क्षिप्तः शुभः स्याद्बलिः ॥७०॥

लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥७१॥

कुमार्या तण्डुलीयेन स्तन्येन च निषेचयेत् ।
प्रत्येकं सप्तवेलं च तप्ततप्तानि कृत्स्नशः ॥७२॥
मौक्तिकानि प्रवालानि तथा रत्नान्यशेषतः ।
क्षणाद्विविधवर्णानि म्रियन्ते नात्र संशयः ॥७३॥

वज्रवत्सर्वरत्नानि शोधयेन्मारयेत्तथा ॥७४॥

(हरितालः शोधन)
तालकं पोट्टलीं बद्ध्वा सचूर्णे काञ्जिके क्षिपेत् ।
दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥७५॥
तिलतैले पचेद्यामं यामं तत्त्रैफले जले ।
दोलायन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥७६॥

(हरितालः शुद्धः)
स शुद्धः कान्तिवीर्ये च कुरुते मृत्युनाशनः ॥७७॥

(हरितालःः सत्त्वःः पातनम्)
लाक्षाराजी तिलाः शिग्रुष्टङ्कणं लवणं गुडम् ।
तालकार्धेन संमिश्र्य छिद्रमूष्यां निरोधयेत् ।
पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चितम् ॥७८॥

(हरिताल सत्त्वः पातन)
जैपालसत्त्ववातारिबीजमिश्रं च तालकम् ।
कूपीस्थं वालुकायन्त्रे सत्त्वं मुञ्चति यामतः ॥७९॥

(इन्दुसुन्दरी)
भृष्टटङ्कणतालस्य लौहपर्पटवेष्टिता ।
गुटिका गुरुमार्गेण ध्माता स्यादिन्दुसुन्दरी ॥८०॥

हिङ्गुलस्य च दारस्य तालकादेश्च बन्धने ।
लौहपत्त्र्या बहिर्लेपो भक्ताङ्गाररसेन च ॥८१॥

(मनःशिलाःः सत्त्वःः पातन)
तालवच्च शिलासत्त्वं ग्राह्यं तैरेव भेषजैः ॥८२॥

(तुत्थःः सत्त्वःः पातन)
तुल्यं टङ्कणकं ग्राह्यं ध्माते सत्त्वं च तुत्थके ॥८३॥

(माक्षिकः सत्त्वः पातन)
ऊर्णा लाक्षा गुडश्चेति पुरटङ्कणकैः सह ।
संमर्द्यं वटिकाः कार्याश्छागीदुग्धेन यत्नतः ।
ध्मातास्ताप्यस्य तीव्राग्नौ सत्त्वं मुञ्चति लोहितम् ॥८४॥

(महारसः सत्त्वः पातन)
एवं तालशिलाधातुर्विमलाखर्परादयः ।
मुञ्चन्ति निजसत्त्वानि धमनात्कोष्ठिकाग्निना ॥८५॥

(कासीसः सत्त्वपातन (?), मृदूकरण (?))
शिलया गन्धकेनापि भर्जितः क्षोदितः खगः ।
मुद्रितस्ताम्रपात्रेण लिप्तः स्याद्ध्मापितो मृदुः ॥८६॥
(माक्षिकः सत्त्वः पातन)
समगन्धं चतुर्यामं पक्त्वा ताप्यं ततः पचेत् ।
अर्धगन्धं यामयुग्मं भृष्टटङ्कार्धसंयुतम् ।
अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति शुल्ववत् ॥८७॥

भ्रामयेद्भस्ममूषायां ताप्यं गन्धकटङ्कणम् ।
गुटी भवति पीताभा वर्णोत्कर्षविधायिनी ॥८८॥

(गुटीः)
ताप्यस्य खण्डकान्सप्त दहेन्नागमृदन्तरे ।
ध्मापिता टङ्कणेनैव गुटीभवति पूर्ववत् ॥८९॥

(भूनागः सत्त्वः पातन)
सद्यो भूनागमादाय चारयेच्छिखिनं बुधः ।
अथवा कुक्कुटं वीरं कृत्वा मन्दिरमागतम् ॥९०॥
मलं मूत्रं गृहीत्वास्य संत्यज्य प्रथमांशिकम् ।
आलोड्य क्षारमध्वाज्यैर्धमेत्सत्त्वार्थं आदरात् ॥९१॥
मुञ्चति ताम्रवत्सत्त्वं तन्मुद्राजलपानतः ।
नश्यति जङ्गमविषं स्थावरं च न संशयः ॥९२॥

(भूनागः सत्त्वः पातन)
क्षीरेण पक्त्वा भूनागांस्तन्मृदा वाथ टङ्कणैः ।
भृष्टैश्चक्रीं विधायाथ पात्यं सत्त्वं प्रयत्नतः ॥९३॥
यत्रोपरसभागोऽस्ति रसे तत्सत्त्वयोजनम् ।
कर्तव्यं तत्फलाधिक्यं रसज्ञत्वं अभीप्सता ॥९४॥

(मनःशिलाः शोधनम्)
जयन्तिकाद्रवे दोलायन्त्रे शुध्येन्मनःशिला ।
दिनमेकमजामूत्रे भृङ्गराजरसेऽपि वा ॥९५॥

(मनःशिलाः शुद्धः)
शिला स्निग्धा कटुस्तिक्ता कफघ्नी लेखनी सरा ॥९६॥

(मनःशिलाः)
कूपिकादौ परीपाकात्स्वर्णस्य कालिमापहा ।

(मनःशिलाः द्रावण)
कटुतैले शिलाचम्पकदल्यन्तः सरत्यपि ॥९७॥

(रसकः शोधनम्)
नरमूत्रे च गोमूत्रे जलाम्ले वा ससैन्धवे ।
सप्ताहं त्रिदिनं वापि पक्वः शुध्यति खर्परः ॥९८॥

(तुत्थः शोधन)
एकः सूतस्तथा पीतिश्चतुर्भेकास्त्रिदारकः ।
बीजपिष्टः पिकज्वालैर्भेको बद्धोऽन्धवेश्मनि ॥९९॥
विष्ठया मर्दयेत्तुत्थं समं ओतोर्दशांशता ।
टङ्कणेन समं पिष्ट्वाथवा लघुपुटे पचेत् ।
तुत्थं शुद्धं भवेत्क्षौद्रे पुटितं वा विशेषतः ॥१००॥

(तुत्थः शुद्धः)
वान्तिर्भ्रान्तिर्यदा न स्तस्तदा शुद्धिं विनिर्दिशेत् ॥१०१॥

(तुत्थः शुद्धः)
लेखनं भेदि च ज्ञेयं तुत्थं कण्डुक्रिमिप्रणुत् ॥१०२॥

(माक्षिकःः शोधन)
अगस्त्यपत्रनिर्यासैः शिग्रुमूलं सुपेषितम् ।
तन्मध्ये पुटितं शुध्येत्ताप्यं त्वम्लेन पाचितम् ॥१०३॥

(माक्षिकः शोधन)
सिन्धूद्भवस्य भागैकं त्रिभागं माक्षिकस्य च ।
मातुलुङ्गरसैर्वापि जम्बीरोत्थद्रवेण वा ॥१०४॥
कृत्वा तदायसे पात्रे लौहदर्व्या च चालयेत् ।
सिन्दूराभं भवेद्यावत्तावन्मृद्वग्निना पचेत् ।
सुशुद्धं माक्षिकं विद्यात्सर्वरोगेषु योजयेत् ॥१०५॥

(माक्षिकः मारण)
माक्षिकस्य चतुर्थांशं गन्धं दत्त्वा विमर्दयेत् ।
उरूवूकस्य तैलेन ततः कुर्यात्सुचक्रिकाम् ॥१०६॥
शरावसंपुटे धृत्वा पुटेद्गजपुटेन च ।
सिन्दूराभं भवेद्भस्म माक्षिकस्य न संशयः ॥१०७॥

(माक्षिकः मृतः)
माक्षिकं तिक्तमधुरं मोहार्शःक्रिमिकुष्ठनुत् ।
कफपित्तहरं बल्यं योगवाहि रसायनम् ॥१०८॥

(विमलः शोधन)
जम्बीरस्य रसे स्वेदो मेषशृङ्गीरसेऽथवा ।
रम्भातोयेन वा पाको घस्रं विमलशुद्धये ॥१०९॥

(कासीसः शोधन)
सकृद्भृङ्गाम्बुना स्विन्नं कासीसं निर्मलं भवेत् ॥११०॥

(कासीसः शुद्धः)
कासीसं शीतलं स्निग्धं श्वित्रनेत्ररुजापहम् ।
पित्तापस्मारशमनं रसवद्गुणकारकम् ॥१११॥

(कान्तः शोधनम्)
लवणानि तथा क्षारौ शोभाञ्जनरसे क्षिपेत् ।
अम्लवर्गयुतेनादौ दिने घर्मे विभावयेत् ॥११२॥
तद्द्रवैर्दोलिकायन्त्रे दिवसं पाचयेत्सुधीः ।
कान्तपाषाणशुद्धौ तु रसकर्म समाचरेत् ॥११३॥

(मोनेय्चोwरिएःः फ्य्स्. प्रोपेर्तिएस्)
पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ।

सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता ॥११४॥

वराटी काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयात् ॥११५॥

परिणामादिशूलघ्नी ग्रहणीक्षयहारिणी ।
कटूष्णा दीपनी वृष्या तिक्ता वातकफापहा ।
रसेन्द्रजारणे प्रोक्ता विडद्रव्येषु शस्यते ॥११६॥

(दरदः शोधनम्)
मेषीक्षीरेण दरदमम्लवर्गेण भावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥११७॥

(दरदःः शुद्धःः मेदिच्. प्रोपेर्तिएस्)
तिक्तोष्णं हिङ्गुलं दिव्यं रसगन्धसमुद्भवम् ।
मेहकुष्ठहरं रुच्यं मेधाग्निवर्धनम् ॥११८॥

)
सौवीरं टङ्कणं शङ्खं कङ्कुष्ठं गैरिकं तथा ।
एते वराटवच्छोध्या भवेयुर्दोषवर्जिताः ॥११९॥

(कासीसः शोधन)
जम्बीरपयसा शुध्येत्कासीसं टङ्कणाद्यपि ॥१२०॥

स्रोतोञ्जनं तु गोमूत्रघृतक्षौद्रवसादिभिः ।
विभावितं च शुद्धं स्याद्रसबन्धकरं परम् ॥१२१॥

(नीलाञ्जनः शोधन)
नीलाञ्जनं चूर्णयित्वा जम्बीरद्रवभावितम् ।
दिनैकमातपे शुद्धं भवेत्कार्येषु योजयेत् ॥१२२॥

सुपक्वभानुपत्राणां रसमादाय धारयेत् ।
समस्तबीजचूर्णं यदुक्तानुक्तं पृथक्पृथक् ।
आतपे मुञ्चते तैलं साध्यासाध्यं न संशयः ॥१२३॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP