TransLiteral Foundation

अध्यायः ३
अथातो बन्धनाध्यायं व्याचक्ष्महे ।
स्वाभाविकद्रवत्वे सति वह्निनानुच्छिद्यमानत्वं मूर्तिबद्धत्वम् ॥१॥
विपिनौषधिपाकसिद्धं एतद्घृततैलाद्यपि दुर्निवारवीर्यम् ।
किमयं पुनरीश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः ॥२॥

(१९ संस्कारस्)
एतत्साधकान्यूनविंशतिकर्माणि भवन्ति ।
मर्दनमूर्छनोत्थापनस्वेदनपातनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुतिबाह्यद्रुतियोगजारणरञ्जनसारणक्रामणवेधनभक्षणानि ॥३॥

सम्पूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ।
योगिनीं क्षेत्रपालांश्च चतुर्धाबलिपूर्वकम् ॥४॥
सूतं रहस्यनिलये सुमुहूर्ते विधोर्बले ।
खल्वे पाषाणजे लोहे सुदृढे सारसम्भवे ॥५॥
तादृशस्वच्छमसृणचतुरङ्गुलमर्दके ।
निक्षिप्य सिद्धमन्त्रेण रक्षितं द्वित्रिसेवकैः ॥६॥
भिषग्विमर्दयेच्चूर्णैर्मिलितैः षोडशांशतः ।
सूतस्य गालितैर्वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥७॥
मर्दयेन्मूर्छयेत्सूतं पुनरुत्थाप्य सप्तशः ।

(दोषः)
रक्तेष्टकानिशाधूमसारोर्णाभस्मतुम्बिकैः ।
जम्बीरद्रवसंयुक्तैर्नागदोषापनुत्तये ॥८॥
विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ।
राजवृक्षस्य मूलस्य चूर्णेन सह कन्यया ॥९॥
मलदोषापनुत्त्यर्थं मर्दनोत्थापने शुभे ।
कृष्णधत्तूरकद्रावैश्चाञ्चल्यविनिवृत्तये ॥१०॥
त्रिफलाकन्यकातोयैर्विषदोषोपशान्तये ।
गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः ॥११॥
चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् ।
एवं संशोधितः सूतः सप्तदोषविवर्जितः ।
जायते कार्यकर्ता च ह्यन्यथा कार्यनाशनः ॥१२॥

(उत्थापन)
उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके ।
धृत्वोर्ध्वभाण्डे संलग्नं संहरेत्पारदं भिषक् ॥१३॥
(स्वेदन)
रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् ।
दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके ।
दोषशेषापनुत्त्यर्थमिदं स्वेदनमुच्यते ॥१४॥

(काञ्जिकः)
नानाधान्यैर्यथाप्राप्तैस्तुषवर्जैर्जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात् ॥१५॥
तन्मध्ये घनवाङ्मुण्डी विष्णुक्रान्तापुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी ॥१६॥
त्रिफला गिरिकर्णी च हंसपादी च चित्रकः ।
समूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत् ॥१७॥
पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ॥१८॥
अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ।

(ऊर्ध्वपातन)
भागास्त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ।
एतत्संमर्दयेत्तावद्यावदायाति पिण्डताम् ॥१९॥
तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ।
कृत्वालवालं केनापि दत्त्वा वार्द्रं हि प्लोतकम् ॥२०॥
संमुद्र्याग्निं अधस्तस्य चतुर्यामं प्रबोधयेत् ।
युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः ॥२१॥
ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ।

(संधिरोधः)
ससूतभाण्डवदनं अन्यद्गिलति भाण्डकम् ।
तथा संधिर्द्वयोः कार्यः पातनात्रययन्त्रके ॥२२॥

यन्त्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्षणैः ।
रसस्य मानानियमात्कथितुं नैव शक्यते ॥२३॥

(अधःपातन)
नवनीताह्वयं सूतं घृष्ट्वा जम्भाम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर्लवणासुरिसंयुतैः ॥२४॥
नष्टपिष्टं रसं ज्ञात्वा लेपयेदूर्ध्वभाण्डके ।
ऊर्ध्वभाण्डोदरं लिप्त्वा त्वधोगं जलसंभृतम् ॥२५॥
संधिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ।
उपरिष्टात्पुटे दत्ते जले पतति पारदः ॥२६॥
अधःपातनं इत्युक्तं सिद्धाद्यैः सूतकर्मणि ।

(तिर्यक्पातन)
घटे रसं विनिक्षिप्य सजलं घटं अन्यकम् ।
तिर्यङ्मुखं द्वयोः कृत्वा तन्मुखं रोधयेत्सुधीः ॥२७॥
रसाधो ज्वालयेदग्निं यावत्सूतो जलं विशेत् ।
तिर्यक्पातनमित्युक्तं सिद्धैर्नागार्जुनादिभिः ॥२८॥

मिश्रितौ चेद्रसे नागवङ्गौ विक्रयहेतुना ।
ताभ्यां स्यात्कृत्रिमो दोषस्तन्मुक्तिः पातनत्रयात् ॥२९॥

(बोधनः)
एवं कपर्दितः सूतः षण्ढत्वं अधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत् ॥३०॥
विश्वामित्रकपाले वा काचकूप्यां अथापि वा ।
सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि ॥३१॥
पूरयेत्त्रिदिनं भूम्यां राजहस्तप्रमाणतः ।
अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति ॥३२॥

लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याम्लजलं किंचित्क्षिप्त्वा शरावेण रोधयेत् ॥३३॥
ऊर्ध्वं लघुपुटं देयं लब्धाश्वासो भवेद्रसः ।

(स्वेदन)
कदर्थनेनैव नपुंसकत्वं एवं भवेदस्य रसस्य पश्चात् ।
वीर्यप्रकर्षाय च भूर्जपत्त्रे स्वेद्यो जले सैन्धवचूर्णगर्भे ॥३४॥

(नियमन)
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संस्वेदितः सूतो नियमात्स्थिरतां व्रजेत् ॥३५॥

(दीपन)
कासीसं पञ्चलवणं राजिकामरिचानि च ।
द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम् ॥३६॥
आलोड्य काञ्जिके दोलायन्त्रे पाकाद्दिनैस्त्रिभिः ।
दीपनं जायते सम्यक्सूतराजस्य जारणे ॥३७॥

(दीपन)
अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तस्य रसराजस्य चोत्तमम् ॥३८॥

(अनुवासन)
दीपितं रसराजस्तु जम्बीररससंयुतम् ।
दिनैकं धारयेद्घर्मे मृत्पात्रे वा शिलोद्भवे ॥३९॥

(जारणः)
जारणा हि नाम पातनगालनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वम् ॥४०॥
किंच घनहेमादिजीर्णस्य कृतक्षेत्रीकरणानां एव शरीरिणां भक्षणेऽधिकार इत्यभिहितम् ॥४१॥

(जारणः)
फलं चास्य स्वयमीश्वरेणोक्तम् ।
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम् ॥४२॥
मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु ।
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते ॥४३॥
मर्दनं वन्दनं चैव ग्रासः पूजा विधीयते ।
यावद्दिनानि वह्निस्थो जारणे धार्यते रसः ॥४४॥
तावद्वर्षसहस्राणि शिवलोके महीयते ।
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ॥४५॥
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ।
अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलं अप्युदारम् ।
क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः ॥४६॥

(जारणः)
तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वकुष्ठहरः परः ॥४७॥
त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः ॥४८॥
गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः ।
अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम् ॥४९॥

(जारण)
गन्धपिष्टिकया तत्र गोलः स्याद्गन्धजारणे ॥५०॥
तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः ॥५१॥
हेम्नि जीर्णे सहस्रैकगुणसंघप्रदायकः ।
वज्रादिजीर्णसूतस्य गुणान्वेत्ति शिवः स्वयम् ॥५२॥
देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् ।
आलिङ्गने समथौ द्वौ प्रियत्वाच्छिवरेतसः ॥५३॥
शिवशक्तिसमायोगात्प्राप्यते परमं पदम् ।
यथा स्याज्जारणा बह्वी तथा स्याद्गुणदो रसः ॥५४॥

वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा ।
विलिप्य गोमयाल्पाग्नौ पुटितं तत्र शोषितम् ॥५५॥
त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादि वज्रसत्त्वादिकं क्षणात् ॥५६॥

मूर्छाध्यायोक्तषड्गुणबलिजीर्णः पिष्टिकोत्थितरसः खल्वेऽत्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्यः प्रकारः ।
एतत्प्रक्रियाद्वयमपि कृत्वा व्यवहरन्त्यन्ये ॥५७॥

सतुत्थटङ्कणस्वर्जिपटुताम्रे त्र्यहोषितम् ।
काञ्जिकं भावितं तेन गन्धाद्यं क्षरति क्षणात् ॥५८॥
विडे सकाञ्जिके क्षिप्तो रसः स्याद्ग्रासलालसः ।
ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम् ॥५९॥

(विडः वडवानल)
शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजद्रावैर्दिनैकं धूमसारकम् ॥६०॥
सौवर्चलमजामूत्रैर्भाव्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्य दिनैकं नरमूत्रकैः ॥६१॥
स्वर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैर्भाव्यं पृथग्यामचतुष्टयम् ॥६२॥
निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् ।
सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा ॥६३॥
एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः ।
तद्गोलं रक्षयेद्यत्नाद्विडोऽयं वडवानलः ॥६४॥
अनेन मर्दितः सूतः संस्थितस्तप्तखल्वके ।
स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात् ॥६५॥

(विडः)
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् ।
वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् ।
शतवारं खरे घर्मे विडोऽयं हेमजारणे ॥६६॥

(विडः)
मूलकार्द्रकचित्राणां क्षारैर्गोमूत्रगालितैः ।
गन्धकः शतशो भाव्यो विडोऽयं जारणे मतः ॥६७॥

(विडः)
वास्तूकैरण्डकदलीदेवदालीपुनर्नवाः ।
वासापलाशनिचुलतिलकाञ्चनमोक्षकाः ॥६८॥
सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले ।
दग्धं काण्डं तिलानां च पञ्चाङ्गं मूलकस्य च ॥६९॥
प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् ।
लोहपात्रे पचेद्यन्त्रे हंसपाकाग्निमानवित् ॥७०॥
बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा ।
तदा कासीससौराष्ट्रीक्षारत्रयकटुत्रयम् ॥७१॥
गन्धकश्च सितो हिङ्गु लवणानि च षट्तथा ।
एषां चूर्णं क्षिपेद्देवि लोहसम्पुटमध्यतः ॥७२॥
सप्ताहं भूगतं पश्चाद्धार्यस्तु प्रचुरो विडः ।
अत्र सकलक्षारैश्च साम्यं तिलकाण्डानां नित्यनाथपादा लिखन्ति ।

(हंसपाकयन्त्र)
खर्परं सिकतापूर्णं कृत्वा तस्योपरि क्षिपेत् ।
तुल्यं च खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥७३॥
पञ्चक्षारैस्तथा मूत्रैर्लवणं च विडं तथा ।
हंसपाकं समाख्यातं यन्त्रं तद्वार्त्तिकोत्तमैः ॥७४॥

(विडः)
गोमूत्रैर्गन्धकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस्तद्वद्दग्धं शङ्खं विभावयेत् ॥७५॥
एतद्गन्धकशङ्खाभ्यां समांशैर्विडसैन्धवैः ।
एतैर्विमर्दितः सूतो ग्रसते सर्वलोहकम् ॥७६॥

(विडः)
भावयेन्निम्बुकक्षारं देवदालीफलद्रवैः ।
एकविंशतिवारं तु विडोऽयं सत्त्वजारणे ॥७७॥
एवं विडान्तराण्यपि ग्रन्थान्तरादनुसर्तव्यानि ॥७८॥

(जारणः परिणाम)
चतुःषष्ट्यंशकं हेमपत्त्रं मायूरमायुना ।
विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् ।
दिनं जम्बीरतोयेन ग्रासे ग्रासे त्वयं विधिः ॥७९॥
शनैः संस्वेदयेद्भूर्जे बद्ध्वा सपटुकाञ्जिके ।
भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत् ॥८०॥
अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि ।
द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत् ॥८१॥
रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः ।
चुल्लिकालवणं गन्धमभावे शिखिपित्ततः ॥८२॥

(तप्तखल्व)
अजाशकृत्तुषाग्निं च खानयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिति स्मृतम् ॥८३॥

(दोलायन्त्र)
सग्रासं पञ्चषड्भागैर्यवक्षारैर्विमर्दयेत् ।
सूतकात्षोडशांशेन गन्धेनाष्टांशकेन वा ॥८४॥
ततो विमर्द्य जम्बीररसे वा काञ्जिकेऽथवा ।
दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम् ॥८५॥

(कच्छपयन्त्रे जारणं आह)
शश्वद्भृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता ।
पक्वमूषा जले तस्यां रसोऽष्टांशविडावृतः ॥८६॥
संरुद्धो लोहपात्र्याथ ध्मातो ग्रसति काञ्चनम् ।
वालुकोपरि पुटो युक्त्या महामुद्रया च निर्वाहः ॥८७॥
अतिचिपिटपात्र्या पिधाय संलिप्य वह्निना योज्यः ।

(जारण)
कुण्डाम्भसि लोहमये सविडं सग्रासं ईशजं पात्रे ।
अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः ॥८८॥

(जारणः)
इयतैव रसायनत्वं पर्यवसिति किंतु वादस्य न प्राधान्यम् ।
सम्प्रत्युभयोरेव प्राधान्येन जारणोच्यते ॥८९॥

(पक्षछेदः)
घनरहितबीजजारणसम्प्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः ॥९०॥
विनैकं अभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम् ॥९१॥

(अभ्रः)
रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः ।
तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत् ॥९२॥

(जारणः)
त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि ।
चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूराम्लैः ।
पूर्वसाधितकाञ्जिकेनापि ॥९६॥
अभ्रकजारणं आदौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते ॥९७॥

(गर्भद्रुति)
व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् ।
साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः ॥९८॥
एवं ताराभ्रादयः स्वस्वरिपुणा निर्व्यूढाः प्रयोजनमवलोक्य प्रयोज्याः ।

(गर्भद्रुति (२);)
कमलघनमाक्षिकाणां चूर्णं समभागयोजितं मिलति ।
तच्छुल्वाभ्रं शीघ्रं चरति रसेन्द्रो द्रवति गर्भे ॥९९॥

(गर्भद्रुतिः)
गर्भद्रुतिं अन्तरेण जारणैव न स्यादतस्तल्लक्षणमाह ।
वह्निव्यतिरेकेऽपि रसग्रासीकृतानां लोहानां द्रवत्वं गर्भद्रुतिः ॥१००॥

(बीजः)
बीजानां संस्कारः कर्तव्यस्ताप्यसत्त्वसंयोगात् ।
तेन द्रवन्ति गर्भा रसराजस्याम्लवर्गयोगेन ॥१०१॥

(बीजः)
शिलया निहतो नागस्ताप्यं वा सिन्धुना हतम् ।
ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात् ॥१०२॥

पट्वम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते ।
बहिश्च बद्धं वस्त्रेण भूर्जे ग्रासनिवेशितम् ।
क्षारारनालमूत्रेषु स्वेदयेत्त्रिदिनं भिषक् ॥१०३॥

उष्णेनैवारनालेन क्षालयेज्जारितं रसम् ।
तं च किंचिन्मलेऽनष्टे घर्षयेदुत्थिते रसे ॥१०४॥
मलप्रविष्टं रसमल्पेनैव जम्भरसेन सिक्तं यावदुत्थानं घर्षयेदित्यर्थः ।
तदा न त्रुटिरिति गुरुसंकेतः ॥१०५॥

(जारणः)
क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम् ॥१०६॥

(जारण)
नान्दीपयसि शरावोदरकुहरनिविष्टलोहसम्पुटगः ।
हरयोनिरन्तरा संजरति पुटैर्गगनगन्धादि ॥१०७॥
अङ्गारेण करीषेण वा पुटदानम् ॥१०८॥

(जारणः.)
चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः ।
तृतीयः षोडशांशस्तु चतुर्थोऽष्टांश एव च ॥१०९॥
चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः ।
जलौकावद्द्वितीये तु ग्रासयोगे सुरेश्वरि ॥११०॥
ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥१११॥
अन्यद्दुर्जरत्वान्न लिखितम् ॥११२॥

(जारणःः wएइघ्तोफ़् अद्देद्सुब्स्तन्चेस्)
भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति ।
यथा पञ्चभिरेवं ग्रासैर्घनसत्त्वं जारयित्वादौ ।
गर्भद्रावे निपुणो जारयति बीजं कलांशेन ॥११३॥
तन्मते चतुःषष्टिचत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः ॥११४॥

(गर्भद्रुतिः)
जम्बीरबीजपूरचाङ्गेरीवेतसाम्लसंयोगात् ।
क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः ॥११५॥

तारकर्मण्यस्य न तथा प्रयोगो दृश्यते ।
केवलं निर्मलं ताम्रं वापितं दरदेन तु ।
कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम् ॥११६॥

गन्धकेन हतं नागं जारयेत्कमलोदरे ।
एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः ॥११७॥
एतत्तु नागसंधानं न रसायनकर्मणि ॥११८॥

किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रजारणात्तद्बीजं समजीर्णं स्वातन्त्र्येणैव रञ्जयति ॥११९॥

(बीजः)
कुटिलं विमला तीक्ष्णं समचूर्णं प्रकल्पयेत् ।
पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत्तु तावद्बीजं भवेच्छुभम् ॥१२०॥

(बीजः)
सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धारयेत् ।
तच्चूर्णं वाहयेत्तारे गुणान्यावत्तु षोडश ॥१२१॥
प्रतिबीजमिदं श्रेष्ठं पारदस्य निबन्धनम् ।
चारणात्सारणाच्चैव सहस्रांशेन विध्यति ॥१२२॥

(बीजः)
वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु ।
एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः ॥१२३॥

(बीजःः हेमबीज)
कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन ।
दरदनिहतासिना वा त्रिर्व्यूढं हेम तद्बीजम् ॥१२४॥
बलिना व्यूढं केवलमर्कमपि ।

(बीजः रसबन्धन)
नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च ।
प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम् ॥१२५॥

(नागबीज)
माक्षिकेण हतं ताम्रं नागं च रञ्जयेन्मुहुः ।
तं नागं वाहयेद्बीजे द्विषोडशगुणानि च ॥१२६॥
बीजं त्विदं वरं श्रेष्ठं नागबीजं प्रकीर्तितम् ।
समचारितमात्रेण सहस्रांशेन विध्यति ॥१२७॥

(बीजः)
मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् ।
करवीरं देवदारु सरलो रजनीद्वयम् ॥१२८॥
अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु ।
तिलं विपाचयेत्तेन कुर्याद्बीजादिरञ्जनम् ॥१२९॥

(सारणातैलः)
द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च ।
क्वाथे चतुर्गुणं क्षीरं तैलमेकं सुरेश्वरि ॥१३०॥
ज्योतिष्मतीकरञ्जाख्यकटुतुम्बीसमुद्भवम् ।
पाटलाकाकतुण्डाह्वमहाराष्ट्रीरसैः पृथक् ॥१३१॥
भेकसूकरमेषाहिमत्स्यकूर्मजलौकसाम् ।
वसया चैकया युक्तं षोडशांशैः सुपेषितैः ॥१३२॥
भूलतामलमाक्षीकद्वंद्वमेलापकौषधैः ।
पाचितं गालितं चैव सारणातैलमुच्यते ॥१३३॥
अत्र गन्धर्वतैलमपि रसहृदयस्वरसात् ॥१३४॥

(द्वन्द्वमेलापक)
ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलेन्द्रगोपकर्कटका द्वंद्वमेलापकौषधानि ॥१३५॥

("रञ्जकतैल")
यथाप्राप्तैः श्वेतपुष्पैर्नानावृक्षसमुद्भवैः ।
रसं चतुर्गुणं योज्यं कङ्गुनीतैलमध्यतः ॥१३६॥
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
द्रावितं तारबीजं तु ह्येकविंशतिवारकम् ॥१३७॥
रञ्जितं जायते तत्तु रसराजस्य रञ्जनम् ।
कुटिले बलं अत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले नित्यं प्रशंसन्ति ॥१३८॥
बलमास्तेऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धश्च सारलौहे क्रामणमथ नागवङ्गगतम् ॥१३९॥
क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान्गृह्णाति तीक्ष्णेन ॥१४०॥
तदपि च दरदेन हतं कृत्वा वा माक्षिकेण रविसहितम् ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च ॥१४१॥
सर्वैरेभिर्लौहैर्माक्षिकमृदितैर्द्रुतैस्तथा गर्भे ।
विडयोगेन च जीर्णे रसराजो बन्धं उपयाति ॥१४२॥

निर्बीजं समजीर्णे पादोने षोडशांशं तु ।
अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च ॥१४३॥
समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च ।
इतो न्यूनजीर्णस्य पत्त्रलेपार्धकार एव ॥१४४॥

(पत्रलेप)
अत्यम्लितं उद्वर्तिततारारिष्टादिपत्रं अतिशुद्धम् ।
आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम् ॥१४५॥

(पुटप्रकार)
पुटः प्रायेण चुल्लिकाधस्तादस्य ॥१४६॥

(वर्णपुट)
अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् ।
क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः ॥१४७॥
अर्धेनेत्युपलक्षणम् ॥१४८॥

तारार्कमर्कटशिरःशिलागन्धान्प्रचूर्णयेत् ।
पचेद्भूयः क्षिपन्गन्धं यथा सूतो न गच्छति ।
पक्वं तद्धेमपत्रस्थं हेमतां प्रतिपद्यते ॥१४९॥

रज्जुभिर्भेकरङ्गाद्यैः स्तम्भयोः सारलौहयोः ।
बध्यते रसमातङ्गो युक्त्या श्रीगुरुदत्तया ॥१५०॥

शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् ।
कीलालायःकृतो योगः खटिकालवणाधिकः ॥१५१॥

मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिबिलेशयमन्त्रजिह्वैः ।
यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतति न विस्मयध्वम् ॥१५२॥

लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्रं भेकं आवर्तयेत्तु ।

तालं कृत्वा तुर्यवङ्गान्तराले रूप्यस्यान्तस्तच्च सिद्धोक्तबीजे ॥१५३॥
इतीदं लौहभेकितारतालकीति सिद्धमते बीजद्वयम् ॥१५४॥

द्रुतदर्दुरपूतिलौहतापः कुरुते हिङ्गुलखण्डपक्षखण्डम् ।
शशिहेलिहिरण्यमूषिका ध्रुवं अक्षोणधियामनेन लक्ष्मीम् ॥१५५॥

दरदगुटिकाश्चन्द्रक्षोदैर्निरन्तरं आवृतास्तरणिकनकैः किंवा गन्धाश्मना सह भूरिणा ।
रचय सिकतायन्त्रे युक्त्या मुहुर्मुहुरित्यसौ हुतभुजि वसन्न स्थेमानं कथञ्चन मुञ्चति ॥१५६॥

(बाह्यद्रुति)
अथ बाह्यद्रुतयः ।
एतास्तु केवलमारोटमेव मिलिता निबध्नन्ति ।
फलमस्य कल्पप्रमितमायुः ।
किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफलप्रदा भवन्ति ।
उच्यते स समजीर्णश्चायं शतवेधी द्विगुणजीर्णः सहस्रवेधी ।
एवं लक्षायुतकोटिवेधी समनुसर्तव्यः ।
चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति ॥१५७॥

(सारणः)
अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा ।
सैव छिद्रान्विता मध्ये गम्भीरा सारणोचिता ॥१५८॥

(सारणः)
अस्यामेव मूषायां तत्तैलमपगतकल्कविमलमापूर्य तस्मिन्नधिकं ऊष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समावर्तनीयः सूतवरस्तदनु सद्यो मूषाननं आच्छादनीयं एतत्तैलाक्तपटखण्डग्रन्थिबन्धेन अरुणसितबीजाभ्यां अमुना सारणकर्मणा मिलितश्चेत्सारितः सम्यक्संयमितश्च विज्ञेयः प्रतिसारितस्तु द्विगुणबीजेन तद्वदनुसारितस्तु त्रिगुणबीजेन अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थं ईषत्पन्नगवङ्गौ विश्राणनीयाविति ।

(कोटिवेधिरस)
सारितो जारितश्चैव पुनः सारितजारितः ।
सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः ।
इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि ॥१५९॥
शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम् ॥१६०॥

(विडवटी)
खोटकं स्वर्णसंतुल्यं समावर्त्तं तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिलागन्धं समं समम् ॥१६१॥
भूनागैर्मर्दयेद्यामं वल्लमात्रं वटीकृतम् ।
एषा विडवटी ख्याता योज्या सर्वत्र जारणे ॥१६२॥

दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् ।
शिलातुत्थं च कुङ्कुष्ठं समचूर्णं प्रकल्पयेत् ॥१६३॥
वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान्पञ्च सूर्यतापे पुनः पुनः ॥१६४॥
जारितं सूतखोटं च कल्केनानेन संयुतम् ।
वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम् ॥१६५॥
त्रिदिनं पाचयेच्चुल्ल्यां कल्को देयः पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः ॥१६६॥

लौहं गन्धं टङ्कणं ध्मातमेतत्तुल्यं चूर्णैर्भानुभेकाहिवङ्गैः ।
सूतं गन्धं सर्वसाम्येन कूप्यामीषत्साध्यं चात्र नो विस्मयध्वम् ॥१६७॥

(हेमकृष्टिः)
रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः ।
पुटमृतशुल्बं तारे त्रिर्व्यूढं हेमकृष्टिरियम् ॥१६८॥

(शतांशविधि (१))
अष्टानवतिभागं च रूप्यमेकं च हाटकम् ।
सूतैकेन च वेधः स्याच्छतांशविधिरीरितः ॥१६९॥

(शतांशविधि (२))
चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः ।
वह्निरेकः शम्भुरेकः शतांशविधिरीरितः ॥१७०॥
द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते ।
एवं सहस्रवेधादयो जारणबीजवशादनुसर्तव्याः ॥१७१॥
(वेधविधान)
चत्वारः प्रतिवापाः सुलक्षया मत्स्यपित्तभावितया ।
तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ ॥१७२॥
तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः ।
अतिविद्रुते च तस्मिन्वेधोऽसौ कुन्तवेधेन ॥१७३॥
तदनु सिद्धतैलेनाप्लाव्य भस्मावछादनपूर्वकं अवतार्य स्वाङ्गशैत्यपर्यन्तं अपेक्षितव्यमिति ॥१७४॥

विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि ।
तत आनीय नगरे विक्रीणीत विचक्षणः ॥१७५॥

(बुभुक्षितविधिः)
समर्पितः सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्ययन्त्रे ।
विशुद्धगन्धादिभिरीषदग्निना समस्तं अश्नात्यशनीयं ईशजः ॥१७६॥

(रञ्जन )
कर्षाष्टङ्कणकञ्जलीहरिरसैर्गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैश्च लोहैः श्रितम् ।
भूयो गन्धयुतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे लघुना पुटेन धमनेनार्कछवीं ईहते ॥१७७॥
कर्षा इति बहुवचनात्त्रयः ।
कर्मास्य त्रिधा पत्रलेपेनेति ज्ञेयम् ॥१७८॥

तुल्यं तारं ताम्रं आदाय स्वच्छं तावत्तप्तं गन्धचूर्णे कुनट्याम् ।
न्यस्तं यावज्जीर्यते खण्डशोऽथ प्राज्यैर्गाधैः पाचयेत्काचकूप्याम् ॥१७९॥
खण्डाकारं तादृशं टङ्कणेन स्वर्णान्तःस्थं भस्ममूषान्तराले ।
ध्मातं साधु स्यात्सुवर्णं सतारं हीने वर्णे रञ्जयेन्माक्षिकेण ॥१८०॥

तालताम्रशिलागन्धसंयुतं दरदं यदि ।
कूपिकायां मुहुः पक्वं द्रवकारि तदा मतम् ॥१८१॥

(क्षेत्रीकरणम्)
स्निग्धं स्विन्नं विरिक्तं यन्नीरुजं सिद्धभेषजैः ।
एतत्क्षेत्रं समासेन रसबीजार्पणक्षयम् ॥१८२॥

(पञ्चकर्माणि)
स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन स्विन्नं वस्त्रादिपुटवह्निना विरिक्तं इच्छाभेदिना वान्तं वचादिरसेन पलाशबीजविडङ्गगुडमोदकभक्षणात्कीटपातनं अपि कर्तव्यम् ।
नीरुजं संवत्सरमयनं वा परिशोधितैः शृङ्गाराभ्रलक्ष्मीविलासाद्यभ्रसत्त्वप्रधानप्रयोगैरिति ॥१८३॥
निम्बक्वाथं भस्मसूतं वचाचूर्णयुतं पिबेत् ।
पीतान्तं वमनं तेन जायते क्लेशवर्जितम् ॥१८४॥
पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह ।
रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये ॥१८५॥
अक्षेत्रीकरणे सूतो मृतोऽपि विषवद्भवेत् ।
फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा ॥१८६॥
अकृते क्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः सर्वाङ्गदोषकृद्भवति ॥१८७॥
कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने ।
न क्षेत्रकरणाद्देवि किंचित्कुर्याद्रसायनम् ॥१८८॥
इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान् ॥१८९॥
मृताभ्रं भक्षयेन्मासं एकं आदौ विचक्षणः ।
पश्चात्स योज्यतां देहे क्षेत्रीकरणमिच्छता ॥१९०॥
घनसत्त्वपादजीर्णोऽर्धकान्तजीर्णश्च तीक्ष्णसमजीर्णः ।
क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोग्याय ॥१९१॥
योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च ।
शुद्धो रसश्च भुक्तौ विधिना सिद्धिप्रदो भवति ॥१९२॥

घनसत्त्वकान्तताम्रसङ्करतीक्ष्णादिजीर्णस्य ।
सूतस्य गुञ्जावृद्ध्या माषकमात्रं परा मात्रा ॥१९३॥
गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ।
द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम् ॥१९४॥
तीक्ष्णाभ्रकान्तमाषैकं प्रायो मात्रेति कीर्तिता ।
वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोपमम् ॥१९५॥
नागवङ्गादिभिर्बद्धं विषोपविषबन्धितम् ।
मूत्रशुक्रहठाद्बद्धं त्यजेत्कल्पे रसायने ॥१९६॥

भस्मनस्तीक्ष्णजीर्णस्य लक्षायुः पलभक्षणात् ।
एवं भुक्त्वा दशपलं तीक्ष्णजीर्णस्य मानवः ।
तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥१९७॥
भस्मनः शुल्बजीर्णस्य लक्षायुः पलभक्षणात् ।
कोट्यायुर्ब्राह्ममायुष्यं वैष्णवं रुद्रजीवितम् ।
द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः ॥१९८॥
भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् ।
विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात् ॥१९९॥
गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निबलाबलम् ।
घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं त्यजेत् ॥२००॥
एको हि दोषः सूक्ष्मोऽस्ति भक्षिते भस्मसूतके ।
त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः ॥२०१॥
नारीसंगाद्विना देवि ह्यजीर्णं तस्य जायते ।
मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः ॥२०२॥
युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत् ॥२०३॥
ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् ।
समाधिकरणं तस्य क्रामणं परमं मतम् ॥२०४॥
प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके ।
न लङ्घयेत्त्रियामं तु मध्याह्ने चैव भोजयेत् ॥२०५॥
सकणाममृतां भुक्त्वा मले बद्धे स्वपेन्निशि ।
ताम्बूलान्तर्गते सूते किट्टबन्धो न जायते ॥२०६॥

अतिपानं चात्यशनं अतिनिद्रां प्रजागरम् ।
स्त्रीणां अतिप्रसङ्गं चाप्यध्वानं च विवर्जयेत् ॥२०७॥
अतिकोपं चातिहर्षं नातिदुःखं अतिस्पृहाम् ।
शुष्कवादं जलक्रीडां अतिचिन्तां च वर्जयेत् ॥२०८॥

(ककाराष्टक)
कूष्माण्डकं कर्कटीं च कलिङ्गं कारवेल्लकम् ।
कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम् ॥२०९॥
ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत् ॥२१०॥
चतुष्पथे न गन्तव्यं विण्मूत्रं च न लङ्घयेत् ।
धीराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत् ॥२११॥
सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः ।
कुलत्थानतसीतैलं तिलान्माषान्मसूरकान् ॥२१२॥
कपोतान्काञ्जिकं चैव तक्रभक्तं च वर्जयेत् ।
हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत् ॥२१३॥
कट्वम्लतिक्तलवणं पित्तलं वातलं च यत् ।
बदरं नारिकेलं च सहकारं सुवर्चलम् ॥२१४॥
नागरङ्गं कामरङ्गं शोभाञ्जनमपि त्यजेत् ।
न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत् ॥२१५॥
नैवेद्यं नैव भुञ्जति कर्पूरं वर्जयेत्सदा ।
कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ ॥२१६॥
न च हन्यात्कुमारीं च मातुलानीं च वर्जयेत् ।
क्षुधार्तो नैव तिष्ठेत ह्यजीर्णं नैव कारयेत् ।
दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत् ॥२१७॥
हितं मुद्गान्नदुग्धाज्यशाल्यन्नानि सदा यतः ।
शाकं पौनर्नवं देवि मेघनादं सवास्तुकम् ॥२१८॥
सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् ।
आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः ॥२१९॥
एतांस्तु समयाद्भद्रे न लङ्घेद्रसभक्षणे ।
एवं चैव महाव्याधीन्रसेऽजीर्णे तु लक्षयेत् ॥२२०॥

(रसाजीर्णशमनम्)
कार्षिकं स्वर्जिकक्षारं कारवेल्लीरसप्लुतम् ।
गोमूत्रं सैन्धवयुतं तस्य संस्रावणं परम् ॥२२१॥
सिन्धुकर्कोटिगोमूत्रं कारवेल्लीरसप्लुतम् ।
सौवर्चलसमोपेतं रसाजीर्णी पिबेद्बुधः ॥२२२॥
शरपुङ्खां सुरदालीं पटोलबीजं च काकमाचीं च ।
एकतमां तु क्वथितां अविजीर्णरसायने तु पिबेत् ॥२२३॥
कथमपि यद्यज्ञानान्नागादिकलङ्कितो रसो भुक्तः ।
तत्स्रावणाय विज्ञः पिबेच्छिफां कारवेल्लभवाम् ॥२२४॥
निषिद्धवर्जं मतिमान्विचित्ररसभोजनं कुर्यात् ।
स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः ॥२२५॥
क्षारक्षोणीरुहाणां विधिवदवहिताः क्षारं आकल्पयध्वम् ।
कासीसस्वर्जिकाभ्यां पटुचयनरसारक्षपापक्षिटङ्कैः ॥२२६॥
कूपीभिः पातयध्वं बहु बहुलयवक्षारमम्भो हि कल्प्यम् ।
तस्मिन्नाधत्त धीराः सकवलं अगजावल्लभं जारणाय ॥२२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:34.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

बलबलपुरी टमटम राज्य

  • सर्व अंदाधुंदीं 
  • घोटाळा 
  • गोंधळ. 
RANDOM WORD

Did you know?

गंध का लावावे ? अधिक माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.