TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकर - अध्याय ८

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अध्याय ८
भवति गदगणानां नाशनं येन सद्यो विविधरसविधानं कथ्यतेऽत्रैव सम्यक् ।
रसनिगमसुधाब्धौ मथ्यमाने मयैव गणितरसशतानां संग्रह प्रोच्यते वै ॥१॥
-ज्वराङ्कुश (१)-
सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजंबुकस्य ।
रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां यामद्वयं शीतगतं समुद्धरेत् ॥२॥
ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं च भजेत्प्रभाते ।
तं नागवल्लीदलजेन सार्धं निहन्ति वातोद्भवकं ज्वरं च ॥३॥
-ज्वराङ्कुश (२)-
सूतगंधविषकारवीकणा दन्तिबीजमिति वर्धितै क्रमात् ।
मर्दितैश्च दशनिंबुकद्रवै रक्तिकार्धतुलिता वटी कृता ।
भक्षिता ज्वरगणान्निहन्त्ययं रेचनो ज्वरहरोऽयं अङ्कुश ॥४॥
एक एव कथितस्तु सोऽमल स्वेदितोऽपि सह चूर्णजलेन ।
यामपूर्वमपि रक्तिकामितो भक्षित सकलशीतजूर्तिहृत् ॥५॥
-ज्वरारिरस-
पारदं रसकगंधतालकं तुत्थटंकणयुतं सुशोधितम् ।
मर्दयेच्च सममात्रमेकत कारवेल्लजरसैर्दिनं तथा ॥६॥
लेपयेच्च रविभाजनोदरे चांगुलार्धमपि मानमेव हि ।
ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयंत्रमध्यत ॥७॥
धान्यकान्युपरि मुञ्चितानि चेत्संस्फुटन्ति यदि शुद्धमुच्यते ।
जायतेऽतिरुचिरो ज्वरारिक सेवितो ज्वरगणापहारक ॥८॥
माषमात्रमुषणै समै सदा पर्णखण्डसहितैश्च भक्षित ।
नाशयेद्धि विषमोद्भवान्ज्वरानन्धकारमिव भास्करोदय ॥९॥
-तरुणज्वरारिरस-
तालताम्ररसगंधतुत्थकान्शाणमात्रतुलितान्समस्तकान् ।
निष्कमात्ररुचिरां मनशिलां मर्दयेत्त्रिफलकाम्बुभिर्दृढम् ॥१०॥
गोलमस्य च विधाय संपुटे पाचयेच्च पुटपाकयोगत ।
अर्कवज्रिपयसा सुभावयेत्सप्तवारमथ दन्तिकाशृतै ॥११॥
माषमात्ररस एष भक्षित शाणमानमरिचैर्युतो यदा ।
सार्धनिष्ककगुडेन योजित सौरसैर्द्विदशपत्रकैर्युत ॥१२॥
शीतपूर्वमथ दाहपूर्वकं द्व्याहिकं च सकलान्ज्वरानपि ।
नाशयेद्धि तरुणज्वरारिक सर्वदोषशमन सुखावह ॥१३॥
-ज्वरघ्नी वटी-
भागैक स्यात्पारद शोधितश्च एलीय स्यात्पिप्पली श्रेयसी च ।
आकल्लो वै गंधक सार्षपेण तैलेनाथो शोधितो बुद्धिमद्भि ॥१४॥
तुर्यान्भागानिन्द्रवल्लीफलानां कृत्वा चूर्णं शोषयेत्सूर्यतापे ।
चूर्णं चैतद्भावयेत्तद्रसेन माषैस्तुल्यां कारयेत्तद्वटीं च ॥१५॥
दत्त्वा चैकां जातसद्योज्वराय छिन्नाङ्गाया क्वाथपानं विधेयम् ।
दोषोद्भूतं सन्निपातोद्भवां च जूर्तिं सम्यङ्नाशयत्याशु तीव्राम् ॥१६॥
-ज्वरकृन्तनरस-
शुद्ध सूतो गंधको वत्सनाभ प्रत्येकं वै शाणमात्रा विधेया ।
धूर्ताद्बीजं कारयेद्वै त्रिशणं सर्वेभ्यो वै द्वैगुणा हेमदुग्धा ॥१७॥
सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद्देयं गुंजायुग्ममानं च सम्यक् ।
खादेदार्द्रं चानुपाने ज्वरार्त सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् ॥१८॥
-ज्वरारिरस-
सूतं गंधं हिङ्गुलं दंतिबीजं भागैर्वृद्धं कारयेच्च क्रमेण ।
चूर्णं कृत्वा मर्दितं दंतितोयैर्गुंजामात्रो भक्षितश्चेज्ज्वरारि ॥१९॥
-सूर्यरस-
एकं भागं वत्सनाभं च कुर्याद्द्वौ भागौ चेट्टङ्कणं दंतिबीजम् ।
त्रीण्येवैते हिंगुलस्यापि तुर्य सद्यो जूर्तिं नाशयत्येव सूर्य ॥२०॥
-प्रतिज्ञावाचकरस-
शुद्धं सूतं भागमेकं तु तालाद्द्वौ भागौ चेद्वेदसंख्या शिलाया ।
ताम्रस्यैवं भागयुग्मं प्रकुर्याद्भल्लातं वा वेदभागं तथैव ॥२१॥
अर्कक्षीरैर्भावयेच्च त्रिवारं कृत्वा चूर्णं कारयेद्गोलकं तत् ।
स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैंधवेन ॥२२॥
धूम्रस्यैवं रोधनं च प्रकुर्याच्छाणैर्दद्यात्स्वेदनं मन्दवह्नौ ।
पश्चात्तोयेनैव भाव्यं च चूर्णं गोलं कृत्वा मंदवह्नौ विपाच्य ॥२३॥
पश्चादेनं भक्षयेद्वै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम् ॥२४॥
तद्वत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदोषोत्थितां वै ॥२५॥
-अतिसारसंग्रहणीहरा योगा-
अथातीसारशमनान्रसान्संकथयामि वै ।
भक्षिताश्चैव ये नित्यं सद्य प्रत्ययकारका ॥२६॥
-शङ्खोदररस-
शुद्धं सूतं गंधकं वै समांशं चित्रोन्मत्तैर्मर्दयेद्वासरैकम् ।
चूर्णैरेतै शंखमापूरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् ॥२७॥
तस्याधस्तादष्टयामं प्रकुर्याद्वह्निं शीते कर्षमात्रं विषं हि ।
दत्त्वा घर्मे त्रीणि चाथो पुटानि दद्यात्तद्वत्कन्यकाया रसेन ॥२८॥
वल्लं योज्यं जीरकेणाथ भृंग्या क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम् ।
श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्शसु विड्ग्रहे चातिसारे ॥२९॥
-आनन्दभैरवी गुटी-
सौभाग्यं वै हिंगुलं वत्सनाभं मारीचं वै हेमबीजेन युक्तम् ।
कृत्वा चूर्णं सर्वमेतत्समांशं जम्बीरैस्तन्मर्दितं यामयुग्मम् ।
गुंजामात्रा निर्मिता भक्षिता हि गुट्यो हन्यु सन्निपातातिसारान् ॥३०॥
-अतिसारभैरवी गुटी-
जातीपत्त्री देवपुष्पं च शुण्ठी कङ्कोल्लं चेच्चंदनं कुंकुमं च ।
कृष्णायुक्तं शुद्धमाकल्लकं स्यात्सर्वाण्येवं चूर्णयेद्वै समानि ॥३१॥
सूतस्यैवं भस्म मिश्रं प्रकुर्याद्भागं चैकं मिश्रयेन्नागफेनम् ।
खल्वे सर्वं मर्दितं चैकयामं कार्या गोली वल्लमात्रा जलेन ॥३२॥
भक्षेद्रात्रौ पाययेत्तंडुलोदं हन्यात्सर्वान्सर्वदोषातिसारान् ॥३३॥
-कनकसुन्दररस-
मारीचं चेट्टंकणं हिंगुलं च गंधाश्मा वै पिप्पली वत्सनाभम् ।
धूर्तस्यैवं बीजकानीह शुद्धान्येवं कृत्वा तच्च चूर्णं विधेयम् ॥३४॥
प्रात सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेच्चातिसारम् ।
दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्यादेवं चाग्निमान्द्यं सुतीव्रम् ॥३५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:51:01.1830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हस्ती संगांतु मुंबुर

  • ( गो.) हत्तीच्या कळपांत डांस. दर्यामे खसखस. 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.