TransLiteral Foundation

रसप्रकाशसुधाकर - अध्याय १२

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अध्याय १२
-वानरी वटी-
आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम् ।
माषस्याष्टपलं तद्वज्जलेन परिपेषितम् ॥१॥
आर्द्रं कृत्वोभयं सम्यक्शिलापट्टेन पेषयेत् ।
कुंकुमं केसरं चैव जातीपत्रं शतावरी ॥२॥
गोक्षुरेक्षुरबीजानि लवंगं मरिचं कणा ।
शृङ्गाटकं कर्षमितं कुर्यादेवं पृथक्पृथक् ॥३॥
सूक्ष्मचूर्णं विधायाथ पूर्वपिष्टे निधापयेत् ।
वटकान्कारयेत्पश्चात्कर्षमात्रान्विपाचयेत् ॥४॥
घृतप्रस्थत्रयेणैव सुतलथ्य निमज्जयेत् ।
माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम् ॥५॥
मध्वाज्यमिश्रितं भुञ्ज्यादेकैकं वटकं प्रगे ।
सप्तकानि च पञ्चैवं आहारं मधुरं भजेत् ॥६॥
दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत् ।
रेतक्षयी तथा क्लीबो गच्छेच्च प्रमदाशतम् ॥७॥
अपुत्र पुत्रमाप्नोति षण्ढोऽपि पुरुषायते ।
दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम् ॥८॥
-शतावर्यादिवाजीकरोऽवलेह (१)-
शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात् ।
रसं तथा शाल्मलिमध्यमूलात्प्रस्थं सितार्धाढकमत्र देयम् ॥९॥
सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा ।
त्वक्पत्रकैला सह केसरेण पलप्रमाणा हि ततो विदध्यात् ॥१०॥
लेहे सुशीते मधु बिल्वमात्रं प्रात प्रभक्षेदिह कर्षमात्रम् ॥११॥
-शृङ्गातकादिवाजीकरोऽवलेह (२)-
शृङ्गाटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाण ।
चूर्णीकृतं गालितमेव वस्त्राद्भृष्टं तथाज्येन सितासमेतम् ॥१२॥
लवंगकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम् ।
लेहं सुजातं खलु भक्षयेत्तत्कर्षप्रमाणं नितरां प्रभाते ।
कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेद्वै चटकायतेऽसौ ॥१३॥
-कामदीप्तिकरवाजीकरोऽवलेह (३)-
शतावरीगोक्षुरदर्भमूलं शृङ्गाटकं नागबलात्मगुप्ते ।
संचूर्ण्य सर्वं पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥१४॥
सिता प्रदेया दशपालिकात्र पाकं विदध्यादपि चाग्नियोगात् ।
मधुप्लुतं भक्षितमर्धयामात्कामप्रदीप्तिं कुरुते सदैव ॥१५॥
वीर्यस्य वृद्धिं जठराग्निवृद्धिं कामाग्निवृद्धिं सहसा करोति ॥१६॥
-माषादिवाजीकरोऽवलेह (४)-
माषाणामात्मगुप्ताया बीजानामाढकं नवम् ।
जीवकर्षभकौ जीवां मेदां वृद्धिं शतावरीम् ॥१७॥
मधुकं चाश्वगन्धां च साधयेत्प्रसृतोन्मिताम् ।
रसे तस्मिन्घृतप्रस्थं गव्यं दशगुणं पय ॥१८॥
विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च ।
दत्त्वा मृद्वग्निना साध्यं सिद्धसर्पिर्निधापयेत् ॥१९॥
शर्करायास्तुगाक्षीर्या क्षौद्रस्य च पृथक्पृथक् ।
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्पलम् ॥२०॥
पलं पूर्वमितो लीढ्वा ततोऽन्नं उपयोजयेत् ।
यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ॥२१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:51:02.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कुंथून कुंथून केळी खाणें

  • आजार्‍याचे सोंग घेऊन केळी खाणें 
  • रडून रडून आपल्‍या मनासारखी गोष्‍ट घडवून आणणें. 
RANDOM WORD

Did you know?

हिंदू धर्मियांत मुलांचे किंवा मुलींचे कान कां टोचतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site