TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकर - अध्याय १

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अध्याय १
शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम् ।
जननपालनसंहरणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥१॥
कुमुदकुन्दसिताम्बरधारिणीं विमलमौक्तिकहारसुशोभिताम् ।
सकलसिद्धगणैरपि सेवितां अहरहः प्रणमामि च शारदाम् ॥२॥
वदनकुंजरं अभ्रदलद्युतिं त्रिनयनं च चतुर्भुजवामनम् ।
कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥३॥
गिरिशधाम सदा महदद्भुतं सकलरोगविघातकरं परम् ।
सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥४॥
प्रथमं पारदोत्पत्तिं कथयामि यथातथम् ।
ततः शोधनकं तस्य तथाष्टादश कर्म च ॥५॥
चतुर्धा बंधविज्ञानं भस्मत्वं सूतकस्य च ।
धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥६॥
अष्टौ महारसाः सम्यक्प्रोच्यन्तेऽत्र मया खलु ।
तथा चोपरसानां हि गुणाः शोधनमारणम् ॥७॥
द्रुतिपातं च सर्वेषां कथयामि सविस्तरम् ।
रत्नानां गुणदोषश्च तथा शोधनमारणम् ॥८॥
क्रामणं रंजनं चैव द्रुतिमेलानकं रसे ।
रसांश्च शतसंख्याकान्कथयामि सविस्तरात् ॥९॥
औषधीनां समाख्याता भेदाश्चत्वार एव च ।
दिव्यौषध्यो रसौषध्यः सिद्धौषध्यस्तथा पराः ॥१०॥
महौषध्य इति प्रोक्ता यंत्राण्यथ पुटानि च ।
मूषाश्चैव हि धातूनां कौतुकानि समासतः ॥११॥
वाजीकरणयोगाश्च शुक्ररतंभकरास्त ।
नातिसंक्षेपविस्तारात्ग्रंथेऽस्मिन्परिकल्पिताः ॥१२॥
-सूतोत्पत्ति
हिमालयात्पश्चिमदिग्विभागे गिरीन्द्रनामा रुचिरोऽस्ति भूधरः ।
तत्सन्निधानेऽतिसुवृत्तकूपे साक्षाद्रसेंद्रो निवसत्ययं हि ॥१३॥
कुमारिकारूपगुणेन युक्ता स्वलंकृता वाहवरेऽधिरूढा ।
तत्रागता कूपमवेक्षमाणा निवर्तिता सा महता जवेन ॥१४॥
प्रधावितः सूतवरश्चतुर्षु ककुप्सु भूमौ पतितो हि नूनम् ॥१५॥
परितः पर्वतात्सम्यक्क्षेत्रं द्वादशयोजनम् ।
विस्तीर्णं च सुवृत्तं हि सूतकस्य समीरितम् ॥१६॥
तन्मृदः पातने यंत्रे पातितः खलु रोगहा ।
जायते रुचिरः साक्षादुच्यते पारदः स्वयम् ॥१७॥
कूपाद्विनिःसृतः सूतश्चतुर्दिक्षु गतो द्विजः ।
क्षत्रियो वैश्यशूद्रौ च चतुर्णां जायते खलु ॥१८॥
श्वेता कृष्णा तथा पीता रक्ता वै जायते छविः ।
प्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥१९॥
श्वेतः श्वेतविधाने स्यात्कृष्णो देहकरस्तथा ।
पीतवर्णः स्वर्णकर्ता रक्तो रोगविनाशकृत् ॥२०॥
सर्व एकीकृता एव सर्वकार्यकराः सदा ।
सेविताः सर्वरोगघ्नाः सर्वसिद्धिविधायकाः ॥२१॥
इत्थं सूतोद्भवं ज्ञात्वा न रोगैवार्ध्यते खलु ।
शोधितो मारितश्चैव क्रामितः सारितः शुभः ॥२२॥
-पारद्ना आठ्संस्कारथवा कर्म्-
स्वेदनं मर्दनं चैव मूर्च्छनं स्यात्तदुत्थितम् ।
पातनं रोधनं सम्यक्नियामनसुदीपने ॥२३॥
तथाभ्रकग्रासमान चारणं च क्रमेण हि ।
गर्भद्रुतिर्बाह्यद्रुतिः प्रोक्तं जारणकं तथा ॥२४॥
सारणं क्रामणं प्रोक्तं वेधकर्म च रंजनम् ।
सेवनं पारदस्याथ कर्माण्यष्टादशैव हि ।
उद्देशतो मयात्रैव नामानि कथितानि वै ॥२५॥
-पारददोषाः-
दोषाः पञ्च समुद्दिष्टाः पारदानां भिषग्वरैः ।
मलो विषं तथा वह्निर्मदो दर्पश्च वै क्रमात् ।
मूर्च्छां मृत्युं मदं चैव स्फोटं कुर्युः शिरोभ्रमम् ॥२६॥
-पारदकञ्चुकाः-
कञ्चुकाः सप्त सूतस्य कथयामि यथार्थतः ।
नामानि कथयाम्येषां देवीशास्त्रानुसारतः ॥२७॥
मृच्छैलजलशुल्बायो नागवंगसमुद्भवाः ।
सूतके कंचुकाः सप्त ततश्चैव विषोपमाः ॥२८॥
-मेर्चुर्यःः उसे ओफ़् शोधन-
द्वादशैव हि दोषाः स्युर्यैश्च निष्कासिता द्विजैः ।
तेषां हि रससिद्धिः स्यादपरे यमसन्निभाः ।
तस्माद्दोषापहरणं कर्तव्यं भिषगुत्तमैः ॥२९॥
-स्वेदन-
तत्र स्वेदनकं कुर्याद्यथावच्च शुभे दिने ।
सूतस्य स्वेदनं कार्यं दोलायंत्रेण वार्तिकैः ॥३०॥
क्षारौ चाम्लेन सहितौ तथा च पटुपंचकम् ।
त्रिकटु त्रिफला चैव चित्रकेण समन्विता ॥३१॥
पुष्पकासीससौराष्ट्र्यौ सर्वाण्येव तु मर्दयेत् ।
ओषधानि समांशानि रसादष्टमभागतः ॥३२॥
कृत्वान्धमूषां तेषां तु तन्मध्ये पारदं क्षिपेत् ।
त्रिगुणेन सुवस्त्रेण भूर्जपत्रेण वेष्टयेत् ॥३३॥
गुणेन काष्ठखण्डे वै बद्धां तु रसपोटलीम् ।
लम्बायमानां भाण्डे तु तुषवारिप्रपूरिते ॥३४॥
त्रिदिनं स्वेदयेत्सम्यक्स्वेदनं तदुदीरितम् ॥३५॥
-२- मर्दन-
अथ मर्दनकं कर्म येन शुद्धतमो रसः ।
प्रजायते विस्तरेण कथयामि यथातथम् ॥३६॥
खल्वे विमर्दयेत्सूतं दिनानि त्रीणि चैव हि ।
अथ खल्वप्रमाणं हि वक्ष्ये तत्र मयाधुना ॥३७॥
कलांगुलस्तदायामश्चोत्सेधोऽपि नवांगुलः ।
विस्तरेण तथा कुर्यान्निम्नत्वेन षडङ्गुलम् ॥३८॥
द्व्यंगुलः पृष्ठविस्तारो मध्येऽतिमसृणीकृतः ।
अर्धचन्द्राकृतिश्चापि मर्दकोऽत्र दशांगुलः ॥३९॥
सूतः पञ्चपलस्तस्मिन्मर्दयेत्काञ्जिकैस्त्र्यहम् ।
बहिर्मलविनाशाय रसराजं तु निश्चितम् ॥४०॥
उष्णकांजिकतोयेन क्षालयेत्तदनन्तरम् ॥४१॥
-३- मूर्छन-
अतःपरं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम् ।
मूर्च्छनं दोषरहितं सप्तकञ्चुकनाशनम् ॥४२॥
स्वर्जिका यावशूकश्च तथा च पटुपंचकम् ।
अम्लौषधानि सर्वाणि सूतेन सह मर्दयेत् ॥४३॥
खल्वे दिनत्रयं तावद्यावन्नष्टत्वं आप्नुयात् ।
स्वरूपस्य विनाशेन मूर्च्छनं तदिहोच्यते ।
निर्मलत्वं अवाप्नोति ग्रन्थिभेदश्च जायते ॥४४॥
-४- उत्थापन-
अथोत्थापनकं कर्म पारदस्य भिषग्वरैः ।
करणीयं प्रयत्नेन रसशास्त्रस्य वर्त्मना ॥४५॥
दोलायंत्रे ततः स्वेद्यः पूर्ववद्दिवसत्रयम् ।
सूर्यातपे मर्दितोऽसौ दिनमेकं शिलातले ।
उत्थापनं भवेत्सम्यक्मूर्छादोषविनाशनम् ॥४६॥
-५- पातन-
पातनं हि महत्कर्म कथयामि सुविस्तरम् ।
त्रिधा पातनमित्युक्तं रसदोषविनाशनम् ॥४७॥
ऊर्ध्वपातस्त्वधःपातस्तिर्यक्पातः क्रमेण हि ।
-ऊर्ध्वपातनयन्त्र-
ऊर्ध्वपातनयंत्रस्य लक्षणं तदिहोच्यते ।
मृण्मयी स्थालिका कार्या चोच्छ्रिता तु षडंगुला ॥४८॥
मुखे सप्ताङ्गुलायामा परितस्त्रिदशांगुला ।
इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥४९॥
क्षारद्वयं रामठं च तथा हि पटुपञ्चकम् ।
अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥५०॥
लेपयेत्तेन कल्केन अधःस्थां स्थालिकां शुभाम् ।
उपरिस्थां अधोवक्त्रां दत्त्वा संपुटमाचरेत् ॥५१॥
सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत् ।
चुल्यां स्थालीं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥५२॥
तस्योपरि जलाधानं कार्यं यामचतुष्टयम् ।
स्वाङ्गशीतलतां ज्ञात्वा ऊर्ध्वंगं ग्राहयेद्रसम् ॥५३॥
ऊर्ध्वपातनयंत्रं हि तदेवं परिकीर्तितम् ।
-५-२- अधःपातन-
पूर्वोक्तां स्थालिकां सम्यक्विपरीतां तु पंकिले ।
गर्ते तु स्थापितां भूमौ ज्वालयेन्मूर्ध्नि पावकम् ॥५४॥
यामत्रितयपर्यंतं अधः पतति पारदः ।
अधःपातनयंत्रं हि कीर्तितं रसवेदिभिः ॥५५॥
-५-३- तिर्यक्पातन-
पूर्वोक्तैरौषधैः सार्धं रसराजं विमर्दयेत् ।
तिर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घटः ॥५६॥
कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम् ।
नालिकां जलपात्रस्थां कारयेच्च भिषग्वरैः ॥५७॥
अधस्ताद्रसयंत्रस्य तीव्राग्निं ज्वालयेद्बुधः ।
यामत्रितयपर्यंतं तिर्यक्पातो भवेद्रसः ॥५८॥
यंत्राणां पातनानां च त्रितयं सुकरं खलु ॥५९॥
कथितं हि मया सम्यक्रसागमनिदर्शनात् ॥६०॥
-६- रोधन-
अधुना कथयिष्यामि रसरोधनकर्म च ।
यत्कृते च पलत्वं हि रसराजस्य शाम्यति ॥६१॥
सिन्धूद्भवं दशपलं जलप्रस्थत्रयं तथा ।
धारयेद्घटमध्ये च सूतकं दोषवर्जितम् ॥६२॥
पिधानेन यथा सम्यक्मुद्रितं मृत्स्नया खलु ।
निर्वाते निर्जने देशे धारयेद्दिवसत्रयम् ॥६३॥
अनेनैव प्रकारेण रोधनं कुरु वैद्यराट् ॥६४॥
-७- नियामन-
अतःपरं प्रवक्ष्यामि पारदस्य नियामनम् ।
जलसैंधवसंयुक्तो घटस्थो हि रसोत्तमः ।
दिनत्रयं स्वेदितश्च वीर्यवानपि जायते ॥६५॥
-८- दीपन-
अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम् ।
बुभुक्षा व्यापकत्वं च येन कृत्वा प्रजायते ॥६६॥
राजिका लवणोपेता मरिचं शिग्रुटंकणे ।
कासीससंयुता कांक्षी कांजिकेन समन्वितैः ॥६७॥
दिनानि त्रीणि संस्वेद्य पश्चात्क्षारेण मर्दयेत् ।
अनेनैव प्रकारेण दीपनं जायते ध्रुवम् ॥६८॥
तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता ।
बलवत्त्वं विशेषेण कृते सम्यक्प्रजायते ॥६९॥
-८-१- दीपनः मुखोत्पादन-
मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि ।
कथयामि समासेन यथावद्रसशोधनम् ॥७०॥
अष्टादशांशभागेन कनकेन च सूतकः ।
निम्बूरसेन संमर्द्यो वासरैकमतःपरम् ॥७१॥
क्षारैश्च लवणै रम्यैः स्वेदितः कांजिकेन हि ।
क्षालिते कांजिकेनैव वक्त्रं भोक्तुं प्रजायते ॥७२॥
-८-२- दीपनः मुखोत्पादन (२)-
ताप्यसत्वं कलांशेन हेम्ना तद्द्विगुणेन च ।
तप्तं आयसखल्वेन तप्तेनाथ प्रमर्दयेत् ॥७३॥
व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि ।
जंबीरपूरकजलैर्मर्दयेदेकविंशतिम् ॥७४॥
वासरे याममेकं तु प्रत्येकं हि विमर्दयेत् ।
यातुधानमुखं सम्यक्यात्येव हि न संशयः ॥७५॥
द्वितीयो दीपनस्यैवं प्रकारः कथितो मया ।
सूतस्याष्टौ च संस्काराः कथिता देहकर्मणि ॥७६॥
तथा च दश कर्माणि देहलोहकराणि हि ॥७७॥
-९- ग्रासमान-
अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि ।
करोटिविधिना सम्यक्कर्तव्यं लोहसंपुटम् ॥७८॥
जलयंत्रस्य योगेन विडेन सहितो रसः ।
भक्षयत्येव चाभ्रस्य कवलानि न संशयः ॥७९॥
-जलयन्त्र-
अतो हि जलयंत्रस्य लक्षणं कथ्यते मया ।
सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥८०॥
तन्मध्ये सुदृढं सम्यक्कर्तव्यं लोहसंपुटम् ।
लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम् ॥८१॥
बिडेन सहितं चैव षोडशांशेन यत्नतः ।
चतुःषष्ट्यंशकं चाभ्र सत्त्वं संपुटके तथा ॥८२॥
संपुटं मुद्रयेत्पश्चात्दृढया तोयमृत्स्नया ।
वह्निमृत्तिकया वापि संधिरोधं तु कारयेत् ॥८३॥
चुल्यां निवेश्य तं यंत्रं जलेनोष्णेन पूरितम् ।
क्रमादग्निः प्रकर्तव्यो दिवसार्धकमेव हि ॥८४॥
एवं कृते ग्रासमानं भक्षयेन्नात्र संशयः ।
अनेनैव प्रकारेण षड्ग्रासं भक्षयेद्ध्रुवम् ॥८५॥
भक्षिते चाभ्रसत्त्वे तु सर्वकार्येषु सिद्धिदः ।
-विडमान-
मानं मानविहीनेन कर्तुं केन न शक्यते ॥८६॥
तस्मान्मया मानकर्म कथितव्यं यथोदितम् ।
चतुःषष्ट्यंशतो बीजं पारदान्मुखकारकम् ॥८७॥
पश्चाद्द्वात्रिंशभागेन दातव्यं बीजमुत्तमम् ।
ततःषोडशभागेन बीजस्य कवलं न्यसेत् ॥८८॥
रसादष्टमभागेन दातव्यं भिषगुत्तमैः ।
चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥८९॥
तथा च समभागेन ग्रासेनैव च साधयेत् ।
बिडेन षोडशांशेन क्षुधितो जायते रसः ॥९०॥
यदा जीर्णो भवेद्ग्रासः पातितश्च विडेन हि ॥९१॥
-बिड-
कासीससिन्धुलवण सौवर्चलसुराष्ट्रिकाः ।
गंधकेन समं कृत्वा विडोऽयं वह्निकृद्भवेत् ॥९२॥
-१०- चारण-
अथ गर्भद्रुतेः कर्म चारणं गुणवर्धनम् ।
कथयामि यथातथ्यं रसराजस्य सिद्धिदम् ॥९३॥
ताप्यसत्वाभ्रसत्त्वं च घोषाकृष्टं च ताम्रकम् ।
समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ॥९४॥
भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम् ।
तदभ्रसत्वं सूतस्य चारयेत्समभागिकम् ॥९५॥
-११- गर्भद्रुति-
अनेनैव प्रकारेण त्रिगुणं जारणं रसे ।
गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमैः ॥९६॥
-१२- बाह्यद्रुति-
बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गतः ।
अभ्रसत्वं हि मूषायां वज्रवल्लीरसेन हि ॥९७॥
सौवर्चलेन संध्मातं रसरूपं प्रजायते ।
अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ॥९८॥
तेन बन्धत्वमायाति बाह्या सा कथ्यते द्रुतिः ।
बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ॥९९॥
गुरोः प्रसादात्सततं महाभैरवपूजनात् ।
शिवयोरर्चनादेव बाह्यगा सिध्यति द्रुतिः ॥१००॥
-१३- जारण-
अथ जारणकं कर्म कथयामि सुविस्तरम् ।
अभ्रकं ताप्यसत्वं च समं कृत्वा तु संधमेत् ॥१०१॥
अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे ।
एवं पूतिद्वयेनैव घनसत्वं हि साधयेत् ॥१०२॥
धातुवादविधानेन लोहकृत्देहकृन्न हि ।
गजवंगौ महाघोरावसेव्यौ हि निरन्तरम् ॥१०३॥
साधितं घनसत्वं तद्रेतितं रजःसन्निभम् ।
बुभुक्षितरसस्यास्ये निक्षिप्तं वल्लमात्रकम् ॥१०४॥
रसो गद्याणकस्यापि तुर्यभागः प्रकीर्तितः ।
ताम्रपात्रस्थमम्लं वै सैंधवेन समन्वितम् ॥१०५॥
क्षीरेण सहितं वापि प्रहितं द्विदिनावधि ।
जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधैः ॥१०६॥
कल्केनानेन सहितं सूतकं च विमर्दयेत् ।
दिनत्रयं तप्तखल्वे धौतः पश्चाच्च कांजिकैः ॥१०७॥
स्थापयेत्कांस्यपात्रे तु तदूर्ध्वाधो विडं न्यसेत् ।
रसस्याष्टमभागेन संपुटं कारयेत्ततः ॥१०८॥
भूर्जपत्रैर्मुखं रुद्ध्वा सूत्रेणैव तु वेष्टयेत् ।
संपुटं वाससावेष्ट्य दोलायां स्वेदयेत्ततः ॥१०९॥
गोमूत्रेणाम्लवर्गेण कांजिकेन दिनं दिनम् ।
अश्मपात्रेऽथ लोहस्य पात्रे काचमयेऽथवा ॥११०॥
उष्णकांजिकतोयेन क्षालयित्वा रसं ततः ।
दृढे चतुर्गुणे वस्त्रे क्षिप्त्वाधः पीडनाद्रसः ॥१११॥
निपतत्यन्यपात्रे तु सर्वोऽपि यदि पारदः ।
तदाभ्रं जारितं सम्यक्दण्डधारी भवेद्रसः ॥११२॥
ग्रासमाने पुनर्देयं अभ्रबीजमनुत्तमम् ।
अष्टग्रासेन सर्वं हि जारयेद्गुरुमार्गतः ॥११३॥
एवं कृते समं चाभ्रं सूतके जीर्यति ध्रुवम् ।
स्वहस्तेन कृतं सम्यक्जारणं न श्रुतं मया ॥११४॥
-मेर्चुर्यःः "अगे" अच्चोर्दिन्ग्तो जारण-
समाभ्रे जारिते सम्यक्दण्डधारी भवेद्रसः ।
बालश्च कथ्यते सोऽपि किंचित्कार्यकरो भवेत् ॥११५॥
द्विगुणे त्रिगुणे चैव कथ्यतेऽत्र मया खलु ।
चतुर्गुणेऽभ्रके जीर्णे किशोरः कथ्यते मया ॥११६॥
जीर्णे पञ्चगुणे चाभ्रे युवा चैव रसोत्तमः ।
षड्गुणे जारिते त्वभ्रे वृद्धश्चैव रसोत्तमः ॥११७॥
सप्ताष्टगुणिते चाभ्र सत्वे जीर्णेऽतिवृद्धकः ।
सर्वसिद्धिकरः सोऽयं पारदः पारदः स्वयम् ॥११८॥
अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥११९॥
-१४- सारण-
अथेदानीं प्रवक्ष्यामि वेधवृद्धेश्च कारणम् ।
महासिद्धिकरं यत्स्यात्सारणं सर्वकर्मणाम् ॥१२०॥
धूर्तपुष्पसमाकारा मूषाष्टाङ्गुलदीर्घिका ।
मुखे सुविस्तृता कार्या चतुरंगुलसंमिता ॥१२१॥
मृण्मया सापि शुष्का च मध्येऽतिमसृणीकृता ।
अन्या पिधानिका मूषा सुनिम्ना छिद्रसंयुता ॥१२२॥
शुद्धं सुजारितं सूतं मूषामध्ये निधापयेत् ।
-सारणातैल-
मत्स्यकच्छपमण्डूक जलौकामेषसूकराः ॥१२३॥
एकीकृत्य वसामेषां एवं तैलं तु सारणम् ।
भूनागविट्तथा क्षौद्रं वायसानां पुरीषकम् ॥१२४॥
तथैव शलभादीनां महिषीकर्णयोर्मलम् ।
रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥१२५॥
पटेन गालितं कृत्वा तैलमध्ये नियोजयेत् ।
-सारणा
सारणार्थे कृतं तैलं तस्मिन्तैले सुपाचयेत् ॥१२६॥
बीजं च कल्कमिश्रं हि कृत्वा मूषोपरि न्यसेत् ।
पिधानेन द्वितीयेन मूषावक्त्रं निरुन्धयेत् ॥१२७॥
भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत् ।
मूषिकायास्त्रिभागं हि खनित्वा वसुधां क्षिपेत् ॥१२८॥
तदूर्ध्वं ध्मापयेत्सम्यक्दृढांगारैः खराग्निना ।
एवं संजारितं बीजं रसमध्ये पतत्यलम् ॥१२९॥
बन्धमायाति सूतेन्द्रः सारितो गुणवान्भवेत् ।
प्रथमं जारितश्चैव सारितः सर्वसिद्धिदः ॥१३०॥
नो जारितः सारितश्च कथं बन्धकरो भवेत् ।
गुरूपदेशतो दृष्टं सारणं कर्म चोत्तमम् ॥१३१॥
हस्तानुभवयोगेन कृतं सम्यक्श्रुतं नहि ॥१३२॥
-१५- क्रामण-
अथ क्रामणकं कर्म पारदस्य निगद्यते ।
शास्त्रात्कृतं न दृष्टं हि यथावत्क्रामयेद्रसम् ॥१३३॥
कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् ।
एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् ॥१३४॥
विषं च दरदश्चैव रसको रक्तकान्तकौ ।
इन्द्रगोपश्च तुवरी माक्षिकं काकविट्तथा ॥१३५॥
कल्कमेतदधोर्ध्वं हि मध्ये सूतं निधापयेत् ।
काचचूर्णं ततो दत्त्वा चान्धमूषागतं धमेत् ॥१३६॥
अनेन क्रामणेनैव पारदः क्रमते क्षणात् ।
इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ॥१३७॥
ताप्यसत्त्वं तथा नागं शुद्धं क्रामणकं तथा ।
बीजानि पारदस्यापि क्रमते च न संशयः ॥१३८॥
-१६- वेधन-
अथ वेधविधानं हि कथयामि सुविस्तरम् ।
येन विज्ञातमात्रेण वेधज्ञो जायते नरः ॥१३९॥
धूर्ततैलमहेःफेनं कंगुणीतैलमेव च ।
भृङ्गीतैलं विषं चैव तैलं जातीफलोद्भवम् ॥१४०॥
हयमारशिफातैलं अब्धेःशोषकतैलकम् ।
एतान्यन्यानि तैलानि विद्धि वेधकराणि च ॥१४१॥
सिद्धसूतेन च समं मर्दितं वेधकृद्भवेत् ॥१४२॥
-वेधभेदाः-
लेपवेधस्तथा क्षेपः कुंतवेधस्तथैव च ॥१४३॥
धूमाख्यः शब्दवेधः स्यादेवं पञ्चविधः स्मृतः ।
-लेपवेध-
सूक्ष्माणि ताम्रपत्राणि कलधूतभवानि च ।
कल्केन लेपितान्येव ध्मापयेदन्धमूषया ॥१४४॥
शीतीभूते तमुत्तार्य लेपवेधश्च कथ्यते ।
-क्षेपवेध-
द्रुते ताम्रेऽथवा रौप्ये रसं तत्र विनिक्षिपेत् ॥१४५॥
विध्यते तेन सहसा क्षेपवेधः स कथ्यते ।
-कुन्तवेध-
द्रावयेन्नागरूप्यं च ताम्रं चैव तथावरान् ॥१४६॥
पारदोऽन्यतमे पात्रे द्रावितेऽत्र नियोजितः ।
वेधते कुन्तवेधः स्यादिति शास्त्रविदोऽब्रुवन् ॥१४७॥
-धूमवेध-
धूमस्पर्शेन जायन्ते धातवो हेमरूप्यकौ ।
धूमवेधः स विज्ञेयो रसराजस्य निश्चितम् ॥१४८॥
-शब्दवेध-
बद्धे रसवरे साक्षात्स्पर्शनाज्जायते रवः ।
तथैव जायते वेधः शब्दवेधः स कथ्यते ॥१४९॥
-१७- रञ्जन-
अथेदानीं प्रवक्ष्यामि रंजनं पारदस्य हि ।
रञ्जितः क्रामितश्चैव साक्षाद्देवो महेश्वरः ॥१५०॥
रंजनं लोहताम्राभ्यां रसकेन विधीयते ।
तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥१५१॥
गन्धरागेण कर्तव्यं पारदस्याथ रंजनम् ।
ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥१५२॥
अंधमूषागतं सूतं रञ्जयेत्ताम्रकादिभिः ।
इष्टिकायन्त्रयोगेन गन्धरागेण रञ्जयेत् ॥१५३॥
रसकस्य च रागेण तुलायन्त्रस्य योगतः ।
-मेर्चुर्यः रञ्जन-
मर्दनात्तीक्ष्णचूर्णेन रञ्जयेत्सूतकं सदा ॥१५४॥
-मेर्चुर्यः रञ्जन-
ताम्रकल्कीकृतेनैव स्थापयेत्सप्तवासरम् ।
रंजनं सूतराजस्य जायते नात्र संशयः ॥१५५॥
-मेर्चुर्यः रञ्जन-
मृण्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता ।
तन्मध्ये पारदं क्षिप्त्वा ध्मानाद्रञ्जनकं भवेत् ॥१५६॥
मया संक्षेपतः प्रोक्तं रंजनं पारदस्य हि ।
शास्त्रमार्गेण बहुधा रंजनं हि निदर्शितम् ॥१५७॥
-१८- सेवन-
अथ सेवनकं कर्म पारदस्य दशाष्टमम् ।
कथ्यतेऽत्र प्रयत्नेन विस्तरेण मयाधुना ॥१५८॥
यत्नेन सेवितः सूतः शास्त्रमार्गेण सिद्धिदः ।
अन्यथा भक्षितश्चैव विषवन्मारयेन्नरम् ॥१५९॥
आदौ तु वमनं कृत्वा पश्चाद्रेचनमाचरेत् ।
ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥१६०॥
सम्यक्सूतवरः शुद्धो देहलोहकरः सदा ।
सेवितः सर्वरोगघ्नः सर्वसिद्धिकरो भवेत् ॥१६१॥
यावन्मानेन लोहस्य गद्याणे वेधकृद्भवेत् ।
तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥१६२॥
राजिकाथ प्रियंगुश्च सर्षपो मुद्गमाषकौ ।
रक्तिका चणको वाथ वल्लमात्रो भवेद्रसः ॥१६३॥
एषा मात्रा रसे प्रोक्ता सर्वकर्मविशारदैः ।
अनुपानेन भुञ्जीत पर्णखण्डिकया सह ॥१६४॥
इत्थं संसेविते सूते सर्वरोगाद्विमुच्यते ।
सर्वपापाद्विनिर्मुक्तः प्राप्नोति परमां गतिम् ॥१६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:50:59.9370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

reverse classification

  • व्युत्क्रमी वर्गीकरण 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site