TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकर - अध्याय ३

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अध्याय ३
अथ मया रसभस्म निगद्यते सकलपारदशास्त्रनियोगतः ।
ससितकृष्णसुपीतकलोहितं भवति वर्णचतुष्टयभूषितम् ॥१॥
हंसपाकदरदः सुशोभितो निखिलनिम्बरसेन विमर्दितः ।
नियतयामचतुष्टयमम्लके घनरसे समभागविलोडितः ॥२॥
डमरुकाभिधयंत्रनिवेशितस्तदनु लोहरजः खटिकासमम् ।
सुपयसा लवणेन विमर्दितं कुरु भिषग्वर यन्त्रसुरोधनम् ॥३॥
नियतयामचतुष्टयवह्निना मृदु समं रसमत्र विपाचयेत् ।
उपरि तत्र जलेन निषिञ्चयेदिति भवेद्दरदाद्वरसूतकः ॥४॥
अखिलशोधवरेण च वै यथा सकलकञ्चुकदोषविवर्जितः ।
बहुलदोषहरोऽपि भवेत्तथा भवति शुद्धतमो दरदोद्भवः ॥५॥
-(रसकर्पूर?)-
विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकांक्षिकाः ।
पृथगिमाश्च चतुष्पलभागिकाः स्फटिकशुद्धपलाष्टकसंमिताः ॥६॥
सह जलेन विमृद्य च यामकं लवणकाम्लजलेन विमिश्रिताः ।
उदितधातुगणस्य च मूषिकां कुरु विषं विनिवेशय तत्र वै ॥७॥
डमरूकाभिधयंत्रवरेण तं द्विदशयामममुं पच वह्निना ।
पवनपित्तकफक्षयहारकः सकलरोगहरः परमः सदा ॥८॥
गजपतेर्बलवद्बलदो नृणां द्विजपतीक्षणवन्नयनप्रदः ।
युवतिकामविलासविधायको भवति सूतवरः सुखदः सदा ।
सघनसाररसः किल कान्तिदस्त्वखिलकुष्ठहरः कथितो मया ॥९॥
-अरुणभस्मन्-
विगतदोषकृतौ रसगंधकौ तदनु लुङ्गरसेन परिप्लुतौ ।
प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ॥१०॥
रुचिरकाचघटीविनिवेशितौ सिकतयंत्रवरेण दिनत्रयम् ।
कुरु भिषग्वर वह्निं अधस्ततः स च भवेदरुणः कमलच्छविः ॥११॥
उदयभास्करनामरसो ह्ययं भवति रोगविघातकरः स्वयम् ।
मगधजामधुना सह गुञ्जिका त्रयमितश्च सदा परिसेवितः ॥१२॥
ललितकामविधावभिलाषुकः स्थविरकोऽपि रतौ तरुणायते ।
गदहरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा ।
सकलसूतकशास्त्रविमर्शनाद्द्विजवरेण मया प्रकटीकृतः ॥१३॥
- रेद्भस्मन्-
रसविदापि रसः परिशोधितो विगतदोषकृतोऽपि हि गंधकः ।
विमललोहमये कृतखर्परे ह्यमलसाररजः परिमुच्यताम् ॥१४॥
अतिकुशाग्नियुते द्रवति स्वयं तदनु तत्र रसः परिमुच्यताम् ।
विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम् ॥१५॥
तदनु काचघटीं विनिवेश्य वै सिकतयन्त्रवरेण हि पाचितः ।
द्विदशयाममधःकृतवह्निना भवति रक्तरसस्तलभस्मसात् ॥१६॥
गतबलेन नरेण सुसेवितो भवति वाजिकरः सुखदः सदा ॥१७॥
स च वलीपलितानि विनाशयेच्छतशरत्सु निरामयकृत्परम् ॥१८॥
- रेद्भस्मन्-
विमलनागवरैकविभागिकं हरजभागचतुष्टयमिश्रितम् ।
सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक् ॥१९॥
दिनमितं सुविमर्द्य च कन्यका स्वरस ऐनकरेण विशोषयेत् ।
तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥२०॥
दिवसयुग्ममधः कृतवह्निना स च भवेदरुणः कमलच्छविः ।
सकलरोगविनाशनवह्निकृत्बलकरः परमोऽपि हि कान्तिकृत् ॥२१॥
नयनरोगविनाशकरो भवेत्सकलकामुकविभ्रमकारकः ।
स खलु कर्मविपाकजरोगहा विशदनागयुतः खलु पारदः ॥२२॥
- जारण wइथ्सुल्फ़ुर्-
मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुता ।
रसवरं दशशाणमितं हि तत्सशुकपिच्छवरेण निधापयेत् ॥२३॥
सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवकेन वै ।
स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम् ॥२४॥
तदनु कुक्कुटानां पुटे शृतो हुपलकेन वनोद्भवकेन वै ।
विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकं अश्नुते ॥२५॥
स च शरीरकरोऽप्यथ लोहकृत्सकलसिद्धिकरः परमो भवेत् ।
शतगुणं हि यदा परिजीर्यते रसवरः खलु हेमकरो भवेत् ॥२६॥
- रसपोट्टली-
सशुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टितः ।
दृढतरामुपकल्पय पर्पटीं वसनबद्धकृतामपि पोटलीम् ॥२७॥
उपरि नागरसेन विलेपिता रविकरेण सदा परिशोषिताम् ।
कनकपत्ररसेन च सप्तधाप्यवनिगर्ततले विनिवेशय ॥२८॥
अवनिगर्तं अरत्निकं आयतं द्विदशमङ्गुलमेव सुनिम्नकम् ।
सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशय पोट्टलीम् ॥२९॥
उपरि वालुकया परिपूर्य तच्छगणकैश्च पुटं परिदीयताम् ।
द्विदशयामं अथाग्निमहो कुरु भवति तेन महारसपोटली ।
इति मया कथिता रसपोटली बलकरा सुकरा सुखसिद्धिदा ॥३०॥
- मारण-
विशदसूतसमोऽपि हि गंधकस्तदनु खल्वतले सुविमर्दितः ।
त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषितः ॥३१॥
विमललोहमये दृढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै ।
करमिता सुकृतापि हि चुह्लिका ह्युपरि तत्र निवेशय च भाजनम् ॥३२॥
अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत् ।
तदनु वह्निमधः कुरु वै दृढं सततमेव हि यामचतुष्टयम् ॥३३॥
सुपच एष रसो जलदोपमो भवति वल्लमितो मधुना युतः ।
कवलितः क्षयरोगगणापहो मदनवृद्धिकरः परमो नृणाम् ॥३४॥
स च वलीपलितानि विनाशयेत्सकलकुष्ठविनाशकरः परः ॥३५॥
- मारण-
मृदुमृदा परिकल्पितमूषिकां रसमिताङ्गुलिकां भुवि संन्यसेत् ।
रसवरं विमलं च सुशोभितं सशुकपिच्छसमं परिमर्दितम् ॥३६॥
रससमानमितं धृतमूषया द्वितययुग्मकृतं परिमुद्रितम् ।
कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्निना ॥३७॥
रसवरस्य शुभं हि विपाचनं यवमितो रसराजवरस्तदा ।
दिनमुखे प्रतिहन्ति सुभक्षितः सकलदोषकृतां विकृतिं जयेत् ॥३८॥
-रसपर्पटी-
रसवरं पलयुग्ममितं शुभं रुचिरताम्रमयः समभागिकम् ।
बलिवसां च घृतेन विमर्दयेदतिकृशाग्निकृते द्रवति स्वयम् ॥३९॥
तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम् ।
द्रुतमयं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम् ॥४०॥
विघटयेदथ लोहसुदर्विणा तदनु मोचदलोपरि ढाल्यते ।
भवति सारतमा रसपर्पटी सकलरोगविघातकरी हि सा ॥४१॥
कुरु समानकटुत्रयसंयुतां मरिचयुग्ममितां सुखदां सदा ॥४२॥
अनुपाने प्रयोक्तव्या त्रिफलाक्षौद्रसंयुता ।
पर्पटीं भक्षयेत्प्रातस्तथा त्र्यूषणसंयुताम् ॥४३॥
सन्निपातहरा सा तु पञ्चकोलेन संयुता ।
भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥४४॥
कणाक्षौद्रेण सहिता सर्वशोफान्निकृन्तति ।
श्यामात्रिकटुकेनापि वातजां ग्रहणीं जयेत् ॥४५॥
गुग्गुलुत्रिफलासार्धं वातरक्तं विनाशयेत् ।
वातशूलहरा सम्यखिंगुपुष्करसंयुता ॥४६॥
व्योषैः कन्यारसैर्वापि कफामयविनाशिनी ।
दशमूलशृतेनापि वातज्वरनिबर्हणी ॥४७॥
वाकुचीबीजकल्केन कण्डूपामे विनाशयेत् ।
आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥४८॥
गोमूत्रेणानुपानेन चार्शोरोगविनाशिनी ।
नवमाल्यर्जुनश्चैव चित्रको भृङ्गराजकः ॥४९॥
शाल्मली निम्बपंचांगं कल्हारश्च गुडूचिका ।
निर्गुंडी च समांशानि कारयेद्भिषगुत्तमः ॥५०॥
चूर्णीकृत्य च तत्सर्वं पर्पट्याश्चानुपानकम् ।
अष्टादश च कुष्ठानि निहन्त्येव न संशयः ॥५१॥
पर्पटी रसराजश्च रोगान्हन्त्यनुपानतः ।
अपथ्यं नैव भुञ्जीयाद्दोषदूष्याद्यपेक्षया ॥५२॥
-रसपर्पटी-
शुद्धं रसं गंधकमेव शुद्धं पृथक्समांशं कुरु यत्नतस्ततः ।
एरंडमूलस्य रसेन सूतं तथाद्रिकर्ण्या स्वरसेन मर्दयेत् ॥५३॥
तं काकमाच्याः स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयैः ।
क्रमेण सूतं हि दिनैश्चतुर्भिः शुद्धत्वमायाति हि निश्चयेन ॥५४॥
ततस्तु गंधं खलु मार्कवद्रवैर्विभाव्यमानं कुरु लोहपात्रे ।
प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद्भृंगरसे त्रिवारम् ॥५५॥
कार्या ततः कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे ।
प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात् ॥५६॥
तस्यास्त्वधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता ।
रोगानशेषान्मलदोषजातान्हिनस्ति चैषा रसपर्पटी हि ॥५७॥
सा जीरकेणैव तु रामठेन वातामशूलं गृहणीं सकामलाम् ।
गुल्मानि चाष्टावुदराणि हन्यात्संसेविता शुद्धरसस्य पर्पटी ॥५८॥
मयापि सद्वैद्यहिताय नूनं प्रदर्शितेयं खलु रोगनाशिनी ॥५९॥
- मारण-
सूतं सुशुद्धं लवणैश्चतुर्भिः क्षारैस्त्रिभिश्चापि विमर्दयेच्च ।
संशोष्य पश्चादपि हिंगुराजिका शुंठीभिरेभिश्च समं विमर्द्य ॥६०॥
रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम् ।
तस्यां निधायाथ रसस्य गोलकं तं स्वेदितं चाम्लरसेन सम्यक् ॥६१॥
यामाष्टकेनाग्निकृतेन दोलया पश्चाद्रसेनाभिविमर्दितोऽसौ ।
भेकपर्ण्युरुवुभृंगराजकैः शृङ्गवेरगिरिकर्णिकारसैः ॥६२॥
काकमाचिजविभक्तिकाजलैर्धूर्तजैरपि जयन्तिकाद्रवैः ।
सिंधुवारकरसेन मर्दितं मसृणखल्वतले त्रिवासरम् ॥६३॥
प्रतिरसं च विशोष्य हि भक्षयेद्रक्तिकाद्वयमितं रुजापहम् ।
केकिमाहिषवराहपित्तकैः कच्छपस्य च रसेन मर्दितम् ।
जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत् ॥६४॥
यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम् ।
लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥६५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:51:00.2800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

closed traverse

  • संपूर्ण वेढा 
  • संवृत रेखांकन 
RANDOM WORD

Did you know?

जर सर्व प्राण्य़ांचा आत्मा एकच असेल तर प्राणी पक्ष्यांची भुते होतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.