TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकर - अध्याय १०

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अध्याय १०
अथ यन्त्राणि वक्ष्यन्ते पारदो येन यन्त्र्यते ।
तस्माद्यन्त्रस्य रूपाणि दर्शनीयानि शास्त्रत ॥१॥
-यन्त्राणि-
दोला पलभलीयन्त्रं ऊर्ध्वपातनकं च यत् ।
अधपातनकं चापि तिर्यक्पातनकं तथा ॥२॥
घटीयन्त्रं गर्भयन्त्रं इष्टिका जलयन्त्रकम् ।
खल्वं डमरुकाख्यं च चिपिटाख्यं तुलाभिधम् ॥३॥
लवणं कोष्ठिकासंज्ञं अन्तरालिकसंज्ञितम् ।
धूपयन्त्रं नाभियन्त्रं ग्रस्तयन्त्रं तथैव च ॥४॥
विद्याधरं कुण्डकं च ढेकीसंज्ञं उदाहृतम् ।
सोमानलं च निगडं किंनरं भैरवाभिधम् ॥५॥
वालुकानामकं चापि पातालं भूधराभिधम् ।
सारणायन्त्रकं गुह्यं गन्धपिष्टकयन्त्रकम् ॥६॥
कूपीयन्त्रं पालिकाख्यं दीपिकायन्त्रकं तथा ।
स्थालीयन्त्रं भस्मयंत्रं देगयन्त्रमुदीरितम् ॥७॥
घाणिकायन्त्रमुद्दिष्टं हंसपाकाभिधं तथा ।
ऊनचत्वारिंशदत्र यन्त्राण्युक्तानि नामत ॥८॥
-मूषा-
अथ मूषाश्च कथ्यन्ते मृत्तिकाभेदत क्रमात् ।
-च्रुचिब्ले स्य्नोन्य्म्स्-
मूषा कुमुदिका प्रोक्ता कोविका करहाटिका ॥९॥
पातिनी कथ्यते सैव वह्निमित्रा प्रकीर्तिता ।
-योगमूषा-
तुषभस्मयुता मृत्स्ना वाल्मिकी बिडसंयुता ॥१०॥
तया या रचिता मूषा योगमूषेति कथ्यते ।
-गारमूषा-
गारभूनागसत्वाभ्यां शणैर्दग्धतुषैस्तथा ॥११॥
मर्दिता महिषीक्षीरे मृत्तिका पक्षमात्रकम् ।
तन्मृदा रचिता मूषा गारमूषेति कथ्यते ॥१२॥
-वरमूषा-
वस्त्रांगारतुषास्तुल्यास्तच्चतुर्गुणमृत्तिका ।
भूनागमृत्तिका तुल्या सर्वैरेभिर्विमर्दिता ।
कथिता वरमूषा सा यामं वह्निं सहेत वै ॥१३॥
-वर्णमूषा-
पूर्वोक्ता मृत्तिका या तु रक्तवर्गांबुभाविता ।
रक्तवर्गयुता मृत्स्ना कारिता मूषिका शुभा ॥१४॥
तुरीपुष्पकसीसाभ्यां लेपिता सा च मूषिका ।
वर्णोत्कर्षे प्रयोक्तव्या वर्णमूषेति कथ्यते ॥१५॥
-रूप्यमूषा-
श्वेतवर्गेण वै लिप्ता रूप्यमूषा प्रकीर्तिता ॥१६॥
-विडमूषा-
विडेन रचिता या तु विडेनैव प्रलेपिता ।
देहलोहार्थसिद्ध्यर्थं विडमूषेत्युदाहृता ॥१७॥
-वज्रमूषा-
गारभूनागसत्त्वाभ्यां तुषमिश्रा शणेन च ।
मृत्समा महिषीक्षीरैर्दिवसत्रयमर्दिता ॥१८॥
संस्थिता पक्षमात्रं हि पश्चान्मूषा कृता तया ।
लेपिता मत्कुणस्याथ शोणितेन बलारसै ॥१९॥
चतुर्यामं ध्मापिता हि द्रवते नैव वह्निना ।
वज्रमूषेति कथिता वज्रद्रावणहेतवे ॥२०॥
-वृन्ताकमूषा-
वृन्ताकाकारमूषायां नालं कृत्वा दशांगुलम् ।
धत्तूरपुष्पवद्दीर्घं सुदृढं चैव कारयेत् ॥२१॥
अष्टांगुलं च सच्छिद्रं भवेद्वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वं आहरेत् ॥२२॥
-गोस्तनमूषा-
गोस्तनाकारमूषा या मुखोपरि विमुद्रिता ।
सत्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥२३॥
-मल्लमूषा-
निर्दिष्टा मल्लमूषा या मल्लद्वितयसंपुटात् ।
रसपर्पटिकादीनां स्वेदनाय प्रकीर्तिता ॥२४॥
-पक्वमूषा-
पक्वमूषा कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥२५॥
-महामूषा-
अतिस्थूलातिदीर्घा च मुखे किंचिच्च विस्तृता ।
महामूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥२६॥
-मञ्जूषमूषा-
षडंगुलोन्नता दीर्घा चतुरस्रा च निम्नका ।
मञ्जूषाकारमूषा सा कथिता रसमारणे ॥२७॥
-गर्भमूषा-
भूमौ निखन्यमानां हि मूषामाच्छाद्य वालुकै ।
गर्भमूषा तु सा ज्ञेया पारदस्य निबन्धिनी ॥२८॥
-मुशलमूषा-
मूषा या चिपिटा मूले वर्तुलाष्टांगुलोच्छ्रया ।
मूषा सा मुसलाख्या स्याच्चक्रीबद्धरसे हिता ॥२९॥
-कोष्टय, अङ्गारकोष्ठी-
अंगारकोष्ठिका नाम राजहस्तप्रमाणका ।
द्वादशांगुलविस्तारा चतुरस्रा प्रकीर्तिता ॥३०॥
वेष्टिता मृण्मयेनाथ एकभित्तौ च गर्तकम् ।
वितस्तिमात्रं द्वारं च सार्धवैतस्तिकं दृढम् ॥३१॥
अधोभागे विधातव्या देहली धमनाय वै ।
प्रादेशमात्रा भित्ति स्यादुत्तरङ्गस्य चोर्ध्वत ॥३२॥
प्रादेशमात्रं कर्तव्यं द्वारं तस्योपरि ध्रुवम् ।
द्वारं चेष्टिकया रुद्ध्वा संधिरोधं च कारयेत् ॥३३॥
पूरयेत्कोकिलैस्तां तु भस्त्रिकां प्रधमेत्खलु ।
कोकिलाधमनद्रव्यं ऊर्ध्वद्वारे विनिक्षिपेत् ॥३४॥
एषा चांगारकोष्ठी च खराणां सत्त्वपातनी ॥३५॥
-पातालकोष्ठी-
गर्तं खनेद्दृढं भूमौ द्वादशांगुलमात्रकम् ।
तन्मध्ये वर्तुलं गर्तं चतुरङ्गुलकं दृढम् ॥३६॥
खर्परं स्थापयेत्तत्र मध्यगर्तोपरि दृढम् ।
आपूर्य कोकिलैर्गर्तं प्रधमेदेकभस्त्रया ।
पातालकोष्ठिका सा तु मृदुसत्त्वस्य पातनी ॥३७॥
-गारकोष्ठी-
वितस्तिप्रमिता निम्ना प्रादेशप्रमिता तथा ।
उपरिष्टात्पिधानं तु भूरिच्छिद्रसमन्वितम् ॥३८॥
गर्तमापूर्य चांगारै प्रधमेद्वंकनालत ।
गारगोष्ठी समुद्दिष्टा सत्वपातनहेतवे ॥३९॥
-तिर्यक्प्रधमनकोष्ठी-
वितस्तिप्रमितोत्सेधा सा बुध्ने चतुरंगुला ।
तिर्यक्प्रधमनाख्या च मृदुसत्वस्य पातनी ॥४०॥
-महापुट-
भूम्यां वै खनयेद्गर्तं द्विहस्तं चतुरस्रकम् ।
छगणानां सहस्रेण पूरयेत्तमनन्तरम् ॥४१॥
औषधं धारयेन्मध्ये तमाच्छाद्य वनोत्पलै ।
सहस्रार्धैश्च वै सम्यग् वह्निं प्रज्वालयेत्तत ॥४२॥
महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ॥४३॥
-गजपुट-
राजहस्तप्रमाणं हि चतुरस्रं हि गर्तकम् ।
वनोत्पलसहस्रेण गर्तमध्यं च पूरितम् ॥४४॥
मूषिकां चौषधेनाथ पूरितां तां तु मुद्रयेत् ।
गर्तमध्ये निधायाथ गिरिण्डानि च निक्षिपेत् ।
अधोऽग्निं ज्वालयेत्सम्यकेवं गजपुटो भवेत् ॥४५॥
-वाराहपुट-
अरत्निमात्रे कुण्डे च वाराहपुटमुच्यते ।
-कुक्कुटपुट-
वितस्तिद्वयमानेन गर्तं चेच्चतुरस्रकम् ।
कुक्कुटाख्यं पुटं विद्यादौषधानां च साधनम् ॥४६॥
-कपोतपुट-
छगणैरष्टभि सम्यक्कपोतपुटमुच्यते ॥४७॥
-गोवरपुट-
तुषैर्वा गोमयैर्वापि रसभस्मप्रसाधनम् ।
माणिकाद्वयमानेन गोवरं पुटमुच्यते ॥४८॥
-मृद्भाण्डपुट-
मृदा भाण्डं प्रपूर्यैव मध्ये द्रव्यं तु विन्यसेत् ।
अधस्ताज्ज्वालयेदग्निं मृद्भाण्डपुटमुच्यते ॥४९॥
-वालुकापुट-
गर्ते तु वालुकापूर्णे मध्ये द्रव्यं तु विन्यसेत् ।
उपरिष्टादधस्ताच्च वह्निं कुर्यात्प्रयत्नत ।
तद्वालुकापुटं सम्यगुच्यते शास्त्रकोविदै ॥५०॥
-भूधरपुट-
मूषिकां भूमिमध्ये तु स्थापितां द्व्यंगुलादध ।
उपरिष्टात्पुटं दद्यात्तत्पुटं भूधराह्वयम् ॥५१॥
-लावकपुट-
गोवरैर्वा तुषैर्वापि कर्षमात्रमितै पुटम् ।
यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥५२॥
-द्रिएद्चोwदुन्ग्-
उत्पलं पिष्टकं छाणं उपलं च गरिण्डकम् ।
छगणोपलसारी च नवारि छगणाभिधा ॥५३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:51:01.5300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

orogeny

  • गिरिजनन 
  • = orogenesis 
  • गिरिजनन 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site