TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसप्रकाशसुधाकर - अध्याय ५

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


अध्याय ५
अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान् ।
तेषां नामानि वर्गांश्च सत्त्वानि तद्गुणांस्तथा ॥१॥
-महारसा-
क्रमेण गगनं ताप्यं वैक्रांतं विमलं तथा ।
रसकं शैलसंभूतं राजावर्तकसस्यके ।
एते महारसाश्चाष्टावुदिता रसवादिभि ॥२॥
-अभ्र सुब्त्य्पेस चोलोउर्-
क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम् ।
श्वेतं रक्तं तथा पीतं कृष्णं परमसुंदरम् ॥३॥
श्वेतं श्वेतक्रियायोग्यं रक्तं पीतं हि पीतकृत् ।
कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ॥४॥
-अभ्र सुब्त्य्पेस्-
वज्रं पिनाकं नागं च मंडूकमभिधीयते ।
अनेन विधिना प्रोक्ता भेदा सन्तीह षोडश ॥५॥
अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा ।
शेषाणि त्रीणि चाभ्राणि घोरान्व्याधीन्सृजन्ति हि ।
तस्माद्यत्नेन सद्वैद्यैर्वर्जनीयानि नित्यश ॥६॥
-वज्र परीक्षा-
वज्राभ्रं धम्यमानेऽग्नौ विकृतिं न क्वचिद्भजेत् ।
सेवितं तन्मृतिं हन्ति वज्राभं कुरुते वपु ॥७॥
-पिनाक परीक्षा-
पिनाकं चाग्निसंतप्तं विमुञ्चति दलोच्चयम् ।
सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम् ॥८॥
-नाग परीक्षा-
नागाभ्रं ध्मापितं सम्यक्नागवत्स्फूर्जते ध्रुवम् ।
-नाग मेदिच्- प्रोपेर्तिएस्-
सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम् ॥९॥
विषं हालाहलं पीतं मारयत्येव निश्चितम् ।
तथा नागाभ्रनामेदं सद्वैद्य कथयत्यलम् ॥१०॥
-मण्डूक परीक्षा-
मंडूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यश ।
क्षणं चाग्नौ न तिष्ठेत मंडूकसदृशां गतिम् ॥११॥
मंडूकाभ्रं न सेव्यं हि कथितं रसवेदिभि ॥१२॥
-अभ्रक शोधन-
स्वेदयेद्दिनमेकं तु कांजिकेन तथाभ्रकम् ।
पश्चात्कुलत्थजे क्वाथे तक्रे मूत्रेऽथ वह्निना ॥१३॥
-अभ्र शोधन-
पाचितं दोषशून्यं तु शुद्धिमायाति निश्चितम् ।
तथाग्नौ परितप्तं तु निषिञ्चेत्सप्तवारकम् ॥१४॥
कांजिके चापि निर्दोषं अभ्रके जायते ध्रुवम् ।
वराक्वाथे तथा दुग्धे गवां मूत्रे तथैव च ।
मार्कवस्य रसेनापि दोषशून्यं प्रजायते ॥१५॥
-अभ्र मारण-
सूक्ष्मचूर्णं तत कृत्वा पिष्ट्वा हंसपदीरसै ।
चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्वये ॥१६॥
षट्पुटानि ततो दत्त्वा पुनरेवं पुनर्नवा ।
रसेन मर्दितं गाढं अभ्रांशेन तु टंकणम् ॥१७॥
पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु ।
तण्डुलीयरसेनैव तद्वद्वासारसेन च ॥१८॥
पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम् ।
अनेन विधिना चाभ्रं म्रियते नात्र संशय ।
चन्द्रिकारहितं सम्यक्सिंदूराभं प्रजायते ॥१९॥
-अभ्र मारण-
कासमर्दरसेनैव धान्याभ्रं पाचितं शुभम् ।
शतवारेण म्रियते नात्र कार्या विचारणा ॥२०॥
-अभ्र मारण-
एवं मुस्तारसेनापि तण्डुलीयशिफारसै ।
टंकणेन समं पिष्ट्वा चक्राकारमथाभ्रकम् ॥२१॥
षष्टिसंख्यपुटै पक्वं सिन्दूरसदृशं भवेत् ।
कुष्ठक्षयादिरोगघ्नं अभ्रकं जायते ध्रुवम् ॥२२॥
-अभ्र मारण-
नागवल्लीदलरसैर्वटमूलत्वचा तथा ।
वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥२३॥
वटवृक्षस्य मूलेन मर्दितं पुटितं घनम् ।
सिंदूरसदृशं वर्णे भवेद्विंशतिमे पुटे ॥२४॥
सूक्ष्मं सूक्ष्मं जलप्लावं रक्तवर्णसमुज्ज्वलम् ।
सर्वरोगहरं चापि जायते बहुभि पुटै ॥२५॥
-अभ्र मृत मेदिच्- प्रोपेर्तिएस्-
मृतं वज्राभ्रकं सम्यक्सेवनीयं सदा बुधै ।
वलिपलितनाशाय दृढतायै शरीरिणाम् ॥२६॥
सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनं वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम् ।
भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं सद्य प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥२७॥

यथा विषं यथा वज्रं शस्त्रोऽग्नि प्राणहृद्यथा ।
भक्षितं चन्द्रिकायुक्तं अभ्रकं तादृशं गुणै ॥२८॥
-अभ्र सत्त्व पातन-
पादांशं टंकणं दत्त्वा मुसलीरसमर्दितम् ।
ध्मापितं कोष्ठिकायन्त्रे सत्त्वरूपं प्रजायते ॥२९॥
-अभ्र सत्त्व पातन-
खल्वे पिष्ट्वा तु मतिमान्सूक्ष्मचूर्णं तु कारयेत् ।
गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम् ॥३०॥
भर्जितं दशवाराणि लोहखर्परकेण वै ।
अग्निवर्णसमं यावत्तावत्पिष्ट्वा तु भर्जयेत् ॥३१॥
शुकपिच्छसमं पिष्ट्वा क्वाथे तु वटमूलजे ।
ततो विंशतिवाराणि पुटेच्छूकरसंज्ञकै ॥३२॥
वराकषायैर्मतिमान्तथा कुरु भिषग्वर ।
नीलीगुंजावरापथ्याम् ऊलकेन सुभावयेत् ॥३३॥
संशुष्कं भक्षयेद्विद्वान्सर्वरोगहरं परम् ।
अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम् ॥३४॥
यदि चेत्शतवाराणि पाचयेत्तीव्रवह्निना ।
तदामृतोपमं चाभ्रं देहलोहकरं परम् ॥३५॥
-अभ्र सत्त्व पातन-
धान्याभ्रकं तत कृत्वा द्वात्रिंशत्पलमात्रकम् ।
लाक्षागुंजाक्षुद्रमीना टङ्कणं दुग्धं आविकम् ॥३६॥
सर्षपा शिग्रुपिण्याकं सिन्धूत्थं मृगशृङ्गकम् ।
माक्षिकं च समांशानि सर्वाण्येव तु कारयेत् ॥३७॥
धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान्भिषक् ।
पुनर्नवाया वासाया कासमर्दस्य तण्डुलै ॥३८॥
मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसै पृथक् ।
खलगोधूमयोश्चूर्णै कारयेद्वटकान्शुभान् ॥३९॥
पश्चात्कोष्ठ्यां धमेच्छुष्कान्भस्त्रिकाद्वितयेन तान् ।
खदिरस्य तु चांगारै सत्वं निसरति ध्रुवम् ॥४०॥
पृथक्कृत्वा तु रवकान्कांस्यवर्णान्विशेषत ।
तत्किट्टं गोमयेनाथ वटकान्कारयेत्पुन ॥४१॥
ध्मापयेत्पूर्वविधिना पुन सत्वं हि निसरेत् ।
अनेन विधिना कार्यं पञ्चगव्येन मिश्रितम् ॥४२॥
पञ्चाजेनाथ महिषी पञ्चकेन समं कुरु ।
पतत्येवमसंदिग्धं सत्यं गुरुवचो यथा ॥४३॥
-अभ्र सत्त्व मारण-
अथाभ्रसत्त्वरवकानम्लवर्गेण पाचयेत् ।
शोधनीयगणेनैव मूषामध्ये तु शोधयेत् ॥४४॥
काचटंकणगुंजाज्य सारघै शोधयेत्खलु ।
मधुतैलवसाज्येषु दशवाराणि ढालयेत् ॥४५॥
मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा ।
सत्वस्य गोलकानेवं तप्तानेवं तु कांजिके ॥४६॥
निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया ।
अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत् ॥४७॥
भर्जयेद्घृतमध्ये तु त्रीणि वाराणि यत्नत ।
पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नत ॥४८॥
धात्रीपत्ररसेनापि तस्या फलरसेन वा ।
पुनर्भुवा वासया च कांजिकेनाथ गन्धकै ।
पुटयेद्दशवाराणि म्रियते चाभ्रसत्त्वकम् ॥४९॥
-अभ्र सत्त्व मृत मेदिच्- प्रोपेर्तिएस्-
मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम् ।
क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम् ॥५०॥
ज्वरान्मेहांश्च कासांश्च गुल्मान्पञ्चविधानपि ।
मन्दाग्निमुदराण्येवं अर्शांसि विविधानि च ॥५१॥
अनुपानप्रयोगेण सर्वरोगान्निहन्ति च ।
अभ्रसत्वगुणान्वक्तुं शक्यते न समासत ॥५२॥
-राजावर्त परीक्षा गूद्क़ुअलित्य्-
किंचिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभ सदा ।
तौल्ये गुरुश्च मसृणो राजावर्त्तो वर स्मृत ॥५३॥
-राजावर्त शोधन-
गोमूत्रेणाथ क्षारैश्च तथाम्लै स्वेदिता खलु ।
त्रिवारेण विशुध्यन्ति राजावर्तादयो रसा ॥५४॥
-राजावर्त मारण-
चूर्णित शुकपिच्छेन भृंगराजरसेन वै ।
सप्तवारेण पुटितो राजावर्त्तो मरिष्यति ॥५५॥
-राजावर्त मृत मेदिच्- प्रोपेर्तिएस्-
श्लेष्मप्रमेहदुर्नाम पाण्डुक्षयनिवारण ।
पाचनो दीपनश्चैव वृष्योऽनिलविषापह ॥५६॥
-राजावर्त सत्त्व पातन-
कोशातकी क्षीरकन्दो वंध्याकर्कोटकी तथा ।
काकमाची राजशमी त्रिफला गृहधूमक ॥५७॥
राजावर्तो रसैरेषां सत्वं मुञ्चति मर्दित ।
ध्मापित खदिरांगारैर्भस्त्रिकाद्वितयेन च ॥५८॥
-वैक्रान्त फ्य्स्- प्रोपेर्तिएस्-
अष्टधारोष्ठफलक षट्कोणो मसृणो गुरु ।
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रांत उच्यते ॥५९॥
-वैक्रान्त सुब्त्य्पेस चोलोउर्-
श्वेत पीतस्तथा कृष्णो नील पारावच्छवि ।
कर्बूर श्यामवर्णश्च वैक्रांतश्चाष्टधा स्मृत ॥६०॥
-वैक्रान्त शोधन-
क्वाथे कुलत्थजे स्विन्नो वैक्रांत शुध्यति ध्रुवम् ।
-वैक्रान्त मारण-
गन्धनिम्बूरसैर्मर्द्य पुटितो म्रियते ध्रुवम् ॥६१॥
-वैक्रान्त मृत मेदिच्- प्रोपेर्तिएस्-
आयुप्रदस्त्रिदोषघ्नो वृष्य प्राणप्रद सदा ।
वेगप्रदो वीर्यकर्ता प्रज्ञावर्णौ करोति हि ॥६२॥
रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा ।
वज्रवद्गुणकारी च वैक्रांतो रसबन्धक ॥६३॥
-वैक्रान्त सत्त्व पातन-
सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधै ।
शुष्कायितो वटीकृत्य मूषास्थो ध्मापितोऽपि वै ॥६४॥
सत्वं मुञ्चति वैक्रांत सत्यं गुरुवचो यथा ।
-वैक्रान्त सत्त्व मेदिच्- उसे-
मृतसूतेन तुल्यांशं सत्वं वैक्रांतसंभवम् ॥६५॥
मृताभ्रसत्वसंयुक्तं मर्दितं सममात्रकम् ।
कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम् ॥६६॥
सर्वान्रोगान्निहन्त्याशु जीवेद्वर्षशतं सुखी ।
त्रिवर्षसेवनान्नूनं वलीपलितनाशनम् ॥६७॥
-सस्यक म्य्थ्- ओरिगिन्-
सद्यो हालाहलं पीतं अमृतं गरुडेन च ।
सुधायुक्ते विषे वान्ते पर्वते मरुताह्वये ॥६८॥
घनीभूतं च संजातं सस्यकं खलु कथ्यते ।
-सस्यक परीक्षा गूद्क़ुअलित्य्-
नीलं मरकतच्छायं तेजोयुक्तं प्रशस्यते ॥६९॥
-सस्यक शोधन-
स्वेदितं माहिषाज्याभ्यां गवां मूत्रैर्नरस्य वा ।
दोलायन्त्रेण यामौ द्वौ शुध्यत्येव हि सस्यकम् ॥७०॥
-सस्यक मारण-
गंधाश्मटंकणाभ्यां च लकुचद्रावमर्दितम् ।
कुक्कुटाह्वै सप्तपुटैर्म्रियते चांधमूषया ॥७१॥
-सस्यक सत्त्व पातन-
निघृष्टं टंकणेनैव निम्बूद्रावेण मूषया ।
ध्मातं च ताम्ररूपं हि सत्त्वं मुञ्चति सस्यकम् ॥७२॥
विषेण सहितं यस्मात्तस्माद्विषगुणाधिकम् ।
सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥७३॥
-सस्यक मृत मेदिच्- प्रोपेर्तिएस्-
त्रिदोषशमनं चैव विषहृद्गुदशूलनुत् ।
अम्लपित्तविबन्धघ्नं रसायनवरं सदा ॥७४॥
वान्तिं करोति रेकं च श्वित्रकुष्ठापहं तथा ।
नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम् ॥७५॥
-सस्यक, भूनाग सत्त्व रिन्ग्-
भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम् ।
अनयोर्मुद्रैका कार्या शूलघ्नी सा भवेत्खलु ॥७६॥
डाकिनीभूतसंवेश चराचरविषं जयेत् ।
राज्ञां सदैव रक्षार्थं विधातव्या सुमुद्रिका ॥७७॥
-माक्षिक-
माक्षिकं द्विविधं ज्ञेयं रुक्मताप्यप्रभेदत ।
-स्वर्णमाक्षिक (?)-
प्रथमं माक्षिकं स्वर्णं कान्यकुब्जसमुत्थितम् ॥७८॥
सुवर्णवर्णसदृशं नववर्णसमन्वितम् ।
-माक्षिक ताप्य (-- स्वर्ण)-
तटे तपत्या संजातं ताप्याख्यं माक्षिकं वदेत् ॥७९॥
पाषाणदलसंमिश्रं पाण्डुरं पञ्चवर्णवत् ।
गुणाल्पकं भवत्येतत्स्वल्पं सत्त्वं विमुञ्चति ॥८०॥
-माक्षिक मारण-
मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च ।
गंधाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥८१॥
पञ्चवाराहपुटकैर्दग्धं मृतिमवाप्नुयात् ॥८२॥
-माक्षिक सत्त्व पातन-
लोहपात्रे सुसंदग्धं लोहदण्डेन घर्षितम् ।
यदा रक्तं धातुनिभं जायते निंबुकद्रवै ॥८३॥
घर्षयेत्त्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु ।
दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत् ॥८४॥
वस्त्रस्था पिष्टिका लग्ना त्वध पतति पारद ।
अनेनैव प्रकारेण द्वित्रिवारेण गालयेत् ॥८५॥
तत्पिष्टीगोलकं ग्राह्यं यंत्रे डमरुके न्यसेत् ।
प्रहरद्वयमात्रं चेदग्निं प्रज्वालयेदध ॥८६॥
इन्द्रगोपसमं सत्वं अधस्थं ग्राहयेत्सुधी ।
अनेनैव विधानेन ताप्यसत्वं समाहरेत् ॥८७॥
टंकणेन समायुक्तं द्रावितं मूषया यदा ।
तदा ताम्रप्रभं सत्वं जायते नात्र संशय ॥८८॥
देहलोहकरं सम्यक्देवीशास्त्रेण भाषितम् ॥८९॥
सर्वामयघ्नं सततं पारदस्यामृतं परम् ।
मेलनं कुरुते लोहे परमं च रसायनम् ॥९०॥
-विमल सुब्त्य्पेस्-
प्रथमो हेमविमलो हेमवद्वर्णसंयुत ।
द्वितीयो रूप्यविमलो रूप्यवद्दृश्यते खलु ॥९१॥
तृतीय कांस्यविमल कांस्यवर्णसमो हि स ।
-विमल फ्य्स्- प्रोपेर्तिएस्-
स्निग्धश्च वर्तुलश्चैव षट्कोण फलकान्वित ॥९२॥
-विमल शोधन-
वासारसे मर्दितो हि शुद्धोऽतिविमलो भवेत् ।
-विमल मारण-
गंधाश्मनिंबुकद्रावैर्मर्दित पुटितो मृतिम् ।
शृङ्गस्य भस्मना चापि पुटैश्च दशधा पुटेत् ॥९३॥
-विमल सत्त्व पातन-
निम्बूरसेन संपिष्ट्वा मूषामध्ये निरुध्य च ।
विमल सीससदृशं ध्मातो मुञ्चति सत्त्वकम् ॥९४॥
-विमल सत्त्व मेदिच्- उसे-
पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम् ।
द्रुते गंधे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥९५॥
मनशिला पञ्चगुणा वालुकायन्त्रके खलु ।
ज्वालयेत्क्रमशश्चैव पश्चाद्रजतभस्मकम् ॥९६॥
सममात्रं हि वैक्रांतं सर्वं संचूर्णयेत्खलु ।
संगाल्य यत्नतो वस्त्रात्स्थापयेत्कूपिकान्तरे ॥९७॥
वह्निं कुर्यादष्टयामं स्वांगशीतं समुद्धरेत् ।
वल्लमात्रं च मधुना लेहयेत्व्योषसंयुतम् ॥९८॥
बालानां रोगहरणं ज्वरपाण्डुप्रमेहनुत् ।
ग्रहणीकामलाशूल मन्दाग्निक्षयपित्तहृत् ॥९९॥
अनुपानविशेषणं सर्वरोगान्निहन्ति च ॥१००॥
वृष्य पित्तानिलहरो रसायनवर खलु ॥१०१॥
-शिलाजतु सुब्त्य्पेस्-
तत्राद्यं द्विविधं चैव सत्सत्वं सत्वहीनकम् ।
गुणाधिकं तयोर्मध्ये यत्पूर्वं सर्वदोषहृत् ॥१०२॥
-शिलाजतु ओरिगिन्फ़्रों रोच्क्स्-
निदाघे तीव्रतापाद्धि हिमप्रत्यन्तपर्वतात् ।
हेमतारार्कगर्भेभ्य शिलाजतु विनिसरेत् ॥१०३॥
-शिलाजतु फ़्रों गोल्द्-
बन्धूकपुष्पसदृशं गुरु स्निग्धं सुशीतलम् ।
रुक्मगर्भगिरौ जातं परमं तद्रसायनम् ॥१०४॥
किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत् ॥१०५॥
-शिलाजतु फ़्रों सिल्वेर्-
तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम् ।
पित्तपाण्डुक्षयघ्नं च शिलाजतु हि पाण्डुरम् ॥१०६॥
-शिलाजतु फ़्रों चोप्पेर्-
शुल्वगर्भगिरेर्जातं कृष्णवर्णं घनं गुरु ।
गिरिजं कफवातघ्नं विशेषात्सर्वरोगजित् ॥१०७॥
-शिलाजतु परीक्षा शुद्ध-
अग्नौ यज्जायते क्षिप्तं लिंगाकारमधूमकम् ।
उदके च विलीयेत तच्छुद्धं च विधीयते ॥१०८॥
-शिलाजतु शोधन-
अम्लैश्च गुग्गुलूपेतै क्षाराद्यैर्भाण्डमध्यत ।
विशुध्यति शिलाजातं स्वेदितं घटिकाद्वयम् ॥१०९॥
-शिलाजतु मारण-
मनशिलालुङ्गरसै शिलया गंधकेन वा ।
तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम् ॥११०॥
छगणैरष्टभि कृत्वा भस्मीभूतं शिलाजतु ॥१११॥
-शिलाजतु मेदिच्- उसे-
शिलाजतु तु संशुद्धं सेवेत य पुमान्सदा ।
जीवेद्वर्षशतं साग्रं न रोगैर्बाध्यते खलु ॥११२॥
मूत्रकृच्छ्राश्मरीरोगा प्रयान्त्येव न संशय ।
महारसे चोपरसे धातुरत्नेषु पारदे ।
ये गुणा कथिता सद्भि शिलाधातौ वदन्ति ते ॥११३॥
वैक्रांतकांतत्रिफला त्रिकटुभि समन्वितम् ।
वल्लोन्मितं वै सेवेत सर्वरोगगणापहम् ॥११४॥
पलितं वलिभि सार्धं हन्यादेव न संशय ॥११५॥
-कर्पूरशिलाजतु-
कर्पूरसदृशं श्वेतं कर्पूराख्यं शिलाजतु ।
-कर्पूरशिलाजतु मेदिच्- प्रोपेर्तिएस्-
अश्मरीमेहकृच्छ्रघ्नं कामलापाण्डुनाशनम् ॥११६॥
-कर्पूरशिलाजतु शोधन-
अम्लतोयेन संस्विन्नं शुष्कं शुद्धिमुपैति च ।
-कर्पूरशिलाजतु मारण, सत्त्वपातन-
नोदितं मारणं तस्य सत्वपातनकं बुधै ॥११७॥
-रसक सुब्त्य्पेस्-
द्विविधो रसक प्रोक्त कारवेल्लकदर्दुर ।
-कारवेल्लक मेदिच्- प्रोपेर्तिएस्-
सत्वपाते पर प्रोक्त प्रथमश्चौषधादिषु ॥११८॥
सर्वमेहहरश्चैव पित्तश्लेष्मविनाशन ।
नागार्जुनेन कथितौ सिद्धौ श्रेष्ठरसावुभौ ॥११९॥
कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ ।
तेन स्वर्गमयी सिद्धिरर्जिता नात्र संशय ॥१२०॥
-रसक शोधन-
रसकस्तापित सम्यक्निक्षिप्तो रसपूरके ।
निर्मलत्वमवाप्नोति सप्तवारं निमज्जित ॥१२१॥
-रसक शोधन-
कांजिके वाथ तक्रे वा नृमूत्रे मेषमूत्रके ।
द्रावितो ढालित सम्यक्खर्पर परिशुध्यति ॥१२२॥
-रसक रञ्जन ओफ़् चोप्पेर्wइथ्~-
खर्परं रेतितं शुद्धं स्थापितं नरमूत्रके ।
रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥१२३॥
-रसक सत्त्व पातन-
शिला हरिद्रा त्रिफला गृहधूमै ससैंधवै ।
भल्लातकैष्टंकणैश्च क्षारैरम्लैश्च वर्तितम् ॥१२४॥
पादांशसंयुतैर्मूषां वृंताकफलसन्निभाम् ।
निरुध्य शोषयित्वाथ मूषां मूषोपरि न्यसेत् ॥१२५॥
प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा ।
लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम् ॥१२६॥
भूम्यां आढालयेत्सत्त्वं यथा नालं न भज्यते ।
तदा सीसोपमं सत्वं पतत्येव न संशय ॥१२७॥
अनेनैव प्रकारेण त्रिवारं हि कृते सति ।
विनिसरेत्सर्वसत्वं सत्यं हि गुरुणोदितम् ॥१२८॥
-रसक सत्त्व मारण-
तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे ।
घर्षयेल्लोहदण्डेन म्रियते च न संशय ॥१२९॥
-रसक सत्त्व मृत मेदिच्- उसे-
मृतं सत्वं मृतं कांतं समांशेनापि योजितम् ।
माषमात्रमिदं चूर्णं वराक्वाथेन संयुतम् ॥१३०॥
लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम् ।
निहन्ति मधुमेहं च क्षयं पाण्डुं तथानिलम् ॥१३१॥
योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि ।
स्त्रीरोगान्हन्ति सर्वांश्च श्वासकासपुरोगमान् ॥१३२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:51:00.6400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

pilotage

  • मार्गदर्शन प्रभार 
  • न. बंदरवाटाड्याचे वेतन 
  • स्त्री. कर्णधारता 
RANDOM WORD

Did you know?

गणपतीचे प्रकार किती व कोणते?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site