TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उच्चावचप्रवाहवीचयः - सुभाषित २१०१ - २१२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित २१०१ - २१२०
२१. रावणः

दोर्दण्डास्त इमे त्रिलोचनगिरेरुत्तम्भसम्भावितास्
तान्येतानि दशाननानि दशभिर्दिग्भिर्यदाज्ञा कृता ।
यस्याद्यापि स एव वीर्यमहिमा तस्मिन्नरस्तापसः
शोच्यः सोऽपि रिपुः स चैव कुपितस्तस्यापि दूतः कपिः ॥२१०१॥

कस्यचित।

धन्यः श्रीदशकन्धरः परमयं रक्षोगणग्रामणीर्
एका सा निकषा परं तनयसूर्यस्याः सुतो रावणः ।
द्वारे निर्जरशेखरार्चितपदद्वन्द्वश्चिरं वृत्रहा
यस्यास्थानविलम्बकारणकथाताम्यन्मनास्तिष्ठति ॥२१०२॥

कस्यचित।

रुद्रादेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं
कारावेश्मनि पुष्करस्य चजयो यस्येदृशाः केलयः ।
सोऽहं दुर्दमबाहुदण्डसचिवो लङ्केश्वरस्तस्य मे
का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥२१०३॥

कस्यचित। (सु.र. १५४८, बा.रा. १.५१)

भग्नं भग्नमुमापतेरजगवं बाली क्षतश्च क्षतस्
तालाः सप्त हता हताश्च जलधिर्बद्धश्च बद्धश्च सः ।
आः किं तेन सशैलसागरधराधारोरगेन्द्रास्पदं
साद्रिं रुद्रमुदस्यतो निजभुजाञ्जानात्ययं रावणः ॥२१०४॥

कस्यचित।

न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः
सोऽप्यत्रैव निहन्ति राक्षसभटान्जीवत्यहो रावणः ।
धिक्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥२१०५॥

कस्यचित। (ध्वन्यालोकः ३.१६, सा.द. उन्देर्१.२, बा.रा.शेष ३.११)

२२. रावणशिरश्छेदः

कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्नद्युतेर्
येन स्मेरमुखेन होमशिखिनः संधुक्षणाकाङ्क्षिणा ।
भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः
शौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ॥२१०६॥

कस्यचित।

स्वसत्त्वस्योद्रेकादपि दश शिरांसि स्वयमयं
सकृच्छित्त्वा छित्त्वा भुजपरिघमृष्ठासृगभितः ।
मुखानां स्मेराक्ष्णां सरभसविकाशादुदयिनां
किमद्राक्षील्लक्ष्मीं पतितपतितानां निपतताम् ॥२१०७॥

कस्य्चचित।

निस्त्रिंशप्रतिबिम्बितेऽपि यदुरःकम्पो न वीरव्रत
प्रौढिः सेति न चन्द्रहासमधुनोत्कण्टच्छिदा पर्वणि ।
जूहुषुः स्वशिरांसि शङ्करपुरोहाकारवैरेण यः
स्वाहाकारमुदाहरन्न स दशग्रीवो गिरां गोचरः ॥२१०८॥

कस्यचित।

श्रीकण्ठस्य पुरः परस्परबलाधिक्षेपकक्षावतां
बाहूनां दशकद्वयं दशशिरश्छेदे विवादाकुलम् ।
प्रत्येकं शमयत्यसावभिमतव्याक्षेपसापत्रपश्
छिन्धि त्वं जुहुधि त्वमित्युपदिशन्नेकः परं रावणः ॥२१०९॥

कस्यचित।

लूने पञ्च ततश्चतुष्टयमिति स्रक्संनिवेशैः शिरः
पद्मैरन्यतमावलोकनमितैरुच्छोणितैरर्चितः ।
हस्तस्पर्शवशेन मूर्ध्नि दशमं मूर्धानमध्यासयन्
शम्भोरुद्धतसाहसैकरसिकः कैर्न स्तुतो रावणः ॥२११०॥


२३. दूतः

एकस्मिन्नवपातितेऽपि शिरसि क्रोधोपशान्तिः कुतः
किंतु स्वानुनयाय मूर्धनिधनं दृष्टं न यत्रारिणा ।
त्वत्तो मूर्धबहुत्वतः फलमिदं सम्यङ्मया लभ्यते
छिन्नं छिन्नमवेक्ष्य राक्षसपते स्वं दुर्नयं ज्ञास्यसि ॥२१११॥

कस्यचित।

अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता
सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।
नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित
च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥२११२॥

कस्यचित।
रेवाम्भोगर्भमज्जद्विविधवरवधूहस्तयन्त्रोत्थिताभिः
क्रीडन्स्वच्छन्दमद्भिः स्मरसि यदकरोदर्जुनः कार्तवीर्यः ।
तद्दोष्णां यच्च रामो रणभुवि विदधे वेगवल्गत्कुठारः
प्रायः पौलस्त्य सा ते श्रवणपरिगता किं न वार्तेति विद्मः ॥२११३॥

कस्यचित। (बा.रा. २.३८, राजशेखरस्य)

कुले पौलस्त्यानां न निजममलं जन्म कलितं
बहोः कालान्नालोचितमतुलमुच्चैः स्वमयशः ।
प्रसूनं पुष्पेषोः शरमसहता किं च भवता
स पत्री सौमित्रेरशनिसहधर्मा न गणितः ॥२११४॥

गोसोकस्य ।

शिरोभिर्मा देवीः शिव इव न ते दास्यति पुनर्
दृशं दद्याः सेतावधिजलधि कैलाससुभटः ।
हितं तद्ब्रूमस्त्वां मम जनकदोर्दण्डविजय
स्फुरत्कीर्तिस्तम्भ त्यज कमलबन्धोः कुलवधूम् ॥२११५॥

गदाधरनाथस्य ।


२४. संवादानुवादः

द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां
क्लेशः केवलमङ्गुलीर्दलयतां मौहूर्तिकानामयम् ।
धन्या सा रजनी तदेव सुदिनं धन्यः स एव क्षणो
यत्राझातचरश्चिरान्नयनयोः सीमानमेति प्रियः ॥२११६॥

वसुधरस्य । (सु.र. १६४९)

तेषां त्वं निधिरागसामसहना मानोन्नता साप्यतो
गन्तव्यं भवता न तद्गृहमिति त्वं वार्यसे यासि चेत।
गाढं मेखलया बलान्नियमितः कर्णोत्पलेनाहतः
क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥२११७॥

छित्तिपस्य । (शा.प. १६५०)

जाने सासहना तथाहमसकृन्मय्यङ्गणस्थे पुनस्
तस्याः संभविता स साध्वसरसः कोऽपि प्रकोपापहः ।
येनोद्यत्पुलकप्रकम्पविकलैरङ्गैः क्व कर्णोत्पलं
कुत्रात्मा क्व च मेखलेति गलितः प्रायः स मानग्रहः ॥२११८॥

वसुन्धरस्य । (सु.र. १६५१)

अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो
याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति ।
अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनां
एतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥२११९॥

छित्तिपस्य ।

अस्माभिः कलितं पुरा न भवती भुक्ता नृभिः कैरपि
प्रौढा मानवशालिनीति चलितं चेतः सकामं त्वयि ।
धिक्त्वां संप्रति सद्भुजङ्गजनतासंश्लेषमातन्वती
गम्या सर्वजनस्य वारवनितेवोत्क्षेपणीयासि नः ॥२१२०॥

वसुन्धरस्य ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:01.4500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

आज्ञाधारक

  • वि. आज्ञा पाळणारा ; आज्ञेप्रमाणें वागणारा ; अंकित ; आश्रित ; आज्ञाधारक . हा शब्द पत्राच्या शेवटीं आपली आज्ञा पाळणारा सेवक ( इं . युवर मोस्ट ओबिडियंट सर्व्हंट ) या अर्थी लिहितात . [ सं . ] 
RANDOM WORD

Did you know?

गणपतीची पूजा आणि व्रत फक्त पुरूषच करतात, मग फक्त स्त्रियांसाठी गणेश व्रत आहे काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.