उच्चावचप्रवाहवीचयः - सुभाषित २२०१ - २२२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


४१. कृपणः

वरं मृतो न तु क्षुद्रस्तथापि महदन्तरम् ।
एकस्य बन्धुर्नादत्ते नामान्यस्याखिलो जनः ॥२२०१॥

शब्दार्णवस्य । (सु.र. १३२३)

जीवतापि शवेनेव कृपणन न दीयते ।
मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥२२०२॥

कविराजस्य । (सु.र. १३२५)

दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥२२०३॥

गोभटस्य । (सूक्तिमुक्तावलि ९.१३, सु.र. १३२७)

असम्भोगेन सामान्यं कृपणस्य धनं परैः ।
अस्येदमिति सम्बन्धो हानौ दुःखेन गम्यते ॥२२०४॥

श्रीव्यासपादानाम् । (सूक्तिमुक्तावलि ९.१)

कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् ।
विभवस्तस्य तद्दोषघोषणापटुडिण्डिमः ॥२२०५॥

तेषामेव । (सु.र. १३२४)

४२. सेवकः

मौनान्मूर्खः प्रवचनपटुर्वातुलो जल्पको वा
धृष्टः पार्श्वे वसति नियतं दूरतश्चाप्रगल्भः ।
क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥२२०६॥

कस्यचित। (ण्स्३५)

गात्रैर्गिरा च विकलश्चटुमीश्वराणां
कुर्वन्नयं प्रहसनस्य नटः कृतोऽसि ।
न त्वां पुनः पल्लितवर्णकभाजमेतन्
नाट्येन केन नटयिष्यति दीर्घमायुः ॥२२०७॥

मुरारेः । (आर्३.१, सु.र. १५२६)

यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटुं मृषा
नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि ।
काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे
तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥२२०८॥

सिल्हणस्य । (सु.र. १६०२, Sस्१.१४)

प्रणमत्युन्नतिहेतोर्जीवनहेतोर्विमुञ्चति प्राणान।
दुःखीयति सुखहेतोः को मूढः सेवकादन्यः ॥२२०९॥

कस्यचित। (सा.द. उन्देर्१०.९३)

हसति हसति स्वामिन्युच्चैः रुदत्यपि रोदिति
गुणसमुदितं प्रेष्याकारं प्रनिन्दति निन्दति ।
द्रविणकणिकाक्रीतं यन्त्रं प्रनृत्यति नृत्यति
प्रचलदसिभृद्दोल्र्दण्डारिं प्रधावति धावति ॥२२१०॥

कस्यचित। (स्व३२३२)
४३. मनस्विसेवकः

सोढं द्वाःस्थितदुःस्थितदुर्वचः कटु ततो दृष्टो दुरीशश्चिराद्
उद्गीर्णाः स्वगुणाश्च याचितमथ श्रोत्रे कृता नेति गीः ।
अस्मिन्पातकपञ्चके सति महत्याब्रह्महत्यादिकं
यत्पापं महदूचिरे मनुमुखाः कोऽन्वेष तेषां भ्रमः ॥२२११॥

धर्मपालस्य ।

लज्जे लज्जे निमज्ज क्वचिदपि निभृतं तिष्ठ तिष्ठ प्रतिष्ठे
गच्छ द्रोणीं हिमाद्रेः पुनरपि तपसे भारति स्वस्ति तुभ्यम् ।
सोऽहं पुण्यक्षयेण प्रचुरपरिभवातङ्किनि प्रौढतापे
सेवापङ्के प्रतामि द्रविणकणधिया निष्कृपाणां नृपाणाम् ॥२२१२॥

कस्यचित।

अमीषां प्राणानां तुलिनविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यदीशानामग्रे द्रविणमदमोहान्धमनसां
कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥२२१३॥

धर्मकीर्तेः । (सु.र. १४६७, Sस्१.९)

कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन ।
विदधति धनिषु न दैन्यं ते किल पशवो वयं सुधियः ॥२२१४॥

सिल्हणस्य । (Sस्१.१५, शा.प. २६१, सूक्तिमुक्तावलि २६.१, सु.र. १४९४)

वयमनिपुणाः कर्णप्रान्ते निवेशयितुं मुखं
कृतकमधुरं भर्तुर्भावं न भावयितुं क्षमाः ।
प्रियमपि वचो मिथ्या वक्तुं जनैर्न च शिक्षिताः
क इह स गुणो येन स्याम क्षितीश्वरवल्लभाः ॥२२१५॥

भर्तृहरेः । (सु.र. १४७०)
४४. दुरीश्वरसेवकः

प्रालेयादपि शीतलो हुतवहः पीयूषगर्भादपि
स्वादीयो गरलं भवेदपि मृदुर्दम्भोलिरम्भोजतः ।
व्याहारादपि सुभ्रुवां खलवचः कर्णद्वयीदोहदं
न त्वेता दुरधीश्वरस्य कुटिलक्रूराः कटाक्षोर्मयः ॥२२१६॥

शङ्खधरस्य ।

स्नातं मारवरोचिरम्भसि कृतः स्नेहग्रहः सैकते
पाषाणे जन्तोङ्कुरः स्वकुसुमैः सृष्टः शिरःशेखरः ।
बन्ध्याया विहिता सुतेन सखिता कूर्माङ्गनायाः पयः
पीतं येन निषेव्य मुग्धधनिनः सम्पादिताः सम्पदः ॥२२१७॥

पण्डितशशिनः ॥

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं
स्थलेऽब्जमवरोपितं सुइच्रमूषरे वर्षितम् ।
श्वपुच्छमवनामितं वधिरकर्णजापः कृतः
कृतान्धमुकुरक्रिया यदबुधो जनः सेवितः ॥२२१८॥

सिल्हणस्य ।

तोयं निर्मथितं घृताय मधुने निस्पीडितः प्रस्तरः
पानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता ।
दुग्धा सेयमचेतनेन जरती दुग्धाशया शूकरी
कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥२२१९॥

अमरसिंहस्य । (सु.र. १५१५)

स्तब्धस्तिष्ठसि पश्यदन्धपुरतः किं दर्शनाकाङ्क्षया
जल्पन्मूकमुखादितः प्रतिवचः किं श्रोतुमाकाङ्क्षसि ।
यः शृण्वद्वधिरः शृणोति स कथं विज्ञप्तिकां तावकीं
प्राणप्रेतमुपासमाननपठन्मूर्खस्त्वदन्यो जनः ॥२२२०॥

वल्लणस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP