उच्चावचप्रवाहवीचयः - सुभाषित २०४१ - २०६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


९. अटवी

प्रत्यासन्नसरांसि कोकिलवधूलीलासुहृदिच्छद
च्छायालिप्तककुम्भि कोरकहसद्वीरुन्धि विन्ध्याटवी ।
अन्तर्दत्तमनोजरुञ्जि रुचिरक्ष्मारुंहि भृङ्गाकुलत्
त्वङ्नद्धाम्पि लतागृहाणि दधती कांचिन्मुचं यच्छति ॥२०४१॥

मधोः ।

मिथः क्रीडत्कोडावलिविलसितोत्खाततटिनी
तटी क्षुब्धोद्गर्जद्गजगहनगर्भेयमटवी ।
गुहाभिर्व्याघ्राणां जरदजगरग्राससरुषां
घटत्कारं घोरं प्रतिरववहाभिर्द्रढयति ॥२०४२॥

कस्यचित।

सर्पश्वासमरुत्तरङ्गतरलाः क्वापि क्वचिच्छ्वापद
स्फारोद्गीर्णगिरो निरन्तरतमस्तारुण्यमग्नाः क्वचित।
क्वापि क्रूरकृशानुदुर्मुखकथाशेषीकृतक्ष्मारुहश्
चेतः सम्प्रति कम्पयन्ति परितो गम्भीरभीमा भुवः ॥२०४३॥

जलचन्द्रस्य ।

क्षुण्णक्ष्मारुहवीथयो विदलितग्रावोपलग्रन्थयः
सिंहस्वीकृतमत्तवारणवधूबद्धार्तकोलाहलाः ।
एताः पल्लवयन्ति चेतसि भयं भल्लूकहिक्कारवैर्
आतङ्कात्पतयालुबालहरिणीगर्भाबिला भूमयः ॥२०४४॥

तस्यैव ।

इह महिषविषाणव्यस्तपाषाणपीठ
स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः ।
कुहरविहरमाणप्रौढभल्लूकहिक्का
चयचकितकिरातस्रस्तशस्त्रा वनान्ताः ॥२०४५॥

मुरारेः । (आर्५.२०)

१०. नदी

भान्त्येताः शैवलिन्यो वनमहिषखुरक्षुण्णपाठीनपृष्ठ
ग्रासव्यग्रोद्रवृन्दप्रविरलचरणन्यासमुद्राङ्कपङ्काः ।
निःशङ्कोद्भ्रान्तकङ्कत्रसदुरगवधूसम्भ्रमोत्फालमूर्च्छद्
भेकार्तस्वानदीर्घीकृतरवविरसत्कीचकग्रन्थिरन्ध्राः ॥२०४६॥

कस्यचित।

व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदरास्
तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीबालुकाः ।
सान्द्रस्थूलनलोपरोधविषमाः शङ्क्यावताराः पुरः
संत्रासं जनयन्ति कुञ्जसरितः काचाभह्नीलोदकाः ॥२०४७॥

कस्यचित्(सु.र. २८१)

अन्तर्मग्नकरेणवः कलभकव्यारुग्णकन्दाङ्कुरैः
सामोदाः परितः प्रमत्तमहिषश्वासोल्लसद्वीचयः ।
संमोदं जनयन्ति शैलसरितः सुच्छायकच्छस्थली
सीमानो जलसेकशीतलशिलानिद्राणरोहिद्गणाः ॥२०४८॥

जलचन्द्रस्य ।

जलरयदलत्कूलोत्सङ्गाः प्रलम्बिलतागृह
स्तिमितगतिभिर्वेणीबन्धैर्विशृङ्खलवीचयः ।
स्थपुटितशिलासोपानेषु प्रकामतरङ्गिताः
शिखरिसरितो नेत्रानन्दं किरन्ति समन्ततः ॥२०४९॥

तस्यैव ।

वीचीसंक्रमदन्तुराः कलरवैर्वाचालिताः सारसैर्
आनन्दं जनयन्ति पूरगरिमोत्तानीभवद्बालुकाः ।
भ्रान्तागन्तुकराजहंसपरिषत्पादाङ्कमुद्राभृतः
प्रस्थक्ष्मारुहतल्पसुप्तकुरराः स्रोतस्वतीभूमयः ॥२०५०॥

११. विशेषनदी

कूजद्भिर्वनकुक्कुभिर्मदकलं वाचालतीरद्रुमा
बिभ्राणा विकचाब्जकेशररजःपिङ्गास्तरङ्गावलीः ।
स्रोतःक्ष्माविपाण्डुसैकतसुखासीना रसत्सारसा
धन्येयं तमसा नदी हरति मे दृष्टापि मार्गश्रमम् ॥२०५१॥
एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः
संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः ।
लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित
त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥२०५२॥

कस्यापि (सु.र. १६५६)

मज्जन्मातङ्गहस्तच्युतमदमदिरामोदमत्तालिजालं
स्नानैः सिद्धाङ्गनानां कुचयुगविलसत्कुङ्कुमासङ्गपिङ्गम् ।
सायं प्रातर्मुनीनां कुशकुसुमचयच्छन्नतीरस्थलीकं
पायाद्वो नर्मदाम्भः करिकरमकराक्लान्तरंहस्तरङ्गम् ॥२०५३॥

छित्तपस्य ।

इयं सा कालिन्दी कुवलयदलस्निग्धमधुरा
मदान्धव्याकूजतरलजलरङ्कुप्रणयिनी ।
पुरा यस्यास्तीरे सरभससतृष्णं मुरभिदो
गताः प्रायो गोपीनिधुवनविनोदेन दिवसाः ॥२०५४॥

शरणस्य । (पद्या. ३४३, दशरथस्य)

इदं तत्कालिन्दीपुलिनमिह कंसासुरभिदो
यशः शृण्वद्वक्त्रस्खलितकवलं गोकुलमभूत।
भ्रमद्वेणुक्वाणश्रवणमसृणोत्तारमधुर
स्वराभिर्गोपीभिर्दिशि दिशि समुद्घूर्णमनिशम् ॥२०५५॥

केशटस्य । (पद्या. ३४५, मोटकस्य)


१२. तडागः

अविरतमधुपानागारमिन्दिन्दिराणां
अभिसरणनिकुञ्जं राजहंसीकुलस्य ।
प्रविततबहुशालं सद्म पद्मालयाया
वितरति रतिमक्ष्णोरेष लीलातडागः ॥२०५६॥

श्रीमल्लक्ष्मणसेनदेवस्य ।

वीचीसमीरधुतकाञ्चनपुण्डरीक
पर्यस्तकेशरपरागपिशङ्गिताम्भः ।
अच्छोदमैक्षत स देवपुरन्ध्रिपाद
लाक्षारुणीकृतशिलातलतीरलेखम् ॥२०५७॥

रत्नाकरस्य ।

मदतरलमरालप्रेयसीचञ्चकोटि
क्रकचविदलितानि व्यक्तमिन्दीवराणि ।
निविडयति तडागे यत्र लीलावतीनां
कुवलयदलदामश्यामलो दृष्टिपातः ॥२०५८॥

जलचन्द्रस्य ।

लुठद्वीचीमौलिः परिपतति पूर्वं चरणयोर्
अथोरू गृह्णाति स्पृशति जघनाभोगमभितः ।
करौ धत्ते मध्यं कलयति समाश्लिष्यति कुचा
कचानप्यादत्ते प्रिय इव तडागो मृगदृशाम् ॥२०५९॥

गोवर्धनस्य ।

एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं
पार्वत्या प्रियपूजनार्थममुतो गङ्गासरिन्निर्गता ।
अस्माच्चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयते
स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात्पवित्रं पयः ॥२०६०॥

राजशेखरस्य । (बा.रा. १०.३५)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP