TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उच्चावचप्रवाहवीचयः - सुभाषित २२४१ - २२६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


सुभाषित २२४१ - २२६०
४९. तद्गृहिणी

अद्याशनं शिशुजनस्य बलेन जातं
श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्यश्रुपातमलिनीकृतगण्डदेशा
नेच्छेद्दरिद्रगृहिणी रजनीविरामम् ॥२२४१॥

कस्यचित। (सु.र. १३११)

यावद्दुःखकुटुम्बिनीकरतलस्पर्शात्समालोकते
तत्तत्क्षुद्रकणादिरक्षणधिया घोरं घने वर्षति ।
तावज्जीर्णकुटीरकोटरविशत्सौदामिनीदीपितं
दृष्ट्वा तूलकजालमाबिलजलाकीर्णं मुहुर्मूर्च्छति ॥२२४२॥

योगेश्वरस्य ।

कुम्भीसंचिततण्डुलाः प्रतिदिनं नीताः क्षयं मूषिकैर्
वास्तुष्वेव पिशङ्गितोदरतलाः शीर्यन्ति वार्ताकवः ।
जीर्णं जालकमारनालपिठरीगर्भे च काकारवं
दीनायाः पथिकस्त्रियाः प्रियतमप्रत्यागमाकाङ्क्षया ॥२२४३॥

नीलस्य ।

वैराग्यैकसमुन्नता तनुतनुः शीर्णाम्बरं बिभ्रती
क्षुत्क्षामेक्षणकुक्षिभिश्च शिशुभिर्भोक्तुं समभ्यर्थिता ।
दीना दुःस्थकुटुम्बिनी प्रविगलद्बाष्पाम्बुधौताननाप्य्
एकं तण्डुलमानकं दिनशतं नेतुं समाकाङ्क्षति ॥२२४४॥

वीरस्य ।

सक्तूञ् शोचति संप्लुतान्प्रतिकरोत्याक्रन्दतो बालकान्
प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति ।
दत्त्वा मूर्ध्नि विशीर्णशूर्पशकलं जीर्णे गृहे व्याकुला
किं तद्यन्न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥२२४५॥

लङ्गदत्तस्य । (सु.र. १३१२, योगेश्वरस्य; स्व३२०१)


५०. तद्गृहं

चलत्काष्ठं गलत्कुड्यमुत्तानतृणसंचयम् ।
गण्डूपदार्थिमण्डूककीर्णं जीर्णं गृहं मम ॥२२४६॥

कस्यचित।

हस्तप्राप्यतृणोज्झिताः प्रतिपयोवृत्तिस्खलद्भित्तयो
दूरालम्बितदारुदन्तुरमुखाः पर्यन्तवल्लीवृत्ताः ।
वस्त्राभावविलीनसत्रपवधूर्दत्तार्गला निर्गिरस्
त्यजन्ते चिरशून्यविभ्रमभृतो भिक्षाचरैर्मृद्गृहाः ॥२२४७॥

कस्यचित।

पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं नाथ ।
विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥२२४८॥

कस्यचित। (सु.र. १६४४, Sआह्.द्. ७.२०, १०.१३)

धूमेन रिक्तमपि निर्भरबाष्पकारि
दूरीकृतानलमपि प्रतिपन्नतापम् ।
दैन्यातिशून्यमपि भूषितबन्धुवर्गं
आश्चर्यमेव खलु खेदकरं गृहं नः ॥२२४९॥

जलचन्द्रस्य ।

उत्सन्नच्छदिरुच्छ्वसद्वृति गलद्भित्ति स्खलन्मण्डलि
भ्राम्यत्कुण्डलि हिण्डदाखु खुरलिप्रक्रीडिभेकावलि ।
पञ्चच्चर्मचटौघपक्षतिपुटप्रारब्धभांभांकृति
श्रीमत्सेनकुलावतंस भवतः शत्रोरिवास्मद्गृहम् ॥२२५०॥

सोह्नोकस्य ।

५१. जरा

एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः ।
केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥२२५१॥

श्रीव्यासपादानाम् । (सु.र. १५२५)

केशाः पाकमुपागत्âः शिथिलतामङ्गेऽप्यनङ्गो गतः
सर्वाङ्गं बलिवेष्टितं प्रियतमा सभ्यं जनत्वं गता ।
ये वान्ये गुणशालिनोऽपि सुहृदस्ते चापि याता दिवं
तन्मां मुञ्च घनागमं व्रज वनं चेतः कुतः स्थीयते ॥

तरणिकस्य ।

केशाः काशनिभाः कपालफलके त्वग्भिस्तरङ्गायितं
काचेनोचिततारकेण खचिते पर्यश्रुणी लोचने ।
अङ्गानामवसादितापि च गिरां कम्पस्तथाप्येष मे
मोहः स्नेहमयो न मुञ्चति मनः कस्मै समावेद्यताम् ॥२२५३॥

सुव्रतस्य ।

शौर्याभिमानवनदावशिखे सुबद्ध
प्रस्थानवृत्तिमतिविभ्रममूलबन्धो ।
मृत्योः पुरःसरबलध्वजवैजयन्ति
मातर्जरे सततमस्तु नम भवत्यै ॥२२५४॥

धर्मपालस्य ।

दिग्विभ्रमं दशनखण्डनमङ्गभङ्गं
केशग्रहं रतिविधौ मदनादरं च ।
श्वासप्रकम्पजडभावसुघूर्णितानि
धत्ते जरा प्रणयिनीव मयोपगूढा ॥२२५५॥

कस्यचित।

५२. वृद्धः

स्वस्ति सुखेभ्यः संप्रति सलिलाञ्जलिरेष मन्मथकथायाः ।
ता अपि मामतिवयसं तरलदृशः सरलमीक्षन्ते ॥२२५६॥

शतानन्दस्य । (स्व३३९५, सु.र. १५२२)

आक्रान्तं वलिभिः प्रसह्य पलितैरत्यन्तमास्कन्दितं
वार्धक्यं श्लथसंधिबन्धनतया निःस्थाम निर्धाम च ।
एतन्मे वपुरस्थिकेवलजरत्कङ्कालमालोकय
स्थूलशिराकरालपरुषत्वङ्मात्रपात्रीकृतम् ॥२२५७॥

दङ्कस्य ।

गलितं यौवनमधुना वनमधुना सेवनीयमस्माकम् ।
स्फुरदुरुहारमणीनां हारमणीनां गतः कालः ॥२२५८॥

कस्यचित।

स्थूलप्रावरणोऽतिवृत्तकथनः कासाश्रुलालाविलो
भुग्नाङ्घ्रित्रिकपृष्ठजानुजघनो मुग्धोऽतिथीन्वारयन।
शृण्वन्धृष्टवधूवचांसि धनुषा संत्रासयन्वायसान्
आशापाशनिबद्धजीवविहगो वृद्धो गृहे ग्लायति ॥२२५९॥

कस्यचित। (Sस्२.२९)

विकासयति लोचने स्पृशति पाणिना कुञ्चिते
विदूरमवलोकयत्यतिसमीपसंस्थं पुनः ।
बहिर्व्रजति सातपे स्मरति नेत्रवृत्तेः पुरा
जराप्रमुखसंस्थितः समवलोकयन्पुस्तकम् ॥२२६०॥

कस्यचित। (सु.र. ११७९)

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:01.8100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पाण्यास आश्रय

  • orआसरा-आधार 
  • m  A morsel or solid food eaten by a person desirous of drinking water. 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site