उच्चावचप्रवाहवीचयः - सुभाषित २१८१ - २२००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३७. सुजनदुर्जनौ

जीवन्तु साधुतरवः सुकृताम्बुसिक्ता
नश्यन्तु पङ्कपतिताः खलपांशवोऽपि ।
ये धारयन्त्यनुगतोपकृतिव्रतानि
यैः सन्निधौ परगुणा मलिनीक्रियन्ते ॥२१८१॥

सङ्केतस्य ।

सत्सङ्गाद्भवति हि साधुता खलानां
साधूनां न तु खलसङ्गमात्खलत्वम् ।
आमोदं कुसुमभवं मृदेव धत्ते
मृद्गन्धं न तु कुसुमानि धारयन्ति ॥२१८२॥

प्रभाकरमित्रस्य ।

ये कारुण्यपरिग्रहादगणितस्वार्थाः परार्थं प्रति
प्राणैरप्यपकुर्वते व्यसनिनस्ते साधवो दूरतः ।
विद्वेषानुगमादनूर्जितकृपो रूक्षो जनो वर्तते
चक्षुः संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते ॥२१८३॥

श्रीहर्षस्य । (सु.र. १४९९)

शिशुत्वव्यामोहात्कलयसि न चेत्तत्त्वमनयोस्
तदा स्तोकं ब्रूमः परिचिनु वचस्त्वं सदसतोः ।
सतां स्वान्तं यत्तन्मधुमधुरमन्तः कटु बहिर्
बहिः स्वादु स्वच्छं विषविषममन्तस्तदसताम् ॥२१८४॥

जियोकस्य ।

आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलु सज्जनानाम् ॥२१८५॥

३८. धन्यः

भ्राम्यद्बालिशकीरपक्षहरितच्छायां बहिर्बिभ्रतीम्
अन्तर्दन्तुरपारिभद्रकलिकागर्भप्रभातस्करीम् ।
शुक्तिर्मारकतीव कुङ्कुमलसज्जम्बालपूर्णोदरा
वासालीसुकृतात्मनां प्रणयिनी चेलं मुखं चुम्बति ॥२१८६॥

सेन्दूकस्य ।

विषयपतिरलुब्धो धेनुभिर्धाम पूतं
कतिचिदभिमतायां सीम्नि सीरा वहन्ति ।
शिथिलयति च भार्या नातिथेयीं सपर्याम्
इति सुकृतमनेन व्यञ्जितं नः फलेन ॥२१८७॥

शुभाङ्कस्य ।

धारानिपातरवबोधितपञ्जरस्थ
दात्यूहडम्बरकरम्बितकण्ठकूजाः ।
अट्टेषु काण्डपटवारितशीकरेषु
धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥२१८८॥

श्रीहनूमतः । (सु.र. २२४)

शिलापट्टोद्घृष्टा मलयजरसालेपसुभगाः
स्फुरद्धूमामोदा दरदलितकर्पूरसुहृदः ।
इतः कम्बुच्छेदच्छविभिरहिवल्लीकिसलयैर्
निषेवन्ते केऽपि क्रमुकफलफाणीः सुकृतिनः ॥२१८९॥

राजशेखरस्य ।

शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं
गताः पांशुक्रीडाविषयपरिपाटीरूपशतम् ।
लुठन्तोऽङ्के मातुः कुवलयदृशां पुण्यसरितां
पिबन्ति स्वच्छन्दं स्तनमधरमम्भः सुकृतिनः ॥२१९०॥

श्रीहनूमतः । (सु.र. १६२१)

३९. उदात्तः

विमलमतिभिः कैरप्येतज्जगज्जनितं पुरा
विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वान्ते पुंसां क एष मदज्वरः ॥२१९१॥

भर्तृहरेः । (Sस्२.१४)

केनेन्दुः कुमुदेषु केन तरणिः पद्मेषु केनाम्बुदः
सारङ्गेष्वथ केन शाखिषु मधुर्दाक्षिण्यमध्यापितः ।
तत्तुङ्गाननुभूतसौरभपरीवारोपकारं प्रति
श्मश्रूद्वेजितकर्णजाहमनुजः कः प्रेरयत्वीश्वरान॥२१९२॥

शुङ्गोकस्य ।

भवन्ति नम्रास्तरवः फलागमैर्
नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥२१९३॥

कालिदासस्य । (Sःअक्५.१२; ण्स्६३)

यदालोकं कुर्वन्भ्रमति रविरश्रान्ततुरगः
सदालोआन्धत्ते यदगणितबाधा वसुमती ।
न सम्बन्धः किं तु प्रकृतिरियमेवं हि महतां
यदेते लोकानां परहितसुखैकान्तरसिकाः ॥२१९४॥

मेघारुद्रस्य ।

धात्रीं धातुं वहति फणिनामग्रणीः कस्य शिक्षां
को वा ब्रूते तिमिरपटलप्लोषमह्नः प्रणेतुः ।
अद्रिश्रेणीमवति जलधिः केन दत्ताभ्यनुज्ञः
कर्म प्रायो भवति महतां स्वानुरूपं महिम्नः ॥२१९५॥
४०. मनस्वी

मा खेदं भज हे विधुन्तुद मुदं धेहि स्तुहि त्वं हरेस्
तच्चक्रं विनिकृत्य दग्धमुदरं येनोत्तमाङ्गीकृतः ।
पश्यास्मानुदरम्भरीनिह पराभूतान्निरस्तान्हतान्
विध्वस्तानववारितानधरितानेतान्धनाहंयुभिः ॥२१९६॥

बटेश्वरस्य ।

यदेते साधूनामुपरि मुखरा एव धनिनो
न सावज्ञैरेषामपि च निजवित्तव्ययभयम् ।
न वा क्लेशोऽमुष्मिन्नपरमनुकम्पैव भवति
स्वमांसस्त्रस्तेभ्यः क इह हरिणेभ्यः परिभवः ॥२१९७॥

भर्तृहरेः । (सु.र. १४६८, Sस्३.२३)

शतं वा लक्षं वा नियुतमथवा कोटिमथवा
तृणायाहं मन्ये समयविपरीतं यदि भवेत।
शतं तल्लक्षं तन्नियुतमपि तत्कोटिरपि तद्
यदाप्तं सम्मानादपि तृणमनम्रण शिरसा ॥२१९८॥

तस्यैव ।

मा गाः प्रत्युपकारकातरतया वैवर्ण्यमाकर्णय
श्रीकर्णाटवसुन्धराधिप सुधासिक्तानि सूक्तानि नः ।
वर्ण्यन्ते कति नाम नार्णवनदीभूगोलविन्ध्याटवी
झञ्झामारुतचन्द्रमःप्रभृतयस्तेभ्यः किमाप्तं मया ॥२१९९॥

सिल्हनस्य ।

राजा त्वं वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्तितो निःस्पृहाः ॥२२००॥

वल्लणस्य । (सु.र. १२२२)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP