TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

योगयात्रा - योगाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


योगाध्याय
तिथ्युद्गमेन्दुकरणर्क्षदिनक्षणेषु शुद्धेष्व्(पापेष्व्) अभीष्टफलदा नृपतेर् यथा स्यात् ।
यात्रा तथा परम् इदं कथयामि गुह्यं शिष्याय नै ऽतद् अचिराद् ह्य् उषिताय दद्यात् ॥
योगैः क्षितिपा विनिर्गताः शकुनैस् तस्करचारणादयः ।
नक्षत्रबलैर्(नक्षत्रगुणैर्) द्विजातयः क्षणवीर्याद् इतरो जनो ऽर्थभाक् ॥
यद् यद् योगवशाद् व्रजत्य् अगदतां द्रव्यैर् विषं योजितम्
संयुक्तं मधुना घृतं च विषतां गच्छेद्(गच्छद्) यथा दृश्यते ।
तद्वद् योगसमुद्भवं प्रकुरुते हित्वा ग्रहः स्वं फलं
देहः कोशो योद्धा वाह्यं मन्त्रः शत्रुर् मार्गो ऽप्य् आयुः ।
चित्तं कर्म प्राप्तिर् मन्त्री प्राग्लग्नाद्या भावाश् चिन्त्याः ॥
त्रिलाभवर्जं रविसौरिभौमा(रविसौरभौमा) निघ्नन्ति नो कर्मणि सूर्यभौमौ(सूर्यभौमाः) ।
पुष्णन्ति सौम्या रिपुराशिवर्ज्यम् अस्तं(रिपुराशिवर्जम् न ऽस्तं) भृगुर् मृत्युविलग्नम् इन्दुः ॥
यस्मात् तेन समुद्यतो ऽस्मि गदितुं योगान् विचित्रान् इमान् ॥
लग्ने गुरुर् बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत् तृतीयः ।
चन्द्रश् च यस्य दशमो भवति प्रयाणे तस्य ऽभिवाञ्छितफलाप्तिर् अलं नृपस्य ॥
होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभिर् भृगुजे ऽनुकूले ।
यातो ऽतिदृप्तम् अपि शत्रुबलं निहन्ति नैशं तमिस्रम् इव तिग्मम् अयूखकाली(अयूखमाली) ॥
उदयारिनभः स्थलगैर्(उदयारिनभस्थलगैर्) दिनकृद्यमशीतकरैः ।
न भवन्त्य् अरयो ऽभिमुखा हरिणा इव केशरिणः ॥
गुरुर् उदये रिपुराशिगतो ऽर्को यदि निधने न च(च न) शीतमयूखः ।
भवति गतो ऽत्र शशी ऽव नरेन्द्रो रिपुवनिताननतामरसानाम् ॥
शुकवाक्पतिबुधैर् धनसंस्थैः सप्तमे शशिनि लग्नगते ऽर्के ।
निर्गतो नृपतिर् एति कृतार्थो वैनतेयवद् अहिं(अरीन्) विनिगृह्य ॥
मूर्त्तिवित्तसहजेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः ।
यस्य यानसमये रणानले तस्य यान्ति शलभा इव ऽरयः ॥
सूर्येन्दू वलवर्जितौ वलयुतौ जन्मेशलग्नेश्वरौ
पाताले दशमे ऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः ।
षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितो
यातुस् तस्य न विद्विषो रणमुखे तिष्ठन्ति योषा इव ॥
सौरे भौमे(वा) लग्नगे ऽर्फे(ऽर्के) खमध्ये कर्मण्य् आये(वा) भार्गवे चन्द्रजे च ।
यायाद् भूपः(भूपालः) शत्रुदेशं निहन्तुं दृप्तं शत्रुं(वा) कालवत्(कालयत्) क्रूरचेष्टः ॥
लाभशत्रुसहजेषु यमारौ सौम्यशुक्रगुरवो बलयुक्ताः ।
गच्छतो यदि ततो ऽस्य धरित्री सागराम्बुरसना वशम् एति ॥
पापास् तृतीये हिबुके ? जीवो बिलग्ने शशलाञ्छनो ऽस्ते ।
यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेस्व् इव यात् नाशम् ॥
चन्द्रे ऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगे ऽर्के ।
सौरारयोर् भ्रातृगयोश् च यातो नृपः स्वभृत्यान् इव शास्ति शत्रून् ॥
गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवौ कर्मगते ऽर्कपुत्रे ।
सितज्ञयोर् बन्धुसुतस्थयोश् च यात्रा जनित्री ऽव हितानि धत्ते ॥
पत्यौ गिरां लग्नगते ऽवशेषैर् एकादशार्थोपगतैर् यियासोः ।
विदार्यते शत्रुबलं समन्ताद् धर्मो यथा हेतुशतैर् युगान्ते ॥
त्रिषण्णवान्त्येष्व् अबलः शशाङ्कश् चान्द्रिर् बली यस्य गुरुश् च केन्द्रे ।
तस्य ऽरियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयन्ति सैन्ये ॥
केन्द्रोपगतेन वीक्षिते गुरुणा त्रयायचतुर्थगे सिते ।
पापैर् अनवाष्टसप्तमैर्(अनवाष्टसप्तगैर्) वसु किं तन् न यद् आप्नुयाद् गतः ॥
लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनान्त्यलग्नरहितेष्व् अशुभग्रहेषु ।
यातुर् भयं न भवति प्रतरेत् समुद्रं यद्य् अश्मना(ऽपि) किम् उत शत्रुसमागमेषु(उत ऽरिसमागमेषु) ॥
यस्यो ऽदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरो ऽङ्गारक --- सौम्यसौराः ।
द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तान् अवलोकयन्ति ॥
पूर्वोक्तयोगे धनगो बुधश् चेच् छशाङ्कसूर्यौ च दशायसंस्थौ ।
अस्मिन् गतस्य ऽलिकुलोपगीता नानावनोत्था द्विरदा भवन्ति ॥
सूर्यादयो ऽरिसहजाम्बरशत्रुलग्नबन्ध्वायगाः सुरगुरोर् दिवसश् च(दिवसो ऽपि) यस्य ।
याने ऽरिसैन्यम् उपगच्छति तस्य नाशं म मांसकश्रवणकेष्व्(मीमांसकश्रवणकेष्व्) इव तीर्थपुण्यम् ॥
त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश् च यस्य ।
खलजनजनिते ऽव लोकयात्रा न भवति यस्य चिराय शत्रुसेना ॥
कुजरविजयुते ऽरिभे(ऽतिभे) गतानां सुखसहजोपगतिः सितार्कजीवैः ।
रिपुबलम्(परबलम्) उपयाति नाशम् आशु श्रुतम् अधनस्य कुटुम्बचिन्तयैव(कुटुम्बचिन्तये ऽव) ॥
लग्नत्रिधर्मारिदशायगेषु सितार्किजीवेन्दुकुजेन्दुजेषु ।
सार्के बुधे च ऽरिबलं विनाशम् आयाति गुह्यं पिशुनेष्व् इवो ऽक्तम् ॥
एकान्तरर्क्षे भृगुजात् कुजाद् वा सौम्ये स्थिते सूर्यसुताद् गुरोर् वा ।
प्रध्वस्यते(प्रध्वंसते) ऽरिर् न चिराद् गतस्य वेषाधिको भृत्य इवे ऽऽश्वरस्य ॥
अ(अ) ।.एकान्तरा यदि गता भवेनेषु षट्सु पृष्ठस्थितस्य(पृष्ठस्थितश् च) सुरशत्रुगुरोः(सुरशत्रुगुरुः) प्रयाणे ।
ब्(ब्) ।.यातस्य नात्र रिपवो प्रहसन्ति वीर्यं विष्णोर् इवोद्धृतगदारथवादपाणेः ॥
निरन्तरम् यदि भवनेषु पञ्चसु ग्रहाः स्थिता दिवसकरेण वर्जिताः ।
यियासतोर्(यियासतो) यदि च भवन्ति पृष्ठतस् तदा परान् बलभिद् इव ऽवकृन्तति ॥
बृगुपुत्रमहेन्द्रगुरू गमने सहितौ यदि भं युगपत् त्यजतः ।
ज्ञगुरू यदि वा ऽंशकम् एकगतौ(एकम् इतौ) समरे सुरराड्(अमरराड्) इव भाति तदा ॥
निस्त्रिंशवक्रोपगते च वक्रे वक्रेण वक्रं नृपतिं(नृपतिर्) निहन्यात् ।
पानप्रसक्तं निशि वा प्रसुप्तं तस्यै ऽव च ऽस्ते यदि वा ऽंशकः स्यात् ॥
पुत्रो धरित्र्या दिनकृत् सुतश् च यदा त्यजेतां युगपन् नवांशम् ।
तदा ह्य् अवस्कन्दगतो नरेन्द्रो भुङ्क्ते रिपून् तार्क्ष्य इव द्विजिह्वान् ॥
बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रविशन्(प्रवसन्) ।
पुरुहूतदिशं यदि वा ऽन्तकृतः पुरुहूतयमप्रतिमो भवति ॥
सितेन्दुजौ चतुर्थगौ निशाकरश् च सप्तमे ।
यदा तदा गतो नृपः प्रशास्त्य् अरीन् विना रणान्(रणात्) ॥
शशिनि चतुर्थगृहं समुपेते बुधसहिते ऽस्तगते भृगुपुत्रे ।
गमनम् अवाप्य पतिर् मनुजानां जयति रिपून् समरेण विनै ऽव ॥
क्षितितनययुतान् नवांशकाद् यदि शतमे(शतगो) भृगुजो ऽथवा गुरुः ।
शतगुणम् अपि हन्त्य् अरेर् बलं विषम् इव कायम् असृक्पथोपपन्नम्(असृक्पथोपगम्) ॥
शतांशकाद् ऊर्ध्वम् अवस्थिते बुधे यमारयोस् तत्र गतस्य भूभृतः ।
प्रयाति नाशं समरे द्विषड् बलं यथा ऽर्थिभावोपगतस्य गौरवम् ॥
नक्षत्रम् एकं युगपत् प्रविष्टौ यदा धरित्रीतनयामरेज्यौ ।
कुर्यात् तदा ऽन्तं द्विषतां बलस्य द्रौणिर् यथा ऽरेर् निशि सौप्तिकेन ॥
ऋक्षं गुरुज्ञौ बुधभार्ग्वौ वा यदा प्रविष्टौ युगपत् समेतौ ।
अर्थान् अवाप्नोति तदा विचित्रान् छात्रः सुतीर्थान्(सुतीर्थाद्) गुरुपूजयैव(गुरुपूजये ऽव) ॥
यात्रादिगीशाद् यदि पञ्चमे ऽन्यो गृहे ग्रहो वीर्ययुतो ऽवतिष्ठेत् ।
समुद्यताशाकथितानि भङ्क्त्वा फलानि वीर्यान् नयति स्वकाष्ठाम् ॥
एको ऽपि जीवज्ञसितासितानां कुजात् त्रिकोणे रवितो ऽथ वे ऽन्दुः ।
यत्रो ऽद्यतस् तत्र न याति याता तयोर् बलीयान् नयति स्वकाष्ठाम् ॥
जन्मोदयर्क्षं हिबुकास्तसंस्थं यस्य ऽशुभैर् दृष्टयुतं न सौम्यैः ।
स शाण्डिलीं प्राप्य यथा गरुत्मान् दन्यं(दैन्यं) गतो ऽभ्येति हतस्वपक्षः ॥
होराष्टमे जन्मगृहाष्टमे वा स्वाच् छत्रुभाच् छत्रुगृहोदये वा ।
तद्राशिपैर् वा गमनं विलग्ने तुल्यं नराणां विषभक्षणेन ॥
रिपुनिधनविलग्ने स्वात् त्रिषड्लाभगे वा
बलवति भवनेशे स्वे कृशे शत्रुपक्षे ।
अनभिमुखदिगीशे दिक्पतौ सुस्थिते च
व्रजति यदि यथेष्टं प्राप्नुयात् तत्र यता ॥
केन्द्रत्रिकोणेषु शुभाः प्रशस्तास् तेष्व् एव पापा न शुभप्रदाः स्युः ।
पपो ऽपि कामं बलवन् नियोज्यः केन्द्रेषु शून्यं न शिवाय केन्द्रम्(लग्नम्) ॥
सौम्यैश् च पापैश् च चतुष्टयस्थः कृच्छ्रेण सिद्धिं समुपैति याता ।
प्रपातपातप्रतिघातवक्रैर्(प्रपातयानप्रतिघातवक्रा) नदी ऽव धात्रीधरकन्दरेषु ॥
गुरो(गुरौ) विलग्ने भृगुजे ऽरिसंस्थे चन्द्रे ऽष्टमे हन्ति गतो ऽरिसेनाम् ।
विष्टं(वृष्टिं) यथा दक्षिणमार्गचारी रूक्षो अथवा(यदा) ह्रस्वतनुश् च शुक्रः ॥
सिंहाजतौलिमिथुना(सिंहाजतौलिमिथुनं) मृगकर्कटौ च स्वेशान्विता यदि भवति(भवति) यस्य शनिश् च लग्ने ।
तत्सैनिकाः परबलं क्सपयन्ति यातुर् मूर्खस्य वित्तम् इव चारणचाटुकाराः(चारणचाटचक्षाः?) ॥
उदये गुरुसौम्यभार्गवैः सहजे ऽर्कार्किकुजैश् च गच्छतः ।
न भवन्त्य् अरयो रणे स्थिराः कितवानाम् इव वित्तसंचयाः ॥
जातकोक्तनृपयोगगतानाम् प्रत्यहं(प्रतिदिनम्) भवति राज्यविवृद्धिः ।
वातघूर्णितम् इव ऽर्णवयानम् परबलं हि समुपैति विनाशम् ॥
होराऽऽश्रिते(होराश्रिते) देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर् वा ।
कृत्वा रिपूणां क्षयम् अक्षताङ्गः स्वयं(क्षयं) क्षितीशो ऽक्षयकोशम् एति(ऽक्षयकोश ऐति) ॥
लाभार्थलग्नेषु शुभा रविः खे यस्य ऽऽरसौरौ सहजे ऽरिभे वा ।
तस्य ऽर्थकोशः समुपैति वृद्धिं लाभो(लोभो) यथा प्रत्यहम् अर्थवृद्ध्या ॥
स्वोच्चपगैर् जीवकुजार्कजार्कैर् एभ्यस् त्रिभिर् वा कथितैकलग्ने ।
राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथा ऽधनस्य ॥
एको ऽपि जीवार्ककुजार्कजानां स्वोच्चे विलग्ने स्वगृहे यदी ऽन्दुः ।
जातस्य(यातस्य) यान्त्य् अत्र पराः प्रणाशम् महाकुलानी ऽव कुटुम्बभेदैः ॥
लग्नाच् चतुर्थे अतिबले शशाङ्के(विबलः शशाङ्कः) योगाद् विना चन्द्रबलेन याता(यातः) ।
लब्धा ऽपि लक्ष्मीं बहुरत्नपूर्णां(लक्ष्मीर् बहुरत्नपूर्णा) क्षिप्रं क्षयं याति यथा शशाङ्कः ॥
येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् तृतीयरिपुलाभगताश् च पापाः ।
आयान्ति ते स्वभवनानि पुनः कृतार्था दत्ता द्विजातिषु पुरा विधिवद् यथार्थाः ॥

मिश्रकाध्याय
पूर्वादितस् त्रिपरिवर्तगतैर् अजाद्यैर् भैः सप्तकैर् अनलभाच् च गमो जयाय ।
वायुअग्निदिक्स्थपरिघस्य समार्द्धगैश् च मैत्राश्विहस्तगुरुभेषु च सर्वदिक्षु ॥
पूर्वेणाइन्द्रं(पूर्वेणाइ ऽऽन्द्रं) दक्षिणेन ऽऽजपादं रोहिण्यो ऽतश् च ऽर्यमाख्यं च शूलम् ।
कामं यायात् साम्परायेषु कार्येष्व् एवं द्वारे(अद्वारे ऽपि) प्रोज्झ्य शूलानि तानि ॥
विवर्जयेत् त्वाष्ट्रयमोरगाणाम् अर्धम् द्वितीयं गमने जयेप्सुः ।
पूर्वार्धम् आग्नेयमघानिलानां स्वातीम्(स्वातिम्) मघां चो ऽशनसः समस्ताम् ॥
उत्पातपापग्रहपीडिते भे ये यान्ति भूरिग्रहसंयुते वा ।
ते पूर्ववित्तान्य् अपि नाशयन्ति धातुप्रसक्ता इव मूर्त्तिकेन्द्राः(वार्तिकेन्द्राः) ॥
रविसितकुजराहुसौरिचन्द्रा(रविसितकुजराहुसौरचन्द्रा) ज्ञगुरुयुताः पुरतः क्रमाद् दिगीशाः ।
व्रजति यदि ललाटगे दिगीशे पतति ततो द्रुमवत् सरित्तटात्सः(सरित्तटस्थः) ॥
यातो ऽयनस्य प्रतिलोमकाष्ठां यः स्यात् स्वतन्त्रो(सुतन्त्रो) ऽपि जितः परेषां ।
स केवलव्याकरणाभियुक्तः(केवलं) व्याकरणाभियुक्तः काव्यज्ञगोष्ठ्याम् इव हास्यम् एति ॥
अयनेन गतो ऽर्कसोमयोर् द्युनिशं वा स्थितयोः पृथक् पृथक् ।
विदुषाम् इव सर्वशास्त्रवित्(शब्दशास्त्रवित्) समवाये द्विषतां विराजते ॥
तिथिं चतुर्थीं नवमीं चतुर्दशीं विहाय विष्टिं करणं च गच्छतः ।
भवन्ति चामीकरवाजिवारणाश् चतुर्थिपूर्वाश् च तदाप्तिवारणाः ॥
ऋक्षे(रिक्ते) तिथौ वा व्यतिपातदुष्टे यो याति मोहात् खलु वैधृते वा ।
स नाशम् आयात्य् अचिरेण याता(राजा) राजे ऽव दैवज्ञविलोमचेष्टः ॥
आरोग्यम् ऋक्षेण धनं क्षणेन कार्यस्य सिद्धिस् तिथिना शुभेन ।
राश्युद्गमेन ऽध्वनि सिद्धिम् आहुः प्रायः शुभानि(सुखानि) क्षणदाकरेण ॥
अब्(ओमित्तेद्) ।.न राजते भूरिगुणान्विता ऽपि व्यर्ह्तब्ययस्य क्षितिपस्य यात्रा ।
च्द्(ओमित्तेद्) ।.शुक्रे प्रणष्टे धनदर्पितस्य विवाहयात्रेव जरार्द्दितस्य ॥
प्रतिशुक्रबुधाशनिवृष्टिहता दिग् अधः कुरुते नृपतिं गमने ।
मदिरामुदिता मदनाकुलिता प्रमदे ऽव कुलम् परवेश्मरता ॥
वीर्यान्वितैर् यायिभिर् आत्मभद्रैः क्लेशं(क्लेशेद्) विना हन्ति चमूम् अरीणाम् ।
त्रैलोक्यलाभे ऽप्य् असमाप्तकार्यां तृष्णां यथा चीरफलाम्बुतुष्टः ॥
सर्पिस् तिलौदनषैः(तिलोदनझषैः) पयसा च भुक्त्वा पूर्वादि वारणरथाश्वनरैर् गतस्य ।
सोढुम् प्रतापम् अरयो न न्र्पस्य शक्ता गन्धद्विपस्य कलभा इव गन्धदानम्(दानगन्धम्) ॥
एकतश् च सकलानि निमित्तान्य् एकतश् च मनसः परिशुद्धिः ।
चेतसो ऽस्ति(ऽपि) सहसा न(ऽस्ति) रणे भीर् मारुतो ऽपि विजयाजयहेतुः ॥
भूरिशूरवरवाजिकुञ्जरा ज्ञातयुद्धगतयो ऽभिमानिनः ।
क्व ऽपि यान्ति घनतूलराशिवन् मारुताभिहतवक्षसो ऽरयः ॥
अनुलोमगते(अनुलोमगतौ) प्रदक्षिणे सुरभौ देहसुखे ऽनिले गतः ।
तिमिराणि गभस्तिमान् इव प्रसभं हन्ति बलानि विद्विषाम् ॥
उपपत्तिर् अयत्नतो यदा तृणपानाशनरत्नवाससाम् ॥
प्रमदाक्षितिनागवाजिनां विजयद्वारम् अपावृतं तदा ॥
लग्नस्य ये ऽंशा ह्य् उदिता(उदिता) ग्रहो यस् तेषु स्थितो लग्नफलं स धत्ते ।
यस् तान् अतीतः स भवेद् द्वितीयः स्थानेषु शेषेष्व् अपि चिन्त्यम् एतत्(चिन्तनीयम्) ॥
गतो ऽनुकूलैर् ग्रहभाग्निमारुतैर् मनो ऽब्दविद्युत्स्वनवृष्टिकार्मुकैः ।
रिपोः प्रमथ्नाति रणाजिरे चमूं द्विपः समूलां सरसी ऽव पद्मिनीम् ॥
दैवेन हीनः परभीषणार्थं यातो ऽतिकृच्छ्रेण नयत्य् अहानि ।
स्वशक्त्यतीतो नृपवेश्मनी ऽव कृत्वा प्रतिज्ञाम् प्रतिवादिभीतः ॥
दैवान्वितः साधुजनोपकारी प्रभावमन्त्रोद्यमशक्तियुक्तः ।
भुङ्क्ते महीं सम्यग् अवाप्य यात्रां ससह्यविन्द्याचलपारियात्राम् ॥
गोचरेण शुभदः शशी न चेद् अष्टवर्गपरिशोधितो ऽपि(Kऽथ) वा ।
पूर्ववायुर् इव पुष्पकालजो यायिनाम् फलविनाशकृद् भवेत् ॥
आश्रित्य चन्द्रस्य बलाबलानि ग्रहाः प्रयच्छन्ति शुभाशुभानि ।
मनःसमेतानि यथेन्द्रियाणि कर्मार्हतां(कर्मण्यतां) यान्ति न केवलानि ॥
सर्वतः क्षुतम् अशोभनम् उक्तं गोः क्षुतं(गोक्षुतम्) मरणं एव करोति ।
केचिद् आहुर् अफलं बकाद् च(हि बलाद्) यद् वृद्धपीनसितबालाकृतं च ॥
शकुनतिथिभलाभे छत्त्रशय्यासनाद्यं पदम् अपि विजिगीषुश् चालयेच् छ्रदधानः(छ्रद्धधानः) ।
यदि शकुननिमित्तस्वप्नचेतोविशुद्धिर्(शकुननिमित्ते ऽस्य स्वचेतोविशुद्धिर्) न भवति तद् अनिष्टं सर्वकार्येषु यानम् ॥
दिनकृद्दिवसे तथा ऽंशके यात्रा लग्नगते ऽथवा रवौ ।
संतापायति स्मरातुरा(स्मरातुरं) वेश्ये ऽवा ऽर्थविवर्जितं नरम् ॥
उदये शशिनो ऽंशके ऽह्नि वा भवति गतो न चिरेण दुर्मनाः ॥
प्रमदाम् इव जातयौवनां(यातयौवनां) रत्यर्थं समवाप्य कर्कशः ॥
भौमोदये ऽंशे ऽहनि वा ऽस्य यात्रा करोति बन्धं वधम् अर्थनाशम् ।
संसेविता ऽपापपराङ्मुखेन मनोभवान्धेन पराङ्गने ऽव ॥
बुधस्य लग्नांशकवासरेषु यात्रा नरं प्रीणयति प्रकामम् ।
भावानुरक्ता प्रवराङ्गने ऽव विदग्धचेष्टा मदनाभितप्तम्(मदनाभिभूतम्) ॥
गुरोर् विलग्नांशदिनेषु यात्रा शुभानु(हितानु)बन्धेप्सितकामदा च । --
जाये ऽव भर्तुर् मनसो ऽनुकूला कुलाभिवृद्ध्यै रतिदा हिता च ॥
यात्रा भृगोर् अंशदिनोदयेषु प्रीणाति कामैर् विविधैर् यियासुम् ॥
विलासिनी कामवशोपयातम् भावैर् अनेकैर् मदनातुरे ऽव ॥
द्युलग्नभागेषु शनेश् च यात्रा प्राणच्छिदादीन् प्रचिनोति(प्रतनोति) दोषान् ।
अन्यप्रसक्ता वनिते ऽव मोहात् संषेविता(मोहान् निषेविता) मन्मथमोहितेन ॥
लग्नेन हीना ऽन्यगुणान्वितापि प्रीतिं न यात्रा मनसः करोति ।
स्वलङ्कृता रूपसमन्विता ऽपि प्रभ्रष्टशीला वनिते ऽव पुंसः ॥
लग्नस्य शुद्धिः शकुनैर् निमित्तैर् विज्ञायते ऽन्तःकरणेन सम्यक् ।
अनन्यभावाश्रयसंप्रवृत्तैः कौली ऽव पुंसश् चरितैर् विदेशे ॥
छाया शुभाशुभफलानि निवेदयन्ती लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः ।
तेजोगुणान् बहिर् अपि प्रविकाशयन्ती दीपप्रभा स्फटिकरत्नघटस्थितैव(स्फटिकरत्नघटस्थिते ऽव) ॥
स्निघद्विजत्वङ्नखरोमकेशा छाया सुगन्धा च महीसमुत्था ।
तुष्ट्यर्थलाभाभिउदयान् करोति धर्मस्य च ऽहन्य् अहनि प्रवृद्धिम् ॥
स्निग्धा सिता च हरिता नयनाभिरामा सौभाग्यमार्दवसुखाभ्युदयान् करोति ।
सर्वार्थसिद्धिजननी जननी ऽव चाप्या(ऽऽप्या) छाया फलं तनुभृतां शुभम् आदधाति ॥
चण्डा ऽधृष्या पद्महेमाग्निवर्णा युक्ता तेजोविक्रमैः सप्रतापैः ।
आग्नेयी ऽति प्राणिनां स्याज् जयाय क्षिप्रं सिद्धिं वाञ्छितार्थस्य धत्ते ॥
मलिनपरुषकृष्णा पापगन्धा ऽनिलोत्था जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।
स्फटिकसदृशरूपा भाग्ययुक्ता ऽत्युदारा निधिर् इव गगनोत्था श्रेयसां स्वच्छवर्णा ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-14T09:06:56.6070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

incertae sedis

  • Bot.(Latin- of uncertain taxnomic position) अनिश्चित वर्गीकरण स्थान असलेला 
RANDOM WORD

Did you know?

pl. kartiksnanache ani kakadariche mahatva sangave ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site