TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

योगयात्रा - नक्षत्रकेन्दुभाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


नक्षत्रकेन्दुभाध्याय
जन्मर्क्षम् आद्यं दशमन् तु कर्मं(दशमं च कर्म) सांघातिकं षोडशम् ऋक्षम् आद्यात् ।
अष्टादशं स्यात् समुदायसंज्ञं वैनाशिकं विंशतिभात् तृतीयम् ॥
यत् पञ्चविंशं खलु मानसं तत् षडृक्ष एवं पुरुषस् तु सर्वः ।
राज्ञो नवर्क्षाणि वदन्ति जातिदेशाभिषेकैः सहितानि तानि ॥
राज्ञो ऽभिषेकर्क्षम् उशन्त्य् अमिश्रं साधारणे द्वे सह षड्भिर् आद्यैः ।
किम्त्व् अत्र दोषाश् च गुणाश् च सर्वे प्रधानम् एकं पुरुषं भजन्ते ॥
कूर्मोपदिष्टानि हि देशभानि राज्ञो ऽभिषेकाहनि च ऽऽभिषेकम् ।
या जातयश् भस्य भवन्त्य् अतस् ता वर्गांश् च वक्ष्यामि यथाक्रमेण ॥
पूर्वात्रयं सानलम् अग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर् भं च कृषीवलानाम् ॥
आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति भानि ।
मूलत्रिनेत्रानिलवारुणानि भान्य् उग्रजातेः प्रभविष्णुतायाः ॥
सौम्येन्द्र(ऐन्द्र)चित्रावसुदैवतानि सेवाजनस्वाम्यम् उपागतानि ।
सार्पं विशाखाश्रवणे भरण्यश् चाण्डालजातेर् अभिनिर्दिशन्ति ॥
रविरविसुतभोगम् आगतं क्षितिसुतभेदनवक्रदूषितं ।
ग्रहणगतम् अथो ऽल्कया हतं नियतमुखाकर पीडितं च यत् ॥
तद् उपहतम् इति प्रचक्षते प्रकृतिविपर्ययजातम् एव वा ।
निगदितपर(परि)वर्गदूषितं कथितविपर्ययगं समृद्धये ॥
रोगाभियागमवित्तनाशकलहा सम्पीडिते जन्मभे
सिद्धिं कर्म न याति कर्मणि हते भेदास् तु सांघातिके ।
द्रव्यस्योपचितस्य सामुदयिके संपीडिते संक्षयो
वैनाशे तु भवन्ति कायविपदश् चित्तासुखं मानसे ॥
निरुपद्रुतभो निरामयः सुखभाग् पुष्टतनुर्धनान्वितः ।
षडुपद्रुतभो विनश्यति त्रिभिर् अन्यैश् च सह ऽवनीश्वरः ॥
न भवति शरीरपीडा यस्य विना शान्तिभिर् भपीडायाम् ।
तस्य शरीरविपत्तिः पाकान्ते देवलः प्राह ॥
सर्वेषां पीडायां दिनम् एकम् उपोषितो ऽनलं जुहुयात् ।
सावित्र्या क्षीरतरोः समिद्भिर् अमरद्विजानुरक्तः॥
गोक्षीरसितवृषभ(वृष)शकृन्मूत्रैः पत्रैश् च पूर्णकोशायाः ।
स्नानं जन्मनि दुष्टे स्वाचारवतां हरति पापम् ॥
कर्मणि मधुघृतहोमो दशाहम् अक्षारमद्यमांसादः ।
दूर्वाप्रियंगुसर्षपशतपुष्पशतावरीस्नानम् ॥
सांघातिके ऽभितप्ते(तु तप्ते) मांसमधुक्रौर्यमन्मथांस् त्यक्त्वा ।
स्नातो(दान्तो) दूर्वां जुहुयाद् दानं दद्याद् यथाशक्ति ॥
सामुदयिके ऽपि(तु) दद्यात् काञ्चनरजतान्य् उपहते धिष्ण्ये ।
वैनाशिके ऽन्नपानं वसुधां च गुणाण्विते दद्यात् ॥
मानसतापे होमः सरोरुहैः पायसैर् द्विजाः पूज्याः ।
गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-14T09:06:58.8700000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

afferent neuron

  • Zool. (also called receptor neuron or sensory neuron) अभिवाही चेतापेशी 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site