योगयात्रा - आचाराध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


रक्तासिताद्या हि यथाम्बरस्य वर्णाः सितस्यैष भवन्ति सम्यक् ।
विलग्नतिथ्यादिगुणास् तथैव विशुद्धदोषस्य भवन्ति यातुः ॥
मद्याङ्गनावादितनृत्यगीतान्य् अक्षा वृथाद्या(वृथाट्या) मृगया द्युनिद्रा ।
परोक्षनिन्देति च कामजानि दशैव विन्द्याद्(विद्याद्) व्यसनानि पुंसाम् ॥
वाक्पारुष्यं दण्डपारुष्यम् ईर्ष्यां(ईर्ष्या) द्रोहो ऽसूया पैशुनं साहसञ् च ।
अर्थस्योक्तं दूषणं च ऽष्टसंख्यः क्रोधोद्भूतो वर्ग एष प्रदिष्टः ।
महद् इदम् अनयानाम् आस्पदं मद्यम् आहुस् तनुधनमतिसत्त्वश्रेयसां कर्षणाय ।
समुपहतमतिः सन्(संस्) तत्प्रधानेन्द्रियत्वाद् गणयति न हि भक्ष्याभक्ष्यम् अन्यानि चैवम् ॥
पत्नीयत्य् अपि मातरं मदवशात् पत्नीं च मात्रीयति
श्वभ्रीयत्य् अपि मन्दिरं श्लथशिलं कूपं च गेहीयति ।
स्वल्पं वार्य् उदधीयतीश्वरम् अपां मोहात् स्थलीयत्य् अपि
मित्रीयत्य् अपि पार्थिवं किम् अपरं कुर्यान् न यन् मद्यपः ॥
भूयो ऽपि दीव्यति जितो जयलिप्सयैव प्राप्नोति तच् च सविशेषतरं कदाचित् ।
कृत्वा ऽप्रियाणि मदतः परितो ऽप्य् अटन्ति(परितप्य चान्ते) भूयः(भूपः) पिवेत् किम् अपि दोषविशेषकांक्षी ॥
अभ्यागमोत्सवभिषग्वचनोपदेशैः कामं पिबेद् अमतिलोपकृद् अप्रकाशम्(आप्रकामम्) ।
द्यूतं विनेन्द्रियसुखानि हितानि युक्त्या विज्ञस्य(शून्यं हि) जीवितफलं विषयैर् विना किम् ॥
शौचाचारविवर्जितः शव इव त्यक्तः सुहृद्बान्धवैर्
निश्शङ्को निरपत्रपो गतघृणः कृच्छ्राद् अवाप्ताशनः ।
बन्धुर् नास्य निबन्धनं न शपथो लोकद्वयं नेक्ष्यते
मायावी कुलपांशलश् च कितवो दोषाकरो(दोषार्णवो) निःसुखः ॥
दैवज्ञमन्त्रिसुहृदाप्तवचांसि राजा यो न ऽऽद्रियेन् निजविचेष्टितदुष्टबुद्धिः(द्रियेत् स्वमतिचेष्टितदुष्टबुद्धिः) ।
सो ऽग्रेमरेण(सन्नायकेन) रहितो ऽन्ध इव ऽचिरेण हास्यत्वम् एति पतितो विषये रिपूणाम् ॥
मेधावी मतिमान् अदीनवचनो दक्षः क्षमावान् ऋजुर्
धर्मात्माप्य्(धर्मात्मा त्व्) अनसूयको लघुकरः षाड्गुण्यविच् छक्तिमान् ।
उत्साही पररन्ध्रवित् कृतधृतिर् वृद्धिक्षयस्थानवित्
शूरो न व्यसनी स्मरत्य् उपकृतिं(उपकृतं) वृद्धोपसेवी च यः ॥
परीक्ष्यकारी न विकस्थनश्(विकत्थनश्) च दृढपतिज्ञो ऽतिदृढपहारी ।
जितेन्द्रियः स्याज् जितकोपलोभनिद्रालसस्थानपरिग्रहश् च ॥
त्यागी विनीतः प्रियदर्शनश् च व्यपेतमोहः प्रतिपत्तियुक्तः ।
देशस्य कालस्य च भागविज्ञः(भागविद् यः) स्वयं च यः स्याद् व्यवहारदर्शी ॥
शब्दार्थविन् न्यायापटुः प्रगल्भः संग्रामविद्याकुशलो ऽभिजातः ।
स्मिताभिभाषी मितसत्यवक्ता दैवान्वितो यस्य(यश् च) स धाम लक्ष्म्याः ॥
गुणैः समस्तैर् अपि संप्रयुक्ता कन्येव यात्रा विगुणाय दत्ता ।
करोत्य् अकीर्तिं सुखवित्तहानिं(सुखवित्तहीनां) यात्रान्तरज्ञानजडस्य(पात्रान्तरज्ञानजडस्य) दातुः ।
गुणान्वितस्यैव गुणं करोति यात्रा शुभर्क्षग्रहलग्नयोगात् ।
व्यर्था सदोषस्य गुणान्विता ऽपि वीणेव शब्दाश्रयवर्जितस्य ॥
यात्रा विशुद्धा ऽपि समं प्रवृत्ता पात्रानुरूपाणि फलानि धत्ते ।
जगत्य् उदीर्णा ऽपि हि कौशिकस्य भा भानवी नैव तमः प्रमार्ष्टि ॥
विचिन्त्य कार्याणि निशावसाने द्विषत्सुहृन्मण्डलसंश्रितानाम् ।
बलार्थदेशेषु नियोजितानां समाश्रितानां च कृताकृतानि ॥
अनाद्श्रितः ख्यातगुणः परो ऽपि शूरो ऽथवा साधुजनः प्रशस्तः ।
सम्पूजनीयो जनसंप्रहार्थम् ममेति देशोपगतो विचिन्त्य ॥
सवेणुबीणापणवस्वनेन गीतेन पूर्वं व्यपनीतनिद्रः ।
शय्यां त्यजेत् तूर्यरवावसाने शृण्वन् गिरो मङ्गलपाठकानाम् ॥
अज्ञातपूर्वाणि न दन्तकाष्ठान्य् अद्यान् न पत्रैश् च समन्वितानि ।
न चोर्ध्वशुष्कानि(युग्मपर्वाणि) न पाटितानि न युग्मपर्वाणि(चोर्ध्वशुष्कानि) विना त्वचा च ॥
उदङ्मुखः प्राङ्मुखसंस्थितो वा ऋज्व् अब्रणं तच् च वितस्तिमात्रम् ।
अद्यान् नरेन्द्रो विनियम्य(विनिगृह्या) वाचं प्रक्षाल्य जह्याच् च शुभप्रदेशे(शुचौ प्रदेशे) ॥
अभिमुखपतितं प्रशान्तदिक्स्थं शुभम् अतिशोभनम् ऊर्ध्वसंस्थितं च ।
अशुभकरम् अतो ऽन्यथा प्रदिष्टं स्थितपतितं च करोति मिष्टम्(मृष्टम्) अन्नम् ॥
प्रणम्य देवांश् च गुरूंश्(देवाण् स्वगुरूंश् च) पूर्वं दत्वा च गां वत्सयुतां द्विजाय ।
दृष्ट्वा मुखं सर्पिषि दर्पणे च नक्षत्रम् आदौ शृणुयात् तिथिं च ॥
श्रुत्वा तिथिं भग्रहवासरं(भं ग्रहवासरं) च प्राप्नोति धर्मार्थयशांसि सौख्यम् ।
आरोग्यम् आयुर् विजयं सुतांश् च दुःस्वप्नजातं(दुःस्वप्नघातं) प्रियतां च लोके ॥
दूर्वेभदानाञ्जनतीर्थतोयमृद्रोचनासर्षपपुष्पगन्धान् ।
सिताम्बरोष्णीषसुवणरत्नान्य् आसेव्य कुर्याद् भिषजां वचांसि ॥
स्मितप्रसन्नप्रथमाभिभाषितैः प्रसाददृष्ट्या करसंपरिग्रहैः ।
यथाभिरूपं(यथानूपं) हृदयान्य् अपि द्विषां प्रसादयन् धर्मसभां समाश्रयेत् ॥
विनीतवेषाभरणः सदक्षिणं(विनीतवेषाभरणश् च दक्षिणं) कर(करं) समुद्यम्य विचक्षणान्वितः ।
सुखोपविष्टः स्थित एव वा नृपः समारिमित्रो व्यवहारदर्शने ॥
क्षमान्वितो ऽस्मीति विचिन्त्यम् एतद् दण्ड्येषु दण्डक्षमणं न धर्मः ।
दण्डप्रभोआवो हि स दुर्जनस्य हस्ते न यो जीवति साधुवर्गः ॥
सुतराम् अभिवर्द्धते ऽभिमानो नीचानां क्षमया ऽन्वितेषु यस्मात् ।
अत उग्रतरेण ते निवर्त्त्या येन ऽन्ये ऽपि खलास् तथा न भूयः ॥
यस्मिन् गृहीतः(गृहीते) सदृशापराधो महाजनस् त्रासम् उपैति तस्मिन् ।
दण्डो निपात्यो मनुजेश्वरेन कालान्तरे ऽन्यद् व्यपदिश्य कार्यम् ॥
द्विरद इव मदेन विप्रयुक्तो विषरहितो भुजगो व्यसिश् च कोशः ।
परिभवम् उपयाति न ऽपराधे यदि मनुजाधिपतिः करोति दण्डम् ॥
एकस्य तुल्योदरपाणिपादा दण्डात् प्रभीताः(दण्डस्य भीताः) प्रणमन्ति मर्त्याः ।
अत्युग्रदण्डाद् अपि चोद्विजन्ते दण्डो ऽपराधप्रतिमः शिवाय ॥
दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः ।
अपक्षपातो ऽर्थिषु राष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥
श्रान्तश् च तस्मिन् विनियुज्य साधून् संग्रामविद्यादिविभक्तकालः ।
सर्वाणि कार्याणि यथाक्रमेण कुर्यान् नृपः प्रत्यहम् आत्मवांश् च ॥
राज्ञा कार्यं पञ्चमे पञ्चमे ऽह्नि क्षौरर्क्षे वा श्मश्रु भस्योदये(तस्योदये) वा ।
त्यक्त्वा ताराः पञ्चसप्तत्रिपूर्वा(सप्तपञ्चत्रिपूर्वा) यात्राकाले नैव कार्यं न युद्धे ॥
आचारस्थः सागरान्तां धरित्रीं भुङ्क्ते दीर्धं कालम् उत्खातशत्रुः ।
यत्रा ऽऽचारस् तत्र धर्मस्य वृद्धिर् धर्माद् भोगान् देहभेदे ऽपि भुङ्क्ते ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP