योगयात्रा - अग्निनिमिताध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


वेदी शुभा शुल्व(शिल्प)विधानदृष्टा दिक्स्थानमानाभ्य्धिका(दिक्-स्थान-मानानधिका) न हीना ।
भ्रष्टप्रमाण(भ्रष्टा प्रमाणेन) प्रकरोति(करोति) भङ्गं दिग्वक्रसंस्था च न(न च) सिद्धिदा स्यात् ॥
प्राग्भागहीना नगरस्य नेष्टा पुरोधसां(पुरोधसो) दक्षिणभागवक्रा ।
नरेन्द्रजायाशुभदा परस्याम् उदग् बलेशस्य नृपस्य मध्ये ॥
सत्त्वैर् अलीढं न पिपीलमक्षिकामलाविलं वा(तद्) विजयप्रदं हविः ।
द्रव्याण्य् अनूनानि पटुः पुरोहितो जुहोति सम्यग् विजयाय भूभृताम् ॥
गन्धमाल्यचरुकुम्भभाजनस्रुक्कुशव्यजनसर्पिषां यदा ।
भङ्गविस्मृतिनिपातहीनता पार्थिवस्य न भवेत् तदा शुभम्(तदा भवेच् छिवम्) ॥
शान्तायां दिशि यदि शङ्खतूर्यशब्दाः सप्तीनां प्लुतमिभबृङ्हितानि(रुतगजबृंहितानि) वास्युः ।
पुंसां वा प्रमुदितचेष्टितप्रलापाः श्रूयन्ते यदि च जयो ऽस्ति होमकाले ॥
अप्रतिरथः समस्तो यात्रालिङ्गस् तथा ऽभयश् च(ऽभयस्य) गणः ।
स्वस्त्ययनशर्मवर्मा ऽपराजिताः पुष्पसंज्ञाश् (ऽपराजिता ऽऽयुष्यसंज्ञाश्) च ॥
इन्द्रश् चन्द्रश् चिति(चन्द्रेति) गणो यत्(यं) ते चन्द्रश् च भूतभूतेति ।छेच्केद्
सूक्तं महाव्याहृतयो मन्त्राशीर्वैष्णवा(सूक्तमहाव्याहृतयः प्राजापत्याश् च ये) मन्त्राः ॥
प्राजापत्याश् चोक्ता होमे(उक्ताः काले लचुन राज्ञो) निर्गच्छतो ऽनु गमने च ।
अग्निपुरोहितसंस्थान्य् अतो(होमे ऽग्निप्रोहितसंस्थानि) निमित्तानि वक्ष्यामि(गृह्णीयात्) ॥
कृते ऽपि यत्ने ऽतिकृशः (ऊऽपि कृZअः) कृशानुर् यातव्यकाष्ठाविमुखो नतार्चिः ।
वामीकृतावर्तशिखो (ऊवामे कृतावर्तशिखो) ऽतिधूमो विच्छिन्नसाकम्पविलीनमूर्तिः ॥
शिमशिमायति(शिमिशिमायति,ऊसिमिसिमायति) यस्य (ऊचास्य) हविर् हुतं सुर-धनुः-सदृशः कपिशो (ऊकपिलो) ऽथवा ।
रुधिरपीतकबभ्रुहरिच्छविः परुषमूर्त्तिर् अनिष्टकरो ऽनलः ॥
श्वखरकरभ (ऊखरकरभक)वानरानुरूपो निगडविभीषणशस्त्ररूपभृद् वा ।
शवरुधिरवसास्थिवस्त(ऊमज्ज)गन्धो हुतभुग् अनिष्टफलः स्फुलिङ्गकृच् च ॥
चर्मविपाटनतुल्यनिनादो जर्जरमन्दवि(मन्द्रवि,ऊदर्दुर)रूक्षरवो वा ।
आकुलयंश् च पुरोहितसभ्यान् (ऊपुरोहितमर्त्यान्) धूमचयैर्(ऊधूमलवैर्) अशिवाय (ऊन शिवाय) हुताशः ॥
अब्(अब्) ।स्वाहावसानसमये स्वयम् उज्ज्वलार्चिः स्निग्धप्रदक्सिणशिखो(स्निग्धः प्रदक्सिणशिखो) हुतभुग् नृपस्य ।
च्द्(च्द्) ।गङ्गादिवाकरसुताजलचारुहारां धात्रीं समुद्ररसनां वशगां करोति ॥
हारकुन्दकुसुमेन्दु(ऊकुमुदेन्दु)संनिभः संहतो ऽङ्गसुखदो महोदयः ।
अङ्कुशाब्जजलवारणच्छविर्(ऊअङ्कुशातपनिवारणाकृतिर्) हूयते ऽल्पतपसां न (ऊऽल्प उपमान) हव्यभुक् ॥
चामीकराशोककिरीटरत्न(कुरण्टकाब्ज)वैदूर्यनीलोत्पलसंनिभे ऽग्नौ ।
न ध्वान्तम् अन्तर् भवने ऽवकाशं करोति रत्नांशुहृतं(हतं) नृपस्य ॥
येषां रथौघार्णवमेघदन्तिनां समः स्वनो(समस्वनो) ऽग्निर् यदि वा ऽपि दुन्दुभेः ।
तेषां मदान्धेभघटावघट्टिता भवन्ति याने तिमिराबिला (तिमिरोपमा) दिशः ॥
ध्वजकुम्भहयेभभूभृताम् अनुरूपे वशम् एति भूभृताम् ।
उदयास्तधराधराधरा हिमवद्विन्ध्यपयोधरा धरा ॥
द्विरदमदमहीसरोजलाजैर् घृतमधुना च हुताशने सगन्धे ।
प्रणतनृपशिरोमणिप्रभाभिर् भवति पुरश् छुरिता नृपस्य दीप्तिः ॥
अग्न्याश्रितं यत् फलम् उक्तम् अस्मिंस् नृजातकर्मादिषु( पौष्टिकेषु ।
यज्ञेषु सर्वेषु च वह्निकार्येष्व् एवं वदेद् यस्य यथानुरूपम् ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP