TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

योगयात्रा - हस्तिलक्षणाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


हस्तिलक्षणाध्याय
आरिराधयिषुणा नराधिपं वारणाश्रितम् इदं शुभाशुभम् ।
ज्ञेयम् आदरवता विपश्चिता वारणेषु नृपतेर् जयस्थितिः ॥
सार्द्धं हस्तशतं दैर्घ्या सावंशं विपुला शतम् ।
चतुरस्त्रा ऽथवा वृत्ता वारी वारणवृद्धिदा ॥
दशावगाहेन करा विस्तीर्णा दश चोपरि ।
अधःखातस्य पदवी हस्तमात्रा प्रकीर्तिता ॥
कर्त्तव्यं पूर्वतो द्वारम् उत्तरं वा शुभावहम् ।
दक्षिणं पश्चिमं वा ऽपि न कर्त्तव्यं कथञ् चन ॥
मेढकस्तम्भमात् तृणां वृक्षाग्रं नावनौ क्षिपेत् ।
पूर्वाप्राच् चोत्तराग्राच् च संयोज्या नित्यम् अर्गला ॥
दश विस्तारतो द्वारं पार्श्वयोस् तस्य मातृकाः ।
चतुर्दश करोत्सेधा निःखात्य चतुरः करान् ॥
षट् षण्मेढान्तरस्थाश् च मेढकाः पञ्च पञ्च च ।
चतुर्हस्तनिखातास् ते समुच्छ्रायान् वदाम्य् अतः ॥
षट् सप्ताष्टनवोत्सेधा दश वेति यथाक्रमम् ।
नव वा दश वा वेधा मातृका याः षडङ्गुलाः ॥
वेधहान्यावशेषाः स्युर् मातृकाः क्रमशो ऽपराः ।
इति द्वारसमासो ऽयं वार्य्यास् संपरिकीर्त्तितः ॥
मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धा न कृशाः क्षमाश् च ।
गात्रैः समैश् चापसमानवंशा वाराहतुल्यैर् जघनैश् च भद्राः ॥
वक्षो ऽथ कक्षा वलयः श्लथश् च लम्बोदरस् त्वग्वृहती गलश् च ।
स्थूला च कुक्षिः सह मेचकेन सैंही च दृग्मन्दमतङ्गजस्य ॥
मृगास् तु ह्रस्वाधरबालमेढ्रास् तन्वघ्रिकण्ठद्विजहस्तकर्णाः ।
स्थूलेक्षणाश् चेति यथोक्तचिह्नैः सङ्कीर्णनागा व्यतिमिस्रचिह्नाः ॥
पञ्चोन्नतिः सप्त मृगस्य दैर्घ्यम् अष्टौ च हस्ताः परिणाहमानम् ।
एकद्विवृद्धाव् अथ मन्दभद्रौ संकीर्णनागो ऽनियतप्रमाणः ॥
भद्रस्य वर्णो हरितो मदस्य मन्दस्य हारिद्रिकसन्निकाशः ।
कृष्णो मदश् चाभिहितो मृगस्य संकीर्णनागस्य मदो विमिश्रः ॥
स्थपतिर् अतः प्रयतो गजशालां नरपतिमन्दिरदक्सिणभागे ।
अवनिगुणान् अवलोक्य विदध्यात् कृतबलिहोमसुराचनशान्तिः ॥
यातुधानदितिसर्पसङ्कुला सन्निकृष्टविबुधद्विजालया ।
शर्करास्थिचयभस्मदूषिता पार्थिवद्विरददोषदा मही ॥
किञ्चिद् अभ्युन्नता भूः प्रशस्तद्रुमा गोभिर् अध्यासिता साधु मध्ये समा ।
भूरितोया ऽघना हृद्दृगाह्लादिनी शल्यदोषैर् विना सानुनादस्वना ॥
स्निग्धपल्लवद्रुमा प्रदक्षिणाम्बुवाहिनी ।
स्वराष्ट्रवृद्धिदा मही हिता ऽथ नागवाजिनाम् ॥
भद्रमन्दमृगमिश्रदन्तिनां श्वेतरक्तकनकोपमासिताः ।
भूमयो द्विरदपुष्टिवृद्धिदा भूभृताम् अपि यशः सुखावहाः ॥
ज्येष्ठा चतुर्विंशतिर् एव हस्ता द्विद्व्यूनिते मध्यजघन्यशाले ।
विस्तारतस् तद्द्विगुणाश् च दीर्घास्तम्भाश् च विस्तारसमुच्छ्रिताः स्युः ॥
ज्येष्ठो ऽङ्गुलानि बहुलो दशषड्युतानि मध्यस् तु पञ्चदश कन्यस्?ओ ऽङ्गुलोनः ।
स्तम्भप्रमाणविपुलाः क्रमशो निषङ्गाः प्रोक्ताङ्गुलार्द्धसदृशं बहुलत्वम् एषाम् ॥
सर्वासु शालासु च कण्टकस्य हस्तो ऽर्धयुक्तः परिणाह उक्तः ।
कण्टप्रमाणेन समुन्नतश् च तलप्रवन्धो दृढदारुबन्धः ॥
अलिन्दभित्तौ तु गवाक्षकेषु कुर्याद् गुणद्वारकजालकांश् च ।
निर्ब्यूहयुक्तासु च वेदिकासु कार्या बिभूषा परितो मयोक्ता ॥
कमलोत्पलहंसयुगप्रमथैः प्रमदायुगपत्रविहङ्गघटैः ।
विविधैस् तरुभिः सशुकभ्रमरैः फलपल्लवपुष्पभरावनतैः ॥
व्यालककुञ्जरमत्स्यमृगेन्द्रैः कन्दम्र्णाललतांकुरशोभैः ।
 वारिचरैश् च चिता मकराद्यैः शिक्षितशिल्पिविनिर्मितरूपा ॥
द्वारोच्छ्रायाः कुञ्जराणाम् अतुल्या विस्तारो ऽस्य त्र्यंशहीनः स एव ।
हीनो भूयश् चात्मषष्ठांशकेन शालाद् द्वारं प्रागुदक् च प्रशस्तम् ॥
विचित्रनिर्व्यूहमृगेन्द्रपञ्जरं कपाटमेढार्गलसुप्रयोजितम् ।
सुवेदिकालङ्कृतम् ईक्षणप्रियं प्रवेशनं निर्गमनाय चापरम् ॥
चन्दनार्जुनशिरीषमधूका देवदारुसरलाञ्जनशालाः ।
रोहिणीखदिरचम्पकशाकाः स्यन्दनश् च सकदम्बविशोकाः ॥
शीताः शिवाश् च द्विपबन्धनार्थम् एते द्रुमाः पुष्टिकरा द्विपानाम् ।
स्तम्भार्थम् अन्ये ऽपि हि सारवन्तः कार्याः प्रशस्ता गुणसंप्रयुक्ताः ॥
पूर्वाभिमुखो निबध्यते यः क्षिप्रं स करोति विक्रमम् ।
राज्ञस् समरेष्व् अनिर्जितो दीर्घं चायुर् अवाप्नुयाद् गजः ॥
दक्षिणदिग्वदनस्य च बन्धो जीवितनाशकरो द्विरदस्य ।
धान्यधनक्षयम् आशु च कुर्यान् मन्त्रिजनस्य नराधिपतेश् च ॥
पश्चान् मुखं बन्धम् अवाप्य नागो नित्यं भवेद् रोगनिपीडिताङ्गः ।
नाशञ् च वित्तस्य करोति राज्ञस् तस्मात् स याम्यापरदिग्विवर्ज्यः ॥
उदङ्मुखं बन्धम् उपैति नागो यो ऽर्थस्य वृद्धिं स करोति भर्तुः ।
प्राप्नोति पुष्टिं चिरजीविताञ् च संग्रामकालेष्व् अपराजयञ् च ॥
सुषिरोर्ध्वशुष्ककोटरकोलाक्षप्रन्थिबहुलशूलाग्राः ।
मधुनिलयमूलहीनाग्रकुञ्जबल्लीव्रणानुगताः ॥
वामावर्त्तः शृङ्गी कुणिलो ऽवनतो ऽनुजातविद्धश् च ।
पितृवनजः स्थूलाप्रस्त्रिकुब्जको द्राणिकावहुतः? ॥
स्थूलग्रन्थिर् वज्रेण चूर्णितश् चाशुभप्रदाः ।
सर्वे बन्धार्थे नागानाम् अतः फलानि प्रवक्ष्यामि ॥
मासान् षडूर्ध्वसुषिरे स्तम्भे च बन्धमासाद्य ।
मरणम् उपयाति नागो निपीडितो वातरोगेण ॥
म्रियते कोटरविद्धे कोलाक्षे ऽन्धत्वम् आप्नुयाद् नागः ।
क्षुत्पीडां ग्रन्थिचिते मृत्युं शूलेन शूलाग्रे ॥
मूलाग्रकुब्जहीनेषु मरणम् अब्दात् सहैव हस्तिन्याः ।
शृङ्गिनि मृत्युर् मधुदूषिते च मरणं कृमिगदेन ॥
गात्रस्य भवति भङ्गो बल्लीदुष्टे घ्राणावकीर्णे च ।
वामावर्त्ते नृपतेर् विनश्यते वाहनं सर्वम् ।
मृद्गर्भे कुणिलाख्ये नृपतेः समहाजनस्य मरणाय ।
नागस्य तु त्रिकुब्जे भवति बधो युध्यतः स्तम्भे ॥
अनुजातविद्धबद्धः सुकुमारो वारणो मरणम् एति ।
वर्षद्वयेन मृत्युः पितृवनजाते निबद्धस्य ॥
स्थूलाग्रानतयोर् मरणम् एति मासे ऽष्टमे महामात्रः ।
द्विरदस्य क्षुत्पीडा बद्धस्य द्रोणिकाबहुले ॥
स्थूलग्रन्थिर् विस्फोटमृत्युकृद् दन्तिनो द्वितीये ऽब्दे ।
अशनिहते विज्ञेयः षण्मासाद् दन्तिनां मृत्युः ॥
प्रदक्षिणावर्त्तमनोज्ञवृतसुस्निग्धऋज्वव्रणसारवन्तः ।
दोषैर् विहीना विजयाय शुद्धाः स्तम्भा द्विपानां बलपुष्टिदाः स्युः ॥
यः सम्पातः कर्णसूत्र?द्वयस्य तस्माद् धस्तं सार्द्धम् उत्सृज्य कार्यः ।
दिश्य् ऐशान्यां बन्धनार्थं द्विपानां स्तम्भो राज्ञः श्रेयसे दन्तिनश् च ॥
आग्नेय्यां द्विपमरणं नृपार्थहानिर् नैरृत्यां समरपराभवार्थनाशौ ।
मारुत्यां भवति मतङ्गजस्य रोगः स्तम्भो ऽतः शिवदिशि रोपितः शिवाय ॥
ज्येष्ठो दशोच्चो नव मध्यमश् च स्तम्भो ऽष्टहस्तः कथितः कनीयान् ।
सर्वे निखाताश् चतुरश् च हस्तान् मानाधिकोनाश् च शिवाय न स्युः ॥
स्याद् विंशतिर् द्वित्रिचतुर्विहीना मूले ऽङ्गुलानां पृथुता क्रमेण ।
द्व्यूनानि तान्य् एव हि मस्तके स्युः पर्यन्तवेष्टा त्रिगुणानि तानि ॥
ताम्रौष्ठतालुवदनाः कलविङ्कनेत्राः स्निग्धोन्नताग्रदशनाः पृथुलायतास्याः ॥   
चापोन्नता यतनिगूढनिमग्नवंशास् तन्वेकरोमचितकूर्मसमानकुम्भाः ॥
विस्तीर्णकर्णहनुनाभिललाटगुह्याः कूर्मोन्नतैर् द्विनवविंशतिभिर् नखैश् च ।  
रेखात्रयोपचितवृत्तकराः सुब?ला धन्याः सुगन्धिमदपुष्करमारुताश् च ॥
दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादवृंहिणः ।
बृहदायतवृत्तकन्धरा धन्या भूमिपतेर् मतङ्गजाः ॥
निर्मदाभ्यधिकहीननखाङ्गान् कुब्जवामनकमेषविषाणान् ।   
दृश्यकोशफलपुष्करदीनान् श्यावनीलशवलासिततालून् ॥
स्वल्पवक्त्ररुहमत्कुणषण्ढान् हस्तिनीञ् च गजलक्षणयुक्ताम् ।
गर्भिनीञ् च नृपतिः परदेशं प्रापयेद् अतिबिरूपफलास् ते ॥
दन्तमूलपरिणाहदीर्घतां द्विःप्रमुच्य परतो ऽस्य कल्पयेत् ।
श्यावपू?तिमलरक्तदर्शनं पापसत्त्वसदृशं च पापदम् ॥
पार्थिवोपकरणाकृतिं यदा चिह्नम् उद्वहति कल्पिते रदे ।
श्रीजयार्थवलवृद्धयस् तदा स्निग्धशुक्लरुचिराश् च शोभनाः ॥
दक्षिणे शुभम् अतीवशोभन पापम् अप्य् अतिविरूपम् अन्यतः ।
जाप्यता भवति तद् विपर्यये विस्तरो ऽन्यमुनिभिः प्रकीर्त्तितः ॥
मूलमध्यदशनाग्रसंस्थिता देवदैत्यमनुजाः क्रमात् ततः ।
स्फीतमध्यपरिपेलवं फलं शीघ्रमध्यचिरकालसंभवम् ॥
दन्तभङ्गफलम् अत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
वामतः सुतपुरोहिते भयं हन्ति भृत्यजनदारनायकान् ॥
आदिशेद् उभयभङ्गदर्शनात् पार्थिवस्य सकलं कुलक्षयम् ।
सौम्यलग्नतिथिभादिभिः शुभं वर्द्धते शुभम् अतो ऽन्यथापरम् ॥
क्षीरमिष्टफलपुष्पपादपैश् चापगातटविघट्टनेन वा ।
वाममध्यरदभङ्गखण्डनं शत्रुनाशकृद् अतो ऽन्यथापरम् ॥
स्खलितगतिर् अकस्मात् त्रस्तकर्णो ऽतिदीनः श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।
द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृद् अहितभक्षी नैकशो ऽसृअक् शकृत्कृत् ॥
वल्मीकस्थाणुगुल्मेक्षुतरुविमथनः स्वेच्छया हृष्टदृष्टिर्
यायाद् यात्रानुलोमं त्वरितपदगतिर् वक्त्रम् उन्नाम्य चोच्चैः ।
कक्ष्यासद्माहकाल् जनयति च मुहुः शीकरं बृंहते वा
तत्कालं वा मदाप्तिर् जयकृद् अथ रदं वेष्टयन् दक्षिणश् च ॥
प्रवेशनं वारिणि वारणस्य ग्राहेण नाशाय भवेन् नृपस्य ।
ग्राहं गृहीत्वात् तरणं द्विपस्य तोयात् स्थले वृद्धिकरं नृभर्तुः ॥
रणे जित्वा शत्रून् भवति नृपलक्ष्मीः क्षितिभृतां
जयस् तेषां येषां मदमलिनगण्डाः करिवराः ।
भिनत्य् एको मत्तः परवलममत्तेभबहुलं
यतो ऽतो ऽहं वक्ष्ये करिमदकरं द्रव्यनिचयम् ॥
जातीगुडूचीकदलीतिलानाम् आस्फोतकर्पासवलान्वितानाम् ।
मार्गी सनीलीगिरिकर्णिकानां धत्तूस्कस्यन्दनमाषभागः ॥
कलम्बुका कर्णकमापपर्णीं पुनर्नवा भृङ्गरजो ऽश्वगन्धाः ।
शेफालिकांसोटककच्छुराश् च कोशातकी गोक्षुरकं विदारी ॥
विष्णुक्रान्ता दुग्धिका शालपर्णी खट्वापादी वाकुची वस्तगन्धा ।
व्याघ्री च स्यात् पृष्णिपर्णी मृणालं पटोरकः सल्लकी तन्दुलीयः ॥
एतैर् यथासंभवसम्प्रयुक्तैर् मत्तस्य नागस्य मदाभिवृद्धिः ।
दानप्रमेदश् च मदोज्झितस्य सर्वाङ्गशोभा च मुखे ऽतिरिक्ता ॥
जीवकमधूकधन्वनपटेरकङ्कोलकदलिऋषभाणाम् ।
सौभाञ्जननिम्बेङ्गुदपरुषकाणाञ् च मूलानि ॥
मूलानि शतावर्याः काकोली क्षीरसंज्ञकाकोली ।
श्लेष्मान्तकशाल्मलिशल्लकीजटाः स्युर् बिम्दायश् च ॥
काशीसाश्मन्तकराजमाषमूलानि चैवम् एतानि ।
सर्वाणि वक्त्रशाभां जनयन्ति सदैव नागानाम् ॥
नीलीपत्रैश् चूर्णितैर् माषचूर्णो दध्ना युक्तो माहिषेणैव पिण्डः ।
नागेन्द्राणाम् आशु घत्ते मदाप्तिं नील्येकैव द्रव्यवर्गे प्रधाना ॥
एकैव करोति काकजङ्घा ह्य् एकेकैव च माषमुद्गपर्णी ।
ताम्बूलवनार्द्रवृश्चिकाल्षश् चैकैका मददास् तथैव मुस्ताः ॥
कार्पास्येका चञ्चुसंयोजिता वा ज्ञेया चैका कण्टकी शैलिकाख्या ।
एकः शस्तो बल्कलः स्फूर्जकस्य जाती भृङ्गेनान्वितो वा कुठेरः ॥
एवम् एवेङ्गुदीमूलं मदप्राचुर्यकारकम् ।
एका च श्वेतकाम्बोजी श्वेता चैका ऽपराजिता ॥
समूलो वीरणस्तम्बः समूला मल्लिका तथा ।
मदप्राचुयसौरम्यं कुर्वन्तीन्दीवराणि च ॥
सुरसा गण्डसंयुक्ता पुनर् नवा गोमये ऽथवा स्विन्ना ।
वाराहीमूलानि च निन्दन्ति गुडेन युक्तानि ॥
मध्वालुका मधुयुता मुखशोभाम् आतनोति नागानाम् ।
नेक्ष्वाहारस्य हितो गुडेन पिण्डो हितो दध्ना ॥
माषाशिनां गुडयुतस्तृणाशिनां शस्यते वसायुक्तः ।
व्यतिमिश्राहाराणां विज्ञाय बलाबलं दद्यात् ॥
प्रायो मदस्य पवनः कुरुते विघातं स्रोतांस्य् अतो घृतयुतैर् बहुशो ऽस्य पिण्डैः ।
स स्वेदयेद् भवति येन मदप्रवृद्धिर् भिन्नस्य चापि मदवृद्धिकराणि दद्यात् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-14T09:06:59.4170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

coxiella burnettii

  • कॉक्सिएला बर्नेटी 
RANDOM WORD

Did you know?

जीवनात वयाच्या कोणत्या वर्षी कोणती शांती करावी?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site