TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

योगयात्रा - बल्युपहाराध्याये

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


बल्युपहाराध्याये
पुरुहूतहुताशयमा निरृतिर् वरुणानिलयक्षशिवाश् च दिशाम् ।
पुनर् अर्कसितारतमोरविजाः शशिसौम्यबृहस्पतयः पतयः ॥
शच्या सहैरावणगः सवज्रो हैमो ऽथवा दारुमयो महेन्द्रः ।
विचित्रमाल्यध्वजरक्तचन्दनैः सौम्योपहारेण च पूजनीयः ॥
अथ मन्त्रम्(मन्त्रः॒) इति जप्त्वा पुरतः प्रन्दरस्य ।
पुरुहूतदिशं नृपो ऽभियुञ्ज्यात् पुरुहूतं हृदये निवेश्य सम्यक् ॥
ताम्रजा प्रतिकृतिः सहस्रगो रक्तचन्दनकृतानुलेपना ।
रक्तवस्त्रकुसुमध्वजार्चिता(ध्वजाचिता) सूर्यकान्तमणिभिर् विभूषिता ॥
<आ कृष्ण> पूर्वं यदिवा ऽप्य् मन्त्रं समावर्त्य रवेः पुरस्तात् ।
क्षीरौदनेन प्रतिपूज्य यायात् प्राचीम् पुरस्कृत्य दिनेशशक्रौ ॥
अग्नेस् तनुः कनकेनैव कार्या रक्तआ(रक्तं) ध्वजं कुसुमं चन्दनं च ।
आज्यम् बलिर् हुतभुग्विजिगीषोर्(हुतभुग्दिग्जिगीषोर्) मन्त्रो(मन्त्रं) पिबेति(पठेच् च) ॥
कार्यश् चित्रो दितिसुतगुरुर् वामयोर्षाद्धकायो(यमो वा ऽर्धकायो) नानारूपाः कुसुमभलयस् तस्य चित्रो ध्वजश् च ।
<शुक्रज्योतिः> प्रभृति च जपेन्(पठेन्) मन्त्रम् अस्य ऽग्रतस् तौ कृत्वा ।
यायाद् भृगुजदहनौ जेतुम् इच्छुस्(इच्छंस्) तद् आशाम् ॥
अयोमयम् प्रोद्यतदण्डहस्तं यमं सकृष्णध्वजपुष्पगन्धम्(सकृष्ण-.ध्वज-.पुष्प-.गन्धैः) ।
तिलौदनैर्(तिलोदनैर्) अर्च्य समांसमद्यैर् च जपो ऽस्य कार्यः ॥
मूर्त्तिः स्याद् रुधिराख्यसंज्ञमणिना(रुधिराक्षसंज्ञमणिना) ।
भौमस्य रक्ताः स्रजो रक्तानि ध्वजचन्दनानि कुसुमैः पक्वान्नमांसैर् बलिः ।
पदैः स्तुतिः क्षितिसुतस्यैवं यमाङ्गारकौ दिङ्नाथौ गमने ऽग्रतो नरपतिः कृत्वा व्रजेद् दक्षिणम्(दक्षिणाम्) ॥
भैरवाप्रतिकृतिः पटे कृता सर्वगन्ध(पुष्प)फलपुष्प(धूप)पूजिता ।
निरृतिमन्त्रचोदना कृष्णरक्तकुसुमध्वजाम्बरा ॥
सुरदारुमयः शशाङ्कशत्रुः कुसुमाद्यैर् असितैः कृतोपहारः ।
निरृतिसहितः(निरृतेर् महितः) स्वदिक्प्रयाणे स्तुतिमन्त्रो ऽस्य च कीर्तितः  ॥
पश्चाद् व्रजेद् रजतमयं जलेश्वरं पाशान्वितम् सह गदया ऽब्जपूजितम् ।
कृत्वौदनैर् बलिम् अपि यावाकान्वितं(यावाकाचितं) वरुण(वरुणं) इति स्तुयाद् द्विजः ॥
सौरेर् अर्चा नीलकाचा ऋशाङ्गी पूज्या कृष्णैर् वस्त्रमाल्योपहारैः ।
<शं नो देवी> ऽत्य् एष मन्त्रो ऽपराशां जेतुं यायात् तौ पुरस्कृत्य देवौ ॥
वायोर् मूर्त्तिः श्वेतमृद्भिर् विधेया पूज्या श्वेतैः पुष्पवस्त्रध्वजाद्यैः ।
मन्त्रो ऽति जाप्यो वायव्याशाम् प्रस्थितस्ये ऽऽश्वरस्य ॥
मन्त्रः सोमस्या <ऽऽप्यायस्वे> ऽत्य् अन्यच् छ्वेतं स्रग्वस्त्राद्यम् ।
वायुं सोमं च ऽग्रे कृत्वा यायाद् राजा वायोः काष्ठाम् ॥
हाटकमूर्तिं(हाटकीम् मूर्तिं) कुर्याद् धनदस्य विभूषितां(भूषितां) रत्नैः सगदाञ् च(सर्वैः सगदां च) ।
पूजितां स्रग्वस्त्राद्यैश् च विचित्रै ऽत्य् एष हि मन्त्रः ॥
सौवर्णं रजतासने नृमिथुनं चन्द्रात्मजस्येष्यते हारिद्रौदन-.
मिष्ट-.गन्ध-.कुसुमैर् गन्धैश् च संपूजितम्(तत् पूजितम्) ।
जपश् च तस्य कथितः स्याद् ब्रह्मयज्ञेति च(ब्रह्मयज्ञादिना)
गच्छेद् उत्तरतो धनेश्वरबुधौ ध्यायन् पुरस्कृत्य च ॥
गोत्वग्जाप्यति भैरवा(गोत्वग्जा प्रतिभैरवा) प्रतिकृतिर् भस्मोत्कटा
शूलिनो दध्ना चोदनषंयुतेन च(ओमित्तेद्) बलिर्(बलिभिर्) मन्त्रो  ।
मूर्त्तिः स्यान् मणितो गुरोर् विमलिका(विमलकात्) पीतं तु
वस्त्रादिकं(वस्त्रादि यन्) मन्त्रश् च ऽस्य इति तयोर् यायाद् दिशम् पूज्य तौ ॥
दिङ्नाथं कुलदेवतां स्वनगरे येषां कृताच् च ऽऽलयास्
तान् सम्पूज्य यथानुरूप-.बलिभिर् दद्याद् बलिम् भौतिकीम्(भौतिकम्) ।
कृत्वा पायसमद्यमांसपललैर् भक्ष्यैश् च नानाविधैर् बालकृईडनकैः
सुगन्धकुसुमैर्(सुगन्धिकुसुमैर्) मूलैः फलैः स्वादुभिः ॥
रथ्यापुरद्वारनदीतटेषु चतुष्पथाट्टालकनिःकुटेषु ।
गुहैकवृक्षादिषु ये वसन्ति ते पूजनीयाः प्रमथा यथावत् ॥
कुबेररुद्राहिसुपर्णशक्तिभृत्पिशाचदैत्यानुचराश् च ये गणाः> ॥
पवनसदृशवेगा मानिनो नित्यहृष्टास् तरुणदिनकरत्विट्स्पर्धितेजोदधाणाः> ॥
नानापक्षिव्यालोष्ट्रास्या वक्त्रैर् हीनाः क्रोडास्याश् च> ॥
विकटा मुकुटोत्कटरत्नभृतस् तरुणार्कतडिद्धुतभुक्कपिलाः> ॥
अशनिनिपातस्वनसनिनादा(मनादा) द्रुतगमने च स्व(श्व)सनमनोगाः> ॥
कणय(कणप)परिघकुन्तमुष्टिमाया लगुडकुठारशतघ्नीधारिणश् च> ॥
जित्वा ऽरीन् द्विगुणम् अतो बलिं विचित्रं दास्यामः स्वविषयम् एत्य वः प्रसादात्> ॥
रक्षार्थम् मनुजपतेः सहायकृत्यं क्रुवीध्वं रिपुबलसंक्षयाय च ऽस्य> ॥
एवं भवत्य् उपकृतं सुमहद् भवद्भिः कार्यं करिष्यति यथा भवतां प्रसादात्> ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-11-14T09:06:57.3400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

गोट काढणें

  • (भिल्‍ली) वाङ्‌निश्र्चय करणें 
  • लग्‍न जुळविणें. ‘गेले साली त्‍याने माझा गोट काढला होता. याचा अर्थ मी इच्छा दर्शविल्‍यावर पहाडजीने माझ्याशी लग्‍न करावयाचें.’ -पाणकळा १९८. 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.