TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अर्थशास्त्रम् अध्याय ०३ - भाग १४

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


भाग १४
१४.०१
गृहीत्वा वेतनं कर्म_अकुर्वतो भृतकस्य द्वादश.पणो दण्डः, संरोधश् च_आ.करणात् ॥

१४.०२
अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा_अनुशयं लभेत, परेण वा कारयितुम् ॥

१४.०३
तस्य.व्यय.कर्मणा लभेत भर्ता वा कारयितुम् ॥

१४.०४
"न_अन्यस् त्वया कारयितव्यो, मया वा न_अन्यस्य कर्तव्यम्" इत्य् अवरोधे भर्तुर् अकारयतो भृतकस्य_अकुर्वतो वा द्वादश.पणो दण्डः ॥

१४.०५
कर्म.निष्ठापने भर्तुर् अन्यत्र गृहीत.वेतनो न_असकामः कुर्यात् ॥

१४.०६
"उपस्थितम् अकारयतः कृतम् एव विद्याद्" इत्य् आचार्याः ॥

१४.०७
न_इति कौटिल्यः ॥

१४.०८
कृतस्य वेतनं न_अकृतस्य_अस्ति ॥

१४.०९
स चेद् अल्पम् अपि कारयित्वा न कारयेत् कृतम् एव_अस्य विद्यात् ॥

१४.१०
देश.काल.अतिपातनेन कर्मणाम् अन्यथा.करणे वा न_असकामः कृतम् अनुमन्येत ॥

१४.११
सम्भाषिताद् अधिक.क्रियायां प्रयासं न मोघं कुर्यात् ॥

१४.१२
तेन संघ.भृता व्याख्याताः ॥

१४.१३
तेषाम् आधिः सप्त.रात्रम् आसीत ॥

१४.१४
ततो_अन्यम् उपस्थापयेत्, कर्म.निष्पाकं च ॥

१४.१५
न च_अनिवेद्य भर्तुः संघः कंचित् परिहरेद् उपनयेद् वा ॥

१४.१६
तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः ॥

१४.१७
संघेन परिहृतस्य_अर्ध.दण्डः ॥ इति भृतक.अधिकारः ॥

१४.१८
संघ.भृताः सम्भूय.समुत्थातारो वा यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥

१४.१९
कर्षण.वैदेहका वा सस्य.पण्य.आरम्भ.पर्यवसान.अन्तरे सन्नस्य यथा.कृतस्य कर्मणः प्रत्यंशं दद्युः ॥

१४.२०
पुरुष.उपस्थाने समग्रम् अंशं दद्युः ॥

१४.२१
संसिद्धे तु_उद्धृत.पण्ये सन्नस्य तदानीम् एव प्रत्यंशं दद्युः ॥

१४.२२
सामान्या हि पथि.सिद्धिश् च_असिद्धिश् च ॥

१४.२३
प्रक्रान्ते तु कर्मणि स्वस्थस्य_अपक्रामतो द्वादश.पणो दण्डः ॥

१४.२४
न च प्राकाम्यम् अपक्रमणे ॥

१४.२५
चोरं त्व् अभय.पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशम् अभयं च ॥

१४.२६
पुनः.स्तेये प्रवासनम्, अन्यत्र.गमने च ॥

१४.२७
महा.अपराधे तु दूष्यवद् आचरेत् ॥

१४.२८
याजकाः स्वा.प्रचार.द्रव्य.वर्जं यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥

१४.२९
अग्निष्टोम.आदिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयम् अंशं, मध्यम.उपसद ऊर्ध्वम् अर्धम् अंशं, सुत्ये प्रातः.सवनाद् ऊर्ध्वं पाद.ऊनम् अंशम् ॥

१४.३०
माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रम् अंशं लभेत ॥

१४.३१
नीता हि दक्षिणा भवन्ति ॥

१४.३२
बृहस्पति.सव.वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥

१४.३३
तेन_अहर्.गण.दक्षिणा व्याख्याताः ॥

१४.३४
सनानाम् आ.दश.अहो.रात्रात्_शेष.भृताः कर्म कुर्युः, अन्ये वा स्व.प्रत्ययाः ॥

१४.३५
कर्मण्य् असमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥

१४.३६
असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस.दण्डः ॥

१४.३७
अनाहित.अग्निः शत.गुरु.यज्वा च सहस्रगुः ।

१४.३७
सुरापो वृषली.भर्ता ब्रह्महा गुरु.तल्पगः ॥

१४.३८
असत्.प्रतिग्रहे युक्तः स्तेनः कुत्सित.याजकः ।

१४.३८
अदोषस् त्यक्तुम् अन्योन्यं कर्म.संकर.निश्चयात् ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:48:22.2030000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

resonant

  • संस्पंदी 
  • अनुस्पंदनी, सहस्पंदित 
  • (भाशा.) नादक 
  • संस्पंदी 
More meanings
RANDOM WORD

Did you know?

कपिलाषष्ठीचा योग म्हणजे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.